शुक्रगुरुप्रशान्तिकथनम्।
पिप्पलाद उवाच।
अथातः श्रृणु भूपाल! प्रति शुक्रं प्रशान्तये।
यत्रारम्भेऽवसाने च तथा शुक्रोदये त्विहा॥ ७३.१ ॥
राजतेवाथ सौवर्णे कांस्यपात्रेऽथ वा पुनः।
शुक्लपुष्पाम्बरयुते सिततण्डुलपूरिते॥ ७३.२ ॥
विधाय राजतं शुक्रं शुचि मुक्ताफलान्वितम्।
मन्त्रेणानेन तत्सर्वं सामगाय निवेदयेत्॥ ७३.३ ॥
नमस्ते सर्वलोकेश! नमस्ते भृगुनन्दन!
कवे! सर्वार्थसिद्ध्यर्थं गृहाणार्घ्यं नमोऽस्तु ते॥ ७३.४ ॥
एवमस्योदये कुर्वन् यात्रादिषु च भारत!।
सर्वान् कामानवाप्नोति विष्णुलोकेमहीयते॥ ७३.५ ॥
यावच्छुकस्य न हृता पूजा सापाल्यकैः शुभैः।
वटकैः पूरिकाभिश्च गोधूमैश्चणकैरपि।
तावदन्नं नचाश्नीयात् त्रिभिः कामार्थसिद्धये॥ ७३.६ ॥
तद्वद्वाचस्पतेः पूजां प्रवक्ष्यामि युधिष्ठिर!।
सुवर्णपात्रे सौवर्णममरेशपुरोहितम्॥ ७३.७ ॥
पीतपुष्पाम्बरयुतं कृत्वा स्नात्वाथ सर्षपैः।
पलाशाश्वत्थयोगेन पञ्चगव्यजलेन च॥ ७३.८ ॥
पीताङ्गरागवसनो घृतहोमन्तु कारयेत्।
प्रणम्य च गवा सार्द्धं ब्राह्मणाय निवेदयेत्॥ ७३.९ ॥
नमस्तेऽङ्गिरसान्नाथ! वाक्पते! च बृहस्पते!।
क्रूरग्रहैः पीडितानाममृताय नमो नमः॥ ७३.१० ॥
सङ्क्रान्तावस्य कौन्तेय! यात्रास्वभ्युदयेषु च।
कुर्वन् बृहस्पतेः पूजां सर्वान् कामान् समश्नुते॥ ७३.११ ॥