पुण्यस्त्रीणां सदाचारव्रतकथनम्।
ब्रह्मोवाच।
वर्णाश्रमाणां प्रभवः पुराणेषु मया श्रुतः।
सदाचारस्य भगवन्! धर्मशास्त्रविनिश्चयः।
पुण्यस्त्रीणां सदाचारं श्रोतुमिच्छामि तत्त्वतः॥ ७०.१ ॥
ईश्वर उवाच।
तस्मिन्नेव युगे ब्रह्मन्! सहस्राणि तु षोडश ।
वासुदेवस्य नारीणां भविष्यन्त्यम्बुजोद्भव॥ ७०.२ ॥
ताभिर्वसन्तसमये कोकिलालिकुलाकुले।
पुष्पिते पवनोत्फुल्लकल्हारसरसस्तटे॥ ७०.३ ॥
निर्भरापानगोष्ठीषु प्रसक्ताभिरलङ्कृतः।
कुरङ्गनयनः श्रीमान् मालतीकृतशेखरः॥ ७०.४ ॥
गच्छन् समीपमार्गेण साम्बः परपुरञ्जयः।
साक्षात्कन्दर्परूपेण सर्वाभरणभूषितः॥ ७०.५ ॥
अनङ्गशरतप्ताभिः साभिलाषमवेक्षितः।
प्रवृद्धो मन्मथस्तासां भविष्यति यदात्मनि॥ ७०.६ ॥
तदावेक्ष्य जगन्नाथः सर्वतो ध्यानचक्षुषा।
शापं वक्ष्यति ताः सर्वा वो हरिष्यन्ति दस्यवः।
मत्परोक्षं यतः कामलौल्यादीद्रृग्विधं कृतम्॥ ७०.७ ॥
ततः प्रसादितो देव इदं वक्ष्यति शार्ङ्गभृत्।
ताभिः शापाभितप्ताभिर्भगवान् भूतभावनः॥ ७०.८ ॥
उत्तारभूतन्दासत्वं समुद्राद् ब्राह्मणः प्रियः।
उपदेक्ष्यत्यनन्तात्मा भाविकल्याणकारकम्॥ ७०.९ ॥
भवतीनामृषिर्दाल्भ्यो यद्व्रतं कथयिष्यति।
तदेवोत्तारणायालं दासत्वेऽपि भविष्यति।
इत्युक्त्वा ताः परिष्वज्य गतो द्वारवतीश्वरः॥ ७०.१० ॥
ततः कालेन महता भारावतरणे कृते।
निवृते मौसले तद्वत् केशवे दिवमागते॥ ७०.११ ॥
शून्ये यदुकुले सर्वैश्चौरैरपि जितेऽर्जुने।
हृतासु कृष्णपत्नीषु दासभोग्यासु चाम्बुधौ॥ ७०.१२ ॥
तिष्ठन्तीषु च दौर्गत्य सन्तप्तासु चतुर्मुख!।
आगमिष्यति योगात्मा दाल्भ्यो नाम महातपाः॥ ७०.१३ ॥
तास्तमर्घ्येण सम्पूज्य प्रणिपत्य पुनः पुनः।
लालप्यमाना बहुशो बाष्पपर्याकुलेक्षणाः॥ ७०.१४ ॥
स्मरन्त्यो विपुलान् भोगान् दिव्यमाल्यानुलेपनम्।
भर्तारञ्जगतामीशमनन्तमपराजितम्॥ ७०.१५ ॥
दिव्यभावान्ताञ्च पुरीं नानारत्नगृहाणि च।
द्वारकावासिनः सर्वान् देवरूपान् कुमारकान्॥
प्रश्नमेवं करिष्यन्ति मुनेरभिमुखं स्थिताः॥ ७०.१६ ॥
स्त्रिय ऊचुः।
दस्युभिर्भगवन्! सर्वाः परिभुक्ता वयं बलात्।
स्वधर्माच्च्यवतेऽस्माकमस्मिन्वः शरणं भव॥ ७०.१७ ॥
आदिष्टोऽसि पुरा ब्रह्मन्! केशवेन च धीमता।
कस्मादीशेन संयोगं प्राप्य वेश्यत्वमागताः॥ ७०.१८ ॥
वेश्यानामपि यो धर्म्मस्तन्नो ब्रूहि तपोधन!।
कथयिष्यत्यतस्तासां स दाल्भ्यश्चैकितायनः॥ ७०.१९ ॥
दाल्भ्य उवाच।
जलक्रीडाविहारेषु पुरा सरसि मानसे।
भवतीनाञ्च सर्वासां नारदोऽभ्यासमागतः॥ ७०.२० ॥
हुताशनसुताः सर्वा भवन्त्योऽप्सरसः पुरा।
अप्रणम्यावलेपेन परिपृष्टः स योगवित्।
कथं नारायणोऽस्माकं भर्ता स्यादित्युपादिश॥ ७०.२१ ॥
तस्माद्वरप्रदानं वः शापश्चायमभूत् पुरा।
शय्याद्वयप्रदानेन मधुमाधवमासयोः॥ ७०.२२ ॥
सुवर्णोपस्करोत् सर्गा द्वादश्यां शुक्लपक्षतः।
भर्ता नारायणो नूनं भविष्यत्यन्यजन्मनि॥ ७०.२३ ॥
यदकृत्वा प्रणामं मे रूपसौभाग्यमत्सरात्।
परिपृष्टोऽस्मि तेनाशु वियोगो वा भविष्यति॥
चोरैरपहृताः सर्वा वेश्या त्वं समवाप्स्यथ॥ ७०.२४ ॥
एवं नारदशापेन केशवस्य च धीमतः।
वेश्यात्वमागताः सर्वा भवन्त्यः काममोहिताः।
इदानीमपि यद्वक्ष्ये तच्छृणुध्वं वराङ्गनाः!॥ ७०.२५ ॥
पुरा देवासुरे युद्धे हतेषु शतशः सुरैः।
दानवासुरदैत्येषु राक्षसेषु ततस्ततः॥ ७०.२६ ॥
तेषां व्रातसहस्राणि शतान्यपि च योषिताम्।
परिणीतानि यानि स्युर्बलाद् भुक्तानि यानि वै॥
तानि सर्वाणि देवेशः प्रोवाच वदताम्वरः॥ ७०.२७ ॥
वेश्याधर्मेण वर्तध्वमधुना नृपमन्दिरे।
भक्तिमत्यो वरारोहास्तथा देवकलेषु च॥ ७०.२८ ॥
राजानः स्वामिनस्तुल्या सुतावापि च तत् समाः।
भविष्यति च सौभाग्यं सर्वासामपि शक्तितः॥ ७०.२९ ॥
यः कश्चिच्छुल्कमादाय गृहमेष्यति वः सदा।
निधनेनोपचार्यो वः स तदान्यत्र दाम्भिकात्॥ ७०.३० ॥
देवतानां पितॄणाञ्च पुण्याहे समुपस्थिते।
गोभूहिरण्यधान्यानि प्रदेयानि स्वशक्तितः।
ब्राह्मणानां वरारोहाः कार्याणि वचनानि च॥ ७०.३१ ॥
यच्चाप्यन्यद् व्रतं सम्यगुपदेक्ष्याम्यहं ततः।
अविचारेण सर्वाभिरनुष्ठेयं च तत् पुनः॥ ७०.३२ ॥
संसारोत्तारणायालमेतद्वेदविदो विदुः।
यदा सूर्यदिने हस्तः पुष्यो वाथ पुनर्वसुः॥ ७०.३३ ॥
भवेत् सर्वौषधी स्नानं सम्यङ्नारी समाचरेत्।
तदा पञ्चशरस्यापि सन्निधातृत्वमेष्यति
अर्चयेत् पुण्डरीकाक्षमनङ्गस्यानुकीर्तनैः॥ ७०.३४ ॥
कामाय पादौ सम्पूज्य जङ्घे वै मोहकारिणे।
मेढ्रं कन्दर्पनिधये कटिं प्रीतिमते नमः॥ ७०.३५ ॥
नाभिं सौख्यसमुद्राय रामाय च तथोदरम्।
हृदयं हृदयेशाय स्तनावाह्लादकारिणे॥ ७०.३६ ॥
उत्कण्ठायेति वैकण्ठमास्यमानन्दकारिणे।
वामाङ्गं पुष्पचापाय पुष्पबाणाय दक्षिणम्॥ ७०.३७ ॥
मानसायेति वै मौलिं विलोलायेति मूर्द्धजम्।
सर्वात्मने च सर्वाङ्गं देवदेवस्य पूजयेत्॥ ७०.३८ ॥
नमः शिवाय शान्ताय पाशाङ्कुशधराय च।
गदिने पीतवस्त्राय शङ्खचक्रधराय च॥ ७०.३९ ॥
नमो नारायणायेति कामदेवात्मने नमः।
सर्वशान्त्यै नमः प्रीत्यै नमो रत्यै नमः श्रियै॥ ७०.४० ॥
नमः पुष्ट्यै नमस्तुष्ट्यै नमः सर्वार्थसम्पदे।
एवं सम्पूज्य देवेशमनङ्गात्मकमीश्वरम्॥
गन्धैर्माल्यैस्तथा धूपैर्नैवेद्येन च कामिनी॥ ७०.४१ ॥
तत आहूय धर्म्मज्ञं ब्राह्मणं वेदपारगम्।
अव्यङ्गावयवं पूज्य गन्दपुष्पार्चनादिभिः॥ ७०.४२ ॥
शालेयतण्डुलप्रस्तं घृतपात्रेण संयुतम्।
तस्मै विप्राय सा दद्यात् माधवः प्रीयतामिति॥ ७०.४३ ॥
यथेष्टाहारयुक्तं वै तमेव द्विजसत्तमम्।
रत्यर्थं कामदेवोऽयमिति चित्तेऽवधार्य तम्॥ ७०.४४ ॥
यद्यदिच्छति विप्रेन्द्रस्तत्तत् कुर्याद्विलासिनी।
सर्वभावेन चात्मानमर्पयेत् स्मितभाषिणी॥ ७०.४५ ॥
एवमादित्यवारेण सर्वमेतत् समाचरेत्।
तण्डुलप्रस्थदानञ्च यावन्मासास्त्रयोदश॥ ७०.४६ ॥
ततस्त्रयोदशे मासि सम्प्राप्ते तस्य भामिनी।
विप्रस्योपस्करैर्युक्तां शय्यां दद्याद्विलक्षणाम्॥ ७०.४७ ॥
सोपधानकविश्रामां सास्तरावरणां शुभाम्।
प्रदीपोपानहच्छत्र पादुकासनसंयुताम्॥ ७०.४८ ॥
सपत्नीकमलङ्कृत्य हेमसूत्राङ्गलीयकैः।
सूक्ष्मवस्त्रैः सकटकैर्धूपमाल्यानुलैपनैः॥ ७०.४९ ॥
कामदेवं सपत्नीकं गुडकुम्भोपरि स्थितम्।
ताम्रपात्रासनगतं हैमनेत्रपटावृतम्॥ ७०.५० ॥
स कांस्यभाजनोपेतमिक्षुदण्डसमन्वितम्।
दद्यादेतेन मन्त्रेण तथैकां गां पयस्विनीम्॥ ७०.५१ ॥
यथान्तरं न पश्यामि कामकेशवयोः सदा।
तथैव सर्वकामाप्तिरस्तु विष्णो! सदा मम॥ ७०.५२ ॥
यथा न कमला देहात् प्रयाति तव केशव!
तथा ममापि देवेश! शरीरे स्वे कुरु प्रभो!॥ ७०.५३ ॥
तथा च काञ्चनं देवं प्रतिगृह्णन् द्विजोत्तमः।
क इदं कस्मादादिति वैदिकं मन्त्रमीरयेत्॥ ७०.५४ ॥
ततः प्रदक्षिणीकृत्य विसर्ज्य द्विजपुङ्गवम्।
शय्यासनादिकं सर्वं ब्राह्मणस्य गृहं नयेत्॥ ७०.५५ ॥
ततः प्रभृति यो विप्रो रत्यर्थं गृहमागतः।
स मान्यः सूर्यवारे च स मन्तव्यो भवेत् तदा॥ ७०.५६ ॥
एवं त्रयोदशं यावन्मासमेवं द्विजोत्तमान्।
तर्पयेत यथाकामं प्रोषितेऽन्यं समाचरेत्॥ ७०.५७ ॥
तदनुज्ञया रूपवान्यो यावदभ्यागतो भवेत्।
आत्मनोऽपि यथाविघ्नं गर्भभूतिकरम्प्रियम्॥ ७०.५८ ॥
दैवं वा मानुषं वा स्यादनुरागेण वा ततः।
साचारानष्टपञ्चाशद्यथाशक्त्या समाचरेत्॥ ७०.५९ ॥
एतद्धि कथितं सम्यक् भवतीनां विशेषतः।
अधर्मोऽयं ततो न स्याद्वेश्यानामिह सर्वदा॥ ७०.६० ॥
पुरुहूतेन यत् प्रोक्तं दानवीषु पुरा मया।
तदिदं साम्प्रतं सर्वं भवतीष्वपि युज्यते॥ ७०.६१ ॥
सर्वपापप्रशमनमनन्तफलदायकम्।
कल्याणीनां प्रकथितं तत् कुरुध्वं वराननाः॥ ७०.६२ ॥
करोति या शेषमखण्डमेतत् कल्याणिनीमाधवलोकसंस्था।
सा पूजिता देवगणैरशेषैरानन्दकृत्स्थानमुपैति विष्णोः॥ ७०.६३ ॥
श्रीभगवानुवाच।
तपोधनः सोऽप्यभिधाय चैवं तदा च तासां व्रतमङ्गनानाम्।
स्वस्थानमेष्यन्ति समस्तमित्थं व्रतं करिष्यन्ति च देवयोने!॥ ७०.६४ ॥