०५६

कृष्णाष्टमीव्रतकथनम्।

श्रीभगवानुवाच।
कृष्णाष्टमीमथो वक्ष्ये सर्वपापाप्रणाशिनीम्।
शान्तिर्मुक्तिश्च भवति जयः पुंसां विशेषतः॥ ५६.१ ॥

शङ्करं मार्गशिरसि शम्भुं पौषेऽभिपूजयेत्।
माघे महेश्वरं देवं महादेवञ्च फाल्गुने॥ ५६.२ ॥

स्थाणुं चैत्रे शिवं तद्वद्वैशाखे त्वर्चयेन्नरः।
ज्यैष्ठे पशुपतिं चार्चेदाषाढे उग्रमर्चयेत्॥ ५६.३ ॥

पूजयेत् श्रावणे सर्वं नभस्ये त्र्यम्बकं तथा।
हरमाश्वयुजे मासि तथेशानञ्च कार्तिके॥ ५६.४ ॥

कृष्णाष्टमीषु सर्वासु शक्तः सम्पूजयेद्‌ द्विजान्।
गो भूहिरण्यवासोभिः शिवभक्तानुपोषितः॥ ५६.५ ॥

गोमूत्रघृतगोक्षीर तिलान् यवकुशोदकम्।
गोश्रृङ्गोदशिरीषार्क बिल्वपत्रदधीनि च॥
पञ्चगव्यञ्च सम्प्राश्य शङ्करं पूजयेन्निशि॥ ५६.६ ॥

अश्वत्थं च वटं चैवोदुम्बरं प्लक्षमेव च।
पलाशं जम्बुवृक्षञ्च विदुषञ्च महर्षयः॥ ५६.७ ॥

मार्गशीर्षाढमासाभ्यां द्वाभ्यां द्वाभ्यामितिक्रमात्।
एकैकं दन्तपवनं वृक्षेष्वेतेषु भक्षयेत्॥ ५६.८ ॥

देवाय दद्यादर्घ्यं च कृष्णाङ्गं कृष्णवाससम्।
दद्यात्समाप्ते दध्यन्नं वितानध्वजचामरम् ॥ ५६.९ ॥

द्विजानामुदकुम्भांश्च पञ्चरत्न समन्वितान्।
गावः कृष्णाः सुवर्णञ्च वासांसि विविधानि च
अशक्तस्तु पुनर्दद्याद् नामेकामपि शक्तितः॥ ५६.१० ॥

न वित्तशठ्यं कुर्वीत कुर्वन्‌ दोषमवाप्नुयात्।
कृष्णाष्टमीमुपोष्येव सप्तकल्पशतत्रयम्॥
पुमान् स्रम्पूजितो देवैः शिवलोके महीयते॥ ५६.११ ॥