०७१

अशून्यशयनव्रतकथनम् ।

ब्रह्मोवाच।
भगवन् पुरुषस्येह स्त्रियाश्च विराहादिकम्।
शोकव्याधिभयं दुःखं न भवेद्येन तद्वद॥ ७१.१ ॥

श्रीभगवानुवाच।
श्रावणस्य द्वितीयायां कृष्णायां मधुसूदनः।
क्षीरार्णवे सपत्नीकः सदा वसति केशवः॥ ७१.२ ॥

तस्यां सम्पूज्य गोविन्दं सर्वान् कामान् समश्नुते।
गोभूहिरण्यदानादि सप्तकल्पशतानुगम्॥ ७१.३ ॥

अशून्यशयनं नाम द्वितीया सम्प्रकीर्त्तिता।
तस्यां सम्पूजयेद्विष्णुमेभिर्मन्त्रैर्विधानतः॥ ७१.४ ॥

श्रीवत्सधारिन्! श्रीकान्त! श्रीधामन्!श्रीपतेऽव्यय!।
गार्हस्थ्यं मा प्रणाशं मे यातु धर्म्मार्थकामदम्॥ ७१.५ ॥

अग्नयो मा प्रणश्यन्तु देवताः पुरुषोत्तम!।
पितरो मा प्रणश्यन्तु मास्तु दाम्पत्यभेदनम्॥ ७१.६ ॥

लक्ष्म्या वियुज्य ते देव! न कदाचिद्यथा भवान्।
तथा कलत्र सम्बन्धो देव! मा मे वियुज्यताम्॥ ७१.७ ॥

लक्ष्म्या न शून्यो वरद! श्य्यां त्वं शयनं गतः।
शय्याममाप्यशून्यास्तु तथैव मधुसूदन!॥ ७१.८ ॥

गीतवादित्रनिर्घोषं देवदेवस्य कीर्त्तयेत्।
घण्टाभवेदशक्तस्य सर्ववाद्यमयी यतः॥ ७१.९ ॥

एवं सम्पूज्य गोविन्दमश्नीयात्तैलवर्जितम्।
नक्तमक्षारलवणं यावत्तत्स्याच्चतुष्टयम्॥ ७१.१० ॥

ततः प्रभावे सञ्जाते लक्ष्मीपतिसमन्विताम्।
दीपान्नभाजनैर्युक्तां शय्यां दद्याद्विलक्षणाम्॥ ७१.११ ॥

पादुकोपानहच्छत्रचामरासनसंयुताम्।
अभीष्टोपस्करैर्युक्तां शुक्लपुष्पाम्बरावृताम्॥ ७१.१२ ॥

सोपधानकविश्रामां फलैर्नानाविधैर्युताम्।
तथाभरणधान्यैश्च यथाशक्त्या समन्विताम्॥ ७१.१३ ॥

अव्यङ्गाङ्गाय विप्राय वैष्णवाय कुटुम्बिने।
दातव्या वेदविदुषे भावेनापतिताय च॥ ७१.१४ ॥

तत्रोपविश्यदाम्पत्यमलङ्कृत्य विधानतः।
पत्न्यास्तु भाजनं दद्यात् भक्ष्यभोज्यसमन्वितम्॥ ७१.१५ ॥

ब्राह्मणस्यापि सौवर्णीमुपस्करसमन्विताम्।
प्रतिमां देवदेवस्य सोदकुम्भां निवेदयेत्॥ ७१.१६ ॥

एवं यस्तु पुमान् कुर्य्यादशून्यशयनं हरेः।
वित्तशाठ्येन रहितो नारायणपरायणः॥ ७१.१७ ॥

नारीवा विधवा ब्रह्मन्! यावच्चन्द्रार्कतारकम्।
न विरूपौ न शोकार्त्ती दम्पती भवतः क्वचित्॥ ७१.१८ ॥

न पुत्रपशुरत्नानि क्षयं यान्ति पितामह!।
सप्तकल्पसहस्राणि सप्तकल्पशतानि च॥
कुर्वन्नशून्यशयनं विष्णुलोके महीयते॥ ७१.१९ ॥