अङ्गारकव्रतकथनम्।
ईश्वर उवाच।
श्रृणु चान्यद् भविष्यं यद्रूपसम्पद्विधायकम्।
भविष्यति युगे तस्मिन् द्वापरान्ते पितामह॥
पिप्पलादस्य संवादो युधिष्ठिरपुरःसरैः ॥ ७२.१ ॥
वसन्तं नैमिषारण्ये पिप्पलादं महामुनिम्।
अधिगम्य तदा चैनं प्रश्नमेकं करिष्यति।
युधिष्ठिरो धर्म्मपुत्रो धर्मयुक्तस्तपोधनम्॥ ७२.२ ॥
युधिष्ठिर उवाच।
कथमारोग्यमैश्वर्यं मतिर्धर्म्मेगतिस्तथा।
अव्यङ्गता शिवे भक्तिर्वैष्णवो वा भवेत् कथम्॥ ७२.३ ॥
ईश्वर उवाच।
तस्योत्तरमिदं ब्रह्मन्! पिप्पलादस्य धीमतः।
श्रृणुष्व यद्वक्ष्यति वै धर्म्मपुत्राय धार्मिकः॥ ७२.४ ॥
पिप्पलाद उवाच।
साधु पृष्टं त्वया भद्र! इदानीं कथयामि ते।
अङ्गारव्रतमित्येतत् स वक्ष्यति महीपतेः॥ ७२.५ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
विरोचनस्य सम्वादं भार्गवस्य च धीमतः॥ ७२.६ ॥
प्रह्लादस्य सुतं द्रृष्ट्वा द्विरष्टपरिवत्सरम्।
रूपेणाप्रतिमं कान्त्या सोऽहसद्भृगुनन्दनः॥ ७२.७ ॥
साधु साधु महाबाहो! विरोचन ! शिवं तव।
तत्तथा हसितं तस्य पप्रच्छ सुरसूदनः॥ ७२.८ ॥
ब्रह्मन्! किमर्थमेतत्ते हास्यमाकस्मिकं कृतम्।
साधु साध्विति मामेवमुक्तवांस्त्वं वदस्व मे॥ ७२.९ ॥
तमेवं वादिनं शुक्र उवाच वदताम्वरः।
विस्मयाद् व्रतमाहात्म्याद्धास्यमेतत् कृतं मया॥ ७२.१० ॥
पुरा दक्षविनाशाय कुपितस्य तु शूलिनः।
अथ तद्भीमवक्त्रस्य स्वेदबिन्दुर्ललाटजः॥ ७२.११ ॥
भित्वा स सप्तपातालानदहत्सप्त सागरान्।
अनेकवक्त्रनयनो ज्वलज्ज्वलनभीषणः॥ ७२.१२ ॥
वीरभद्र इति ख्यातः करपादायुतैर्युतः।
कृत्वासौ यज्ञमथनं पुनर्भूतलसम्भवः।
त्रिजगन्निर्दहन् भूयः शिवेन विनिवारितः॥ ७२.१३ ॥
कृतं त्वया वीरभद्र! दक्षयज्ञविनाशनम्।
इदानीमलमेतेन लोकदाहेन कर्म्मणा॥ ७२.१४ ॥
शान्तिप्रदाता सर्वेषां ग्रहाणां प्रथमो भव।
प्रेक्षिष्यन्ते जनाः पूजां करिष्यन्ति वरान् मम॥ ७२.१५ ॥
अङ्गारक इति ख्यातिं गमिष्यसि धरात्मज।
देवलोके द्वितीयञ्च तव रूपं भविष्यति॥ ७२.१६ ॥
ये च त्वां पूजयिष्यन्ति चतुर्थ्यां त्वद्दिने नराः।
रूपमारोग्यमैश्वर्यं तेष्वनन्तं भविष्यति॥ ७२.१७ ॥
एवमुक्तस्तदा शान्तिमगमत्कामरूपधृक्।
सञ्जातस्तत्क्षणाद्राजन्!ग्रहत्वमगमत् पुनः॥ ७२.१८ ॥
स कदाचित् भवांस्तस्य पूजार्घ्यादिकमुत्तमम्।
द्रृष्टवान् क्रियमाणञ्च शूद्रेण च व्यवस्थितः॥ ७२.१९ ॥
तेन त्वं रूपवान् जातः सुरशत्रुकुलोद्वह।
विविधा च रुचिर्जाता यस्मात् तव विदूरगा॥ ७२.२० ॥
विरोचन इति प्राहुर्यस्मात् त्वां देवदानवाः।
शूद्रेण क्रियमाणस्य व्रतस्य तव दर्शनात्॥ ७२.२१ ॥
ईद्रृशीं रूपसम्पत्तिं द्रृष्ट्वा विस्मितवानहम्।
साधु साध्विति तेनोक्तं मही माहात्म्यमुत्तमम्॥
पश्यतोऽपि भवेद्रूपमैश्वर्यं किमु कुर्वतः॥ ७२.२२ ॥
यस्माच्च भक्त्या धरणीसुतस्य विनिन्द्यमानेन गवादिदानम्।
आलोकितन्तेन सुरारिगर्भे सम्भूतिरेषा तव दैत्य! जाता॥ ७२.२३ ॥
ईश्वर उवाच।
अथ तद्वचनं श्रुत्वा भार्गवस्य महात्मनः।
प्रह्लादनन्दनो वीरः पुनः पप्रच्छ विस्मितः॥ ७२.२४ ॥
विरोचन उवाच।
भगवंस्तद् व्रतं सम्यक् श्रोतुमिच्छामि तत्त्वतः।
दीयमानन्तु यद्दानं मया द्रृष्टं भवान्तरे॥ ७२.२५ ॥
माहात्म्यञ्च विधिं तस्य यथावद्वक्तुमर्हसि।
इति तद्वचनं श्रुत्वा पुनः प्रोवाच विस्तरात्॥ ७२.२६ ॥
शुक्र उवाच।
चतुर्थ्यङ्गारकदिने यदा भवति दानव।
मृदा स्नानां तदा कुर्यात् पद्मरागविभूषितः॥ ७२.२७ ॥
अग्निर्मूर्द्धादिवो मन्त्रं जपन्नास्ते उदङ्मुखः।
शूद्रस्तूष्णीं स्मरन् भौममास्ते भोगविवर्जितः॥ ७२.२८ ॥
तथास्तमित आदित्ये गोमयेनानुलेपयेत्।
प्राङ्गणं पुष्पमालाभिरक्षताभिः समन्ततः॥ ७२.२९ ॥
अभ्यर्च्याभि लिखेत् पद्मं कुङ्कुमेनाष्टपत्रकम्।
कुङ्कुमस्याप्यभावे तु रक्तचन्दनमिष्यते॥ ७२.३० ॥
चत्वारः करकाः कार्या भक्ष्यभोज्यसमन्विताः।
तण्डुलैरक्तशालीयैः पद्मरागैश्च संयुताः॥ ७२.३१ ॥
चतुः कोणेषु तान् कृत्वा फलानि विविधानि च।
गन्धमाल्यादिकं सर्वं तथैव विनिवेदयेत्॥ ७२.३२ ॥
सुवर्णश्रृङ्गीं कपिलामथार्च्य रौप्यैः खुरैः कांस्यदोहां सवत्साम्।
धुरन्धरं रक्तमतीव सौम्यं दान्यानि सप्ताम्बरसंयुतानि॥ ७२.३३ ॥
अङ्गुष्ठमात्रं पुरुषं तथैव सौवर्णमत्यायतबाहुदण्डम्।
चतुर्भुजं हेममये निविष्टं पात्रे गुडस्योपरि सर्पियुक्तम्॥ ७२.३४ ॥
समस्तयज्ञाय जितेन्द्रियाय पात्राय शीलान्वयसंयुताय।
दातव्यमेतत् सकलं द्विजाय कुटुम्बिने नैव तु दाम्भिकाय।
समर्पयेद्विप्रवराय भक्त्या कृताञ्जलिः पूर्वमुदीर्य मन्त्रम्॥ ७२.३५ ॥
भूमिपुत्र! महाभाग! स्वेदोद्भव! पिनाकिनः।
रूपार्थी त्वां प्रपन्नोऽहं गृहाणार्घ्यं नमोऽस्तु ते॥ ७२.३६ ॥
मन्त्रेणानेन दत्त्वार्घ्यं रक्तचन्दनवारिणा।
ततोऽर्चयेद्विप्रवरं रक्तमाल्याम्बरादिभिः॥ ७२.३७ ॥
दद्यात्तेनैव मन्त्रेण भौमङ्गोमिथुनान्वितम्।
शय्यां च शक्तितो दद्यात् सर्वोपस्करसंयुताम्॥ ७२.३८ ॥
यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे।
तत्तद्गुणवते देयन्तदेवाक्षयमिच्छता॥ ७२.३९ ॥
प्रदक्षिणां ततः कृत्वा विसर्ज्य द्विजपुङ्गवम्।
नक्तमक्षारलवणमश्नीयाद् घृतसंयुतम्॥ ७२.४० ॥
भक्त्या यस्तु पुनः कुर्यादेवमङ्गारकाष्टकम्।
चतुरो वाथ वा तस्य यत्पुण्यं तद्वदामि ते॥ ७२.४१ ॥
रूपसौभाग्यसम्पन्नः पुनर्जन्मनि जन्मनि।
विष्णौ वाऽथ शिवे भक्तः सप्तद्वीपाधिपो भवेत्॥ ७२.४२ ॥
सप्तकल्पसहस्राणि रुद्रलोके महीयते।
तस्मात्त्वमपि दैत्येन्द्र! व्रतमेतत् समाचर॥ ७२.४३ ॥
पिप्पलाद उवाच।
इत्येवमुक्त्वा भृगुनन्दनोऽपि जगाम दैत्यश्च चकार सर्वम्।
त्वं चापि राजन्! कुरु सर्वमेतद्यतोऽक्षयं वेदविदो वदन्ति॥ ७२.४४ ॥
ईश्वर उवाच।
तथेति सम्पूज्य स पिप्पलादं वाक्यञ्चकाराद्भुतवीर्यकर्मा।
श्रृणोति यश्चैनमनन्यचेतास्तस्यापि सिद्धिं भगवान् विधत्ते॥ ७२.४५ ॥