०७४

कल्याणसप्तमीव्रतकथनम्।

ब्रह्मोवाच।
भगवन्! भव! संसार सागरोत्तराकारक!।
किञ्चिद्‌ व्रतं समाचक्ष्व स्वर्गारोग्यसुखप्रदम्।. ७४.१ ॥

ईश्वर उवाच।
सौरं धर्मं प्रवक्ष्यामि नाम्ना कल्याणसप्तमीम्।
विशोकसप्तमीं तद्वत् फलाढ्यां पापनाशिनीम्॥ ७४.२ ॥

शर्करासप्तमीं पुण्यां तथा कमलसप्तमीम्।
मन्दारसप्तमीं तद्वच्छुभदां शुभसप्तमीम्॥ ७४.३ ॥

सर्वाननन्तफलाः प्रोक्ताः सर्वा देवर्षिपूजिताः।
विधानमासां वक्ष्यामि यथावदनुपूर्वशः॥ ७४.४ ॥

यदा तु शुक्लसप्तम्यामादित्यस्य दिनं भवेत्।
सातु कल्याणिनी नाम विजया च निगद्यते॥ ७४.५ ॥

प्रातर्गव्ये पयसा स्नानमस्यां समाचरेत्।
ततः शुक्लाम्वरः पद्ममक्षताभिः प्रकल्पयेत्॥ ७४.६ ॥

प्राङ्‌मुखोऽष्टदलं मध्ये तद्वद् वृत्ताञ्च कर्णिकाम्।
पुष्पाक्षताभिर्देवेशं विन्यसेत् सर्वतः क्रमात्॥ ७४.७ ॥

पूर्वेण तपनायेति मार्त्तण्डायेति चानले।
याम्ये दिवाकरायेति विधात्र इति नैर्ऋते॥ ७४.८ ॥

पश्चिमे वरुणायेति भास्करायेति चानिले।
सोम्ये वेकर्तनायेति रवये चाष्टमे दले॥ ७४.९ ॥

आदावन्ते च मध्ये च नमोऽस्तु परमात्मने।
मन्त्रैरेभिः समभ्यर्च्य नमस्कारान्तदीपितैः॥ ७४.१० ॥

शुक्लवस्त्रैः फलैर्भक्ष्यैर्धूपमाल्यानुलेपनैः।
स्थण्डिले पूजयेद् भक्त्या गुडेन लवणेन च॥ ७४.११ ॥

ततो व्याहृतिमन्त्रेण विसर्जेद्‌ द्विजपुङ्गवान्।
शक्तितः पूजयेद् भक्त्या गुडक्षीरघृतादिभिः॥
तिलपात्रं हिरण्यं च ब्राह्मणाय निवेदयेत्॥ ७४.१२ ॥

एवं नियमकृत्‌ सुप्त्वा प्रातरुत्थाय मानवः।
कृतस्नानजपो विप्रैः सहैव घृतपायसम्॥ ७४.१३ ॥

भुक्त्वा च वेदविदुषि बिडालव्रतवर्जिते।
घृतपात्रं सकनकं सोदकुम्भं निवेदयेत्॥ ७४.१४ ॥

प्रीयतामत्र भगवान् परमात्मा दिवाकरः।
अनेन विधिना सर्वं मासिमासि व्रतं चरेत्॥ ७४.१५ ॥

ततस्त्रयोदशे मासि गा वै दद्यात्त्रयोदश।
वस्त्रालङ्गारसंयुक्ताः सुवर्णास्याः पयस्विनीः॥ ७४.१६ ॥

एकामपि प्रदद्याद्वा वित्तहीनो विमत्सरः।
न वित्तशाठ्यं कुर्वीत यतो मोहात् पतत्यधः॥ ७४.१७ ॥

अनेन विधिनायस्तु कुर्यान् कल्याणसप्तमीम्।
सर्वपापविनिर्मुक्तः सूर्य्यलोके महीयते॥
आयुरारोग्यमैश्वर्यमनन्तमिह जायते॥ ७४.१८ ॥

सर्वपापहरा नित्यं सर्वदैवतपूजिता।
सर्वदुष्टोपशमनी सदा कल्याणसप्तमी॥ ७४.१९ ॥

इमामनन्तफलदां यस्तु कल्याणसप्तमीम्।
श्रृणोति पठते चेह सर्वपापैः प्रमुच्यते॥ ७४.२० ॥