रोहिणीचन्द्रशयनव्रतकथनम्।
दीर्घायुरारोग्यकुलाभिवृद्धियुक्तः पुमान् भूपकुलायुतः स्यात्।
मुहुर्मुहुर्जन्मनि येन सम्यक् व्रतं समाचक्ष्व तदिन्दुमौले!॥ ५७.१ ॥
श्रीभगवानुवाच।
त्वया पृष्टमिदं सम्यक् उक्तञ्चाक्षय्यकारकम्।
रहस्यं तव वक्ष्यामि यत्पुराणविदो विदुः॥ ५७.२ ॥
रोहिणीचन्द्रशयनं नाम व्रतमिहोत्तमम्।
तस्मिन्नारायणस्यार्च्यामर्चयेदिन्दुनामभिः॥ ५७.३ ॥
यदा सोमदिने शुक्ला भवेत् पञ्चदशी क्वचित्।
अथवा ब्रह्मनक्षत्रं पौर्णमास्यां प्रजायते॥ ५७.४ ॥
तदा स्नानं नरः कुर्यात् पञ्चगव्येन सर्षपैः।
आप्यायस्वेति तु जपेत् विद्वानष्टशतं पुनः॥ ५७.५ ॥
शूद्रोऽपि परया भक्त्या पाषण्डालापवर्जितः।
सोमाय वरदायाथ विष्णवे च नमो नमः॥ ५७.६ ॥
कृतजप्यः स्वभवनादागत्य मधुसूदनम्।
पूजयेत् फलपुष्पैश्च सोमनामानि कीर्तयन्॥ ५७.७ ॥
सोमाय शान्ताय नमोऽस्तु पादावनन्तधाम्नेति च जानुजङ्घे।
ऊरुद्वयञ्चापि जलोदराय सम्पूजयेन्मेढ्रमनन्तब्राहवे॥ ५७.८ ॥
नमो नमः कामसुखप्रदाय कटिः शशाङ्कस्य सदार्चनीया।
तथोदरञ्चाप्यमृतोदराय नाभिः शशाङ्काय नमोऽभिपूज्या॥ ५७.९ ॥
नमोऽस्तु चन्द्राय मुखञ्च पूज्यं दन्ता द्विजानामधिपाय पूज्याः।
हास्यं नमश्चन्द्रमसेऽभिपूज्यमोष्ठौ कुमुद्वन्तवनप्रियाय॥ ५७.१० ॥
नासा च नाथाय वनौषधीनां आनन्दभूताय पुनर्भ्रुवौ च।
नेत्रद्वयं पद्मिनिभन्तथेन्दो रिन्दीवरश्यामकराय शौरेः॥ ५७.११ ॥
नमः समस्ताध्वरवन्दिताय कर्णद्वयं दैत्यनिषूदनाय।
ललाटमिन्दोरुदधिप्रियाय केशाः सुषुम्नाधिपतेः प्रपूज्याः॥ ५७.१२ ॥
शिरः शशाङ्काय नमो मुरारेर्विश्वेश्वरायेति नमः किरीटिने।
पद्मप्रिये रोहिणि नाम लक्ष्मीः सौभाग्यसौख्यामृतचारुकाये॥ ५७.१३ ॥
देवीं च सम्पूज्य सुगन्धपुष्पैर्नैवेद्यपुष्पादिभिरिन्दुपत्नीम्।
सुप्त्वाऽथ भूमौ पुनरुत्थितेन स्नात्वा च विप्राय हविष्ययुक्तः॥ ५७.१४ ॥
देयः प्रभाते सहिरण्यवारिकुम्भो नमः पापविनाशनाय।
सम्प्राश्य गोमूत्रममांसमन्नमक्षारमष्टावथ विंशतिञ्च॥
ग्रामान् पयः सर्पियुतानुपोष्य भुक्त्वेतिहासं श्रृणुयान् मुहूर्त्तम्॥ ५७.१५ ॥
कदम्बनीलोत्पलकेतकानि जातीसरोजं शतपत्रिका च।
अम्लानकुब्जान्यथ सिन्दुवारं पुष्पं पुनर्नारद! मल्लिकायाः॥
शुभ्रञ्च विष्णोः करवीरपुष्पं श्रीचम्पकं चन्द्रमसः प्रदेयम्॥ ५७.१६ ॥
श्रावणादिषु मासेषु क्रमादेतानि सर्वदा।
यस्मिन् मासे व्रतादिः स्यात् तत्पुष्पैरर्चयेद्धरिम्॥ ५७.१७ ॥
एवं संवत्सरं यावदुपास्य विधिवन्नरः।
व्रतान्ते शयनं दद्यात् दर्पणोपस्करान्वितम्॥ ५७.१८ ॥
रोहिणीचन्द्रमिथुनं कारयित्वाऽथ काञ्चनम्।
चन्द्रः षडङ्गुलः कार्यो रोहिणी चतुरङ्गुला॥ ५७.१९ ॥
मुक्ताफलाष्टकयुतं सितनेत्रपटावृतम्।
क्षीरकुम्भोपरि पुनः कांस्यपात्राक्षतान्वितम्॥
दद्यान्मन्त्रेण पूर्वाह्णे शालीक्षुफलसंयुतम्॥ ५७.२० ॥
श्वेतामथ सुवर्णास्यां खुरै रौप्यैः समन्विताम्।
सवस्त्रभाजनां धेनुं तथा शङ्खञ्च शोभनम्॥ ५७.२१ ॥
भूषणैर्द्विजदाम्पत्यमलङ्कृत्य गुणान्वितम्।
चन्द्रोऽहं द्विजरूपेण सभार्य्य इति कल्पयेत्॥ ५७.२२ ॥
यथा न रोहिणीकृष्णशय्यां सन्त्यज्य गच्छति।
सोमरूपस्य ते तद्वन् ममाभेदोऽस्तु भूतिभिः॥ ५७.२३ ॥
यथा त्वमेव सर्वेषां परमानन्दमुक्तिदः।
भुक्तिर्मुक्तिस्तथा भक्तिस्त्वयि चन्द्रास्तु मे सदा॥ ५७.२४ ॥
संसारभयभीतस्य मुक्तिकामस्य चानघ!।
रूपारोग्यायुषामेतद्विधायकमनुत्तमम्॥ ५७.२५ ॥
इदमेव पितॄणां च सर्वदा वल्लभं मुने!।
त्रैलोक्याधिपतिर्भूत्वा सप्तकल्पशतत्रयम्॥
चन्द्रलोकमवाप्नोति विद्युद् भूत्वा तु मुच्यते॥ ५७.२६ ॥
नारी वा रोहिणीचन्द शयनं या समाचरेत्।
साऽपितत्फलमाप्नोति पुनरावृत्तिदुर्लभम्॥ ५७.२७ ॥
इति पठति श्रृणोति वा य इत्थं मधुमथनार्चनमिन्दुकीर्तनेन नित्यम्।
मतिमपि च ददाति सोऽपि शौरेर्भवनगतः परिपूज्यतेऽमरौघैः॥ ५७.२८ ॥