विशोकसप्तमीव्रतकथनम्।
ईश्वर उवाच।
विशोकसप्तमीं तद्वद्वक्ष्यामि मुनिपुङ्गव!।
यामुपोष्य नरः शोकं न कदाचिदिहाश्नुते॥ ७५.१ ॥
माघे कृष्णतिलैः स्नात्वा षष्ठ्यां वै शुक्लपक्षतः।
कृताहारः कृसरया दन्तधावनपूर्वकम्॥
उपवासव्रतं कृत्वा ब्रह्मचारी भवेन्निशि॥ ७५.२ ॥
ततः प्रभाते उत्थाय कृतस्नानजपः शुचिः।
कृत्वा तु काञ्चनं पद्ममर्कायेति च पूजयेत्॥ ७५.३ ॥
करवीरेण रक्तेन रक्तवस्त्रयुगेन च।
यथा विशोकं भुवनं त्वयैवादित्य! सर्वदा॥
तथा विशोकता मेऽस्तु त्वद्भक्तिः प्रतिजन्म च॥ ७५.४ ॥
एवं सम्पूज्य षष्ठ्यान्तु भक्त्या सम्पूजयेद् द्विजान्।
सुप्त्वा सम्प्राश्य गोमूत्रमुत्थाय कृतनैत्यकः॥ ७५.५ ॥
सम्पूज्य विप्रानन्नेन गुडपात्रसमन्वितम्।
तद्वस्त्रयुग्मं पद्मञ्च ब्राह्मणाय निवेदयेत्॥ ७५.६ ॥
अतैललवणं भुक्त्वा सप्तम्यां मौनसंयुतः।
ततः पुराणश्रवणं कर्तव्यं भूतिमिच्छता॥ ७५.७ ॥
अनेन विधिना सर्वमुभयोरपि पक्षयोः।
कृत्वा यावत् पुनर्माघशुक्लपक्षस्य सप्तमी॥ ७५.८ ॥
व्रतान्ते कलशन्दद्यात् सुवर्णकमलान्वितम्।
शय्यां सोपस्करान्दद्यात् कपिलाञ्च पयस्विनीम्॥ ७५.९ ॥
अनेन विधिना यस्तु वित्तशाठ्यविवर्जितः।
विशोकसप्तमीं कुर्यात् स याति परमाङ्गतिम्॥ ७५.१० ॥
यावज्जन्मसहस्राणां साग्रं कोटिशतं भवेत्।
तावन्नशोकमभ्येति रोगदौर्गत्यवर्जितः॥ ७५.११ ॥
यं यं प्रार्थयते कामं तन्तमाप्नोति पुष्कलम्।
निष्कामः कुरुते यस्तु स परं ब्रह्म गच्छति॥ ७५.१२ ॥
यः पठेच्छृणुयाद्वापि विशोकाख्याञ्च सप्तमीम्।
सोऽपीन्द्रलोकमाप्नोति न दुःखी जायते क्वचित्॥ ७५.१३ ॥