शुक्लतृतीयाव्रतकथनम्।
ईश्वर उवाच।
तथैवान्यां प्रवक्ष्यामि तृतीयां पापनाशिनीम्।
नाम्ना च लोके विख्यातां आर्द्रानन्दकरीमिमाम्॥ ६४.१ ॥
यदा शुक्लतृतीयायामाषाढर्क्षं भवेत् क्वचित्।
ब्रह्मर्क्षं वा मृगर्क्षं वा हस्तो मूलमथापि वा॥
दर्भगन्धोदकैः स्नानं तदा सम्यक् समाचरेत्॥ ६४.२ ॥
शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः।
भवानीमर्चयेद् भक्त्या शुक्लपुष्पैः सुगन्धिभिः॥
महादेवेन सहितामुपविष्टां महासने॥ ६४.३ ॥
वासुदेव्यै नमः पादौ शङ्कराय नमो हरम्।
जङ्घे शोकविनाशिन्यै नमः आनन्दाय नमः प्रभोः॥ ६४.४ ॥
रम्भायै पूजयेद् रुद्रं शिवाय च पिनाकिनः।
अदित्यै च कटिं देव्याः शूलिनः शूलपाणये॥ ६४.५ ॥
माधव्यै च तथा नाभिमथ शम्भोर्भवाय च।
स्तनावानन्दकारिण्यै शङ्करस्येन्दुधारिणे॥ ६४.६ ॥
उत्कण्ठिन्यै नमः कण्ठं नीलकण्ठाय वै हरम्।
करावुत्पलधारिण्यै रुद्राय च जगत्पते।
बाहू च परिरम्भिण्यै त्रिशूलाय हराय च॥ ६३.७ ॥
देव्या मुखं विलासिन्यै वृषेशाय पुनर्विभोः।
स्मितं सस्मेरलीलायै विश्ववक्त्राय वै विभोः॥ ६४.८ ॥
नेत्रे मदनवासिन्यै विश्वधाम्ने त्रिशूलिनः।
भ्रुवौ नित्यप्रियायै तु ताण्डवेशाय शूलिनः॥ ६४.९ ॥
देव्या ललाटमिन्द्राण्यै हव्यवाहाय वै विभोः।
स्वाहायै मुकुटं देव्या विभोर्गङ्गाधराय वै॥ ६४.१० ॥
विश्वकायौ विश्वमुखौ विश्वपादकरौ शिवौ।
प्रसन्नवदनौ वन्दे पार्वतीपरमेश्वरौ॥ ६४.११ ॥
एवं सम्पूज्य विधिवदग्रतः शिवयोः पुनः।
पद्मोत्पलानि रजसा नानावर्णेन कारयेत्॥ ६४.१२ ॥
शङ्खचक्रे सकटके स्वस्तिकाङ्कुशचामरान्।
यावन्तः पांसवस्तत्र रजसः पतिता भुवि।
तावद्वर्षसहस्राणि शिवलोके महीयते॥ ६४.१३ ॥
चत्वारि घृतपात्राणि सहिरण्यानि शक्तितः।
दत्त्वा द्विजाय करकमुदकान्नसमन्वितम्॥
प्रतिपक्षं चतुर्मासं यावदेतन्निवेदयत्॥ ६४.१४ ॥
ततस्तु चतुरो मासान् पूर्ववत् करकोपरि।
चत्वारि सक्तुपात्राणि तिलपात्राण्यतः परम्॥ ६४.१५ ॥
गन्धोदकं पुष्पवारि चन्दनं कुङ्कुमोदकम्।
अपक्वं दधिदुग्धञ्च गोश्रृङ्गोदकमेव च॥ ६४.१६ ॥
पिष्टोदकं तथा वारि कुष्ठचूर्णान्वितं पुनः।
उशीरसलिलं तद्वद्यवचूर्णोदकं पुनः॥ ६४.१७ ॥
तिलोदकञ्च सम्प्राश्य स्वपेन्मार्गशिरादिषु।
मासेषु पक्षद्वितयं प्राशनं समुदाहृतम्॥ ६४.१८ ॥
सर्वत्र शुक्लपुष्पाणि प्रशस्तानि सदार्चने।
दानकाले च सर्वत्र मन्त्रमेतमुदीरयेत्॥ ६४.१९ ॥
गौरी मे प्रियतां नित्यमघनाशाय मङ्गला।
सौभाग्यायास्तु ललिता भवानी सर्वसिद्धये॥ ६४.२० ॥
संवत्सरान्ते लवणं गुडकुम्भञ्च सर्जिकाम्।
चन्दनं नेत्रपट्टञ्च सहिरण्याम्बुजेन तु॥ ६४.२१ ॥
उमामहेश्वरं हैमं तद्वदिक्षुफलैर्युतम्।
सतूलावरणां शय्यां सविश्रामां निवेदयेत्।
सपत्नीकाय विप्राय गौरी मे प्रीयतामिति॥ ६४.२२ ॥
आर्द्रानन्दकरी नाम्ना तृतीयैषां सनातनी।
यामुपोष्य नरो याति शम्भोर्यत्परमम्पदम्॥ ६४.२३ ॥
इहलोके सदानन्दमाप्नोति धनसम्पदः।
आयुरारोग्यसन्तप्तो न कश्चिच्छोकमाप्नुयात्॥ ६४.२४ ॥
नारी वा कुरुते या तु कुमारी विधवा च या।
सापि तत् फलमाप्नोति देव्यनुग्रहलालिता॥ ६४.२५ ॥
प्रतिपक्षमुपोष्यैवं मन्त्रार्चनविधानवित्।
रुद्राणी लोकमभ्येति पुनरावृत्तिदुर्लभम्॥ ६४.२६ ॥
य इदं श्रृणुयान्नित्यं श्रावयेद्वाऽपि मानवः।
शक्रलोके सगन्धर्वैः पूज्यतेऽपि युगत्रयम्॥ ६४.२७ ॥
आनन्ददां सकलदुःखहरां तृतीयां या स्त्री करोत्यविधवाऽविधवाथ वापि।
सा स्वे गृहे मुखशतान्यनुभूय भूयो गौरीपदं सदयिता दयिता प्रयाति॥ ६४.२८ ॥