सप्तलोकाधिपत्यप्राप्तिव्रतकथनम्।
नारद उवाच।
भूलोकोऽथभुवर्लोकः स्वर्लोकोऽथमहर्जनः।
तपः सत्यञ्च सप्तैते देवलोकाः प्रकीर्तिताः॥ ६१.१ ॥
पर्यायेण तु सर्वेषामाधिपत्यं कथं भवेत्।
इह लोके शुभं रूपमायुः सौभाग्यमेव च।
लक्ष्मीश्च विपुला नाथ! कथं स्यात् पुरसूदन!॥ ६१.२ ॥
पुरा हुताशनः सार्द्धं मारुतेन महीतले।
आदिष्टः पुरुहूतेन विनाशाय सुरद्विषाम्॥ ६१.३ ॥
निर्दग्धेषु ततस्तेन दानवेषु सहस्रशः।
तारकः कमलाक्षश्च कालदंष्ट्रः परावसुः।
विरोचनश्च सङ्ग्रामादपलायं स्तपोधन!॥ ६१.४ ॥
अम्भः सामुद्रमाविश्य सन्निवेशमकुर्वत।
अशक्या इति तेऽप्यग्नि मारुताभ्यामुपेक्षिताः॥ ६१.५ ॥
ततः प्रभृति ते देवान् मनुष्यान् सह जङ्गमान्।
सम्पीड्य च मुनीन् प्रविशन्ति पुनर्जलम्॥ ६१.६ ॥
एवं वर्षसहस्राणि वीराः पञ्च स सप्त च।
जलदुर्गबलाद् ब्रह्मन्! पीडयन्ति जगत्त्रयम्॥ ६१.७ ॥
ततः परमथो वह्नि मारुतावमराधिपः।
आदिदेश चिरादम्बु निधिरेष विशोष्यताम्॥ ६१.८ ॥
यस्मादस्माद् द्विषामेष शरणं वरुणालयः।
तस्माद् भवद्भ्यामद्यैव क्षयमेष प्रणीयताम्॥ ६१.९ ॥
तावूचतुस्ततः शक्रमुभौ शम्बरसूदनम्।
अधर्म्म एष देवेन्द्र! सागरस्य विनाशनम्॥ ६१.१० ॥
यस्माज्जीवनिकायस्य महतः सङ्क्षयो भवेत्।
तस्मान्न पापमद्यावाङ्करवावः पुरन्दर!॥ ६१.११ ॥
अस्य योजनमात्रेऽपि जीवकोटिशतानि च।
निवसन्ति सुरश्रेष्ठ! सकथं नाशमर्हति॥ ६१.१२ ॥
एवमुक्तः सुरेन्द्रस्तु कोपात् संरक्तलोचनः।
उवाचेदं वचो रोषान्निर्दहन्निवपावकम्॥ ६१.१३ ॥
न धर्माधर्म्मसंयोगं प्राप्नुवन्त्यमराः क्वचित्।
भवतस्तु विशेषेण माहात्म्यञ्चाधितिष्ठति॥ ६१.१४ ॥
मदाज्ञालङ्घनं यस्मान्मारुतेन समन्त्वया।
मुनिव्रतमहिंसादि परिगृह्य त्वया कृतम्॥
धर्मार्थशास्त्ररहितं शत्रुं प्रति विभावसो!॥ ६१.१५ ॥
तस्मादेकेन वपुषा मुनिरूपेण मानुषे।
मारुतेन समं लोके तव जन्म भविष्यति॥ ६१.१६ ॥
यदा च मानुषत्वेऽपि त्वयाऽगस्त्येन शोषितः।
भविष्यत्युदधिर्वह्ने! तदा देवत्वमाप्स्यसि॥ ६१.१७ ॥
इतीन्द्रशापात् पतितौ तत्क्षणात् तौ महीतले।
अवाप्तावेकदेहेन कुम्भाज्जन्म तपोधन!॥ ६१.१८ ॥
मित्रावरुणयोर्व्वीर्य्याद्वसिष्ठस्यानुजोऽभवत्।
अगस्त्य इत्युग्रतपाः सम्बभूव पुनर्मुनिः॥ ६१.१९ ॥
नारद उवाच।
सम्भूतः सकथं भ्राता वसिष्ठस्याभवन्मुनिः।
कथञ्च मित्रावरुणौ पितरावस्य तौ स्मृतौ॥
जन्मकुम्भादगस्त्यस्य कथं स्यात् पुरसूदन!॥ ६१.२० ॥
ईश्वर उवाच।
पुरा पुराणपुरुषः कदाचिद् गन्धमादने।
भूत्वा धर्मसुतो विष्णुश्चचार विपुलन्तपः॥ ६१.२१ ॥
तपसा तस्य भीतेन विघ्नार्थं प्रेषितावुभौ।
शक्रेण माधवानङ्गावप्सरोगणसंयुतौ॥ ६१.२२ ॥
तदा तद्गीतवाद्येन नाङ्गरागादिना हरिः।
न काममाधवाभ्याञ्च विषयान् प्रतिचुक्षुभे॥ ६१.२३ ॥
तदा काममधुस्त्रीणां विषादमगमद् गणः।
सङ्क्षोभाय ततस्तेषां स्वोरुदेशान्नराग्रजः॥
नारीमुत्पादयामास त्रैलोक्यजनमोहिनीम्॥ ६१.२४ ॥
सङ्क्षुब्धास्तु तया देवास्तौ तु देववरावुभौ।
अप्सरोभिः समक्षं हि देवानामब्रवीद्धरिः॥ ६१.२५ ॥
अप्सरा इति सामान्या देवानामब्रवीद्धरिः।
उर्वशीति च नाम्नेयं लोके ख्यातिं गमिष्यति॥ ६१.२६ ॥
ततः कामयमानेन मित्रेणाहूय सोर्वशी।
उक्ता मां रमयस्वेति बाढमित्यब्रवीत्तु सा॥ ६१.२७ ॥
गच्छन्ती चाम्बरं तद्वत् स्तोकमिन्दीवरेक्षणा।
वरुणेन धृता पश्चात् वरुणां नाभ्यनन्दत ॥ ६१.२८ ॥
मित्रेणाहं वृतापूर्वमद्य भार्या न ते विभो!।
उवाच वरुणश्चित्तं मयि सन्न्यस्य गम्यताम्॥ ६१.२९ ॥
गतायां बाढमित्युक्त्वा मित्रः शापमदात्तदा।
तस्यै मानुषलोके त्वं गच्छ सोमसुतात्मजम्॥ ६१.३० ॥
भजस्वेति यतो वेश्या धर्म एष त्वया कृतः
जलकुम्भे ततो वीर्यं मित्रेण वरुणेन च।
प्रक्षिप्तमथ सञ्जातौ द्वावेव मुनिसत्तमौ॥ ६१.३१ ॥
निमिर्नाम सह स्त्रीभिः पुरा द्यूतमदीव्यतः।
तत्रान्तरेऽभ्याजगाम वसिष्ठो ब्रह्मसम्भवः॥ ६१.३२ ॥
तस्य पूजामकुर्वन्तं शशाप समुनिर्नृपम्।
विदेहस्त्वं भवस्वेति ततस्तेनाप्यसौ मुनिः॥ ६१.३३ ॥
अन्योन्यशापाच्च तयो र्विगते इव चेतसी।
जग्मतुः शापमानाय ब्रह्माणं जगतः पतिम्॥ ६१.६.३४ ॥
अथ ब्रह्मण आदेशाल्लोचनेष्ववसन्निमिः।
निमेषाः स्युश्च लोकानां तद्विश्रामाय नारद!॥ ६१.३५ ॥
वसिष्ठोऽप्यभवत् तस्मिन् जलकुम्भे च पूर्ववत्।
ततः श्वेतश्चतुर्बाहुः साक्षसूत्रकमण्डलुः॥
अगस्त्य इति शान्तात्मा बभूव ऋषिसत्तमः॥ ६१.३६ ॥
मलयस्यैकदेशे तु वैखानसविधानतः।
सभार्यः संवृतो विप्रैस्तपश्चक्रे सुदुश्चरम्॥ ६१.३७ ॥
ततः कालेन महता तारकादतिपीडितम्।
जगद्वीक्ष्य स कोपेन पीतवान्वरुणालयम्॥ ६१.३८ ॥
ततोऽस्य वरदाः सर्वे बभूवुः शङ्करादयः।
ब्रह्मा विष्णुश्च भगवान् वरदानाय जग्मतुः।
वरं वृणीष्व भद्रन्ते यदभीष्टञ्च वै मुने!॥ ६१.३९ ॥
यावद् ब्रह्मसहस्राणां पञ्चविंशतिकोटयः।
वैमानिको भविष्यामि दक्षिणाचलवर्त्मनि॥ ६१.४० ॥
मद्विमानोदये कुर्याद्यः कश्चित् पूजनं मम।
स सप्तलोकाधिपतिः पर्यायेण भविष्यति॥ ६१.४१ ॥
ईश्वर उवाच।
एवमस्त्विति तेप्युक्त्वा जग्मुर्देवा यथागतम्।
तस्मादर्घः प्रदातव्यो ह्यगस्त्यस्य सदा बुधैः॥ ६१.४२ ॥
नारद उवाच।
कथमर्घप्रदानन्तु कर्त्तव्यं तस्य वै विभो!।
विधानं यदगस्त्यस्य पूजने तद्वदस्व मे॥ ६१.४३ ॥
ईश्वर उवाच।
प्रत्यूषसमये विद्वान् कुर्यादस्योदये निशि।
स्नानं शुक्लतिलैस्तद्वत् शुक्लमाल्याम्बरो गृही॥ ६१.४४ ॥
ख्थापयेदव्रणं कुम्भं माल्यवस्त्रविभूषितम्।
पञ्चरत्नसमायुक्तं घृतपात्रसमन्वितम्॥ ६१.४५ ॥
अङ्गुष्ठमात्रं पुरुषं तथैव सौवर्णमेवायतबाहुदण्डम्।
चतुर्मुखं कुम्भमुखे निधाय धान्यानि सप्ताम्बरसंयुतानि॥ ६१.४६ ॥
सकांस्यपात्राक्षतशुक्तियुक्तं मन्त्रेण दद्यात् द्विजपुङ्गवाय।
उत्क्षिप्य लम्बोदरदीर्घबाहुमनन्यचेता यमदिङ्मुखः सन्॥ ६१.४७ ॥
श्वेताञ्च दद्याद्यदि शक्तिरस्ति रोप्यैः खुरैर्हेममुखीं सवत्साम्।
धेनुं नरः क्षीरवतीं प्रणम्य सवत्सघण्टाभरणां द्विजाय॥ ६१.४८ ॥
आसप्तरात्रोदयमेतदस्य दातव्यमेतत् सकलं नरेण।
यावत् समाः सप्तदशाथ वास्युरथोर्ध्वमप्यत्र वदन्ति केचित्॥ ६१.४९ ॥
काशपुष्पप्रतीकाश! अग्निमारुतसम्भव।
मित्रावरुणयोः पुत्र! कुम्भयोने! नमोऽस्तु ते ।
प्रत्यब्दन्तु फलैर्यागमेवं कुर्वन्न सीदति॥ ६१.५० ॥
होमं कृत्वा ततः पश्चाद्वर्जयेन्मानवः फलम्।
अनेन विधिनायस्तु पुमानर्घ्यं निवेदयेत्॥ ६१.५१ ॥
इमं लोकं स चाप्नोति रूपारोग्यसमन्वितः।
द्वितीयेन भुवर्लोकं स्वर्लोकञ्च ततः परम्॥ ६१.५२ ॥
सप्तैव लोकानाप्नोति सप्तार्घ्यान्यः प्रयच्छति।
यावदायुश्च यः कुर्यात् परं ब्रह्माधिगच्छति॥ ६१.५३ ॥
इह पठति श्रृणोति वा य एतद्युगलमुनिप्रभवार्घ्यसम्प्रदानम्॥
मतिमपि च ददाति सोऽपि विष्णोर्भवनगतः परिपूज्यतेऽमरौघैः॥ ६१.५४ ॥