०५३

मुनय ऊचुः
पुराणसङ्ख्यामाचक्ष्व सूत विस्तरशः क्रमात्
दानधर्ममशेषं तु यथावदनुपूर्वशः ५३.१
सूत उवाच
इदमेव पुराणेषु पुराणपुरुषस्तदा
यदुक्तवान्स विश्वात्मा मनवे तन्निबोधत २
मत्स्य उवाच
पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम्
अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिर्गताः ३
पुराणमेकमेवासीत्तदा कल्पान्तरेऽनघ
त्रिवर्गसाधनं पुण्यं शतकोटिप्रविस्तरम् ४
निर्दग्धेषु च लोकेषु वाजिरूपेण वै मया
अङ्गानि चतुरो वेदान्पुराणं न्यायविस्तरम् ५
मीमांसां धर्मशास्त्रं च परिगृह्य मया कृतम्
मत्स्यरूपेण च पुनः कल्पादावुदकार्णवे ६
अशेषमेतत्कथितमुदकान्तर्गतेन च
श्रुत्वा जगाद च मुनीन्प्रति देवांश्चतुर्मुखः ७
प्रवृत्तिः सर्वशास्त्राणां पुराणस्याभवत्ततः
कालेनाग्रहणं दृष्ट्वा पुराणस्य ततो नृप ८
व्यासरूपमहं कृत्वा संहरामि युगे युगे
चतुर्लक्षप्रमाणेन द्वापरे द्वापरे सदा ९
तथाष्टादशधा कृत्वा भूर्लोकेऽस्मिन्प्रकाश्यते
अद्यापि देवलोकेऽस्मिञ् छतकोटिप्रविस्तरम् १०
तदर्थोऽत्र चतुर्लक्षं सङ्क्षेपेण निवशितः
पुराणानि दशाष्टौ च साम्प्रतं तदिहोच्यते ११
नामतस्तानि वक्ष्यामि शृणुध्वं मुनिसत्तमाः
ब्रह्मणाभिहितं पूर्वं यावन्मात्रं मरीचये १२
ब्राह्मं त्रिदशसाहस्रं पुराणं परिकीर्त्यते
लिखित्वा तच्च यो दद्याज्जलधेनुसमन्वितम्
वैशाखपूर्णिमायां च ब्रह्मलोके महीयते १३
एतदेव यदा पद्ममभूद्धैरण्मयं जगत्
तद्वृत्तान्ताश्रयं तद्वत्पाद्ममित्युच्यते बुधैः
पाद्मं तत्पञ्चपञ्चाशत्सहस्राणीह कथ्यते १४
तत्पुराणं च यो दद्यात्सुवर्णकमलान्वितम्
ज्येष्ठे मासि तिलैर्युक्तमश्वमेधफलं लभेत् १५
वाराहकल्पवृत्तान्तमधिकृत्य पराशरः
यत्प्राह धर्मानखिलांस्तद्युक्तं वैष्णवं विदुः १६
तदाषाढे च यो दद्याद् घृतधेनुसमन्वितम्
पौर्णमास्यां विपूतात्मा स पदं याति वारुणम्
त्रयोविंशतिसाहस्रं तत्प्रमाणं विदुर्बुधाः १७
श्वेतकल्पप्रसङ्गेन धर्मान्वायुरिहाब्रवीत्
यत्र तद्वायवीयं स्याद्रुद्र माहात्म्यसंयुतम्
चतुर्विंशसहस्राणि पुराणं तदिहोच्यते १८
श्रावण्यां श्रावणे मासि गुडधेनुसमन्वितम्
यो दद्याद्वृषसंयुक्तं ब्राह्मणाय कुटुम्बिने
शिवलोके स पूतात्मा कल्पमेकं वसेन्नरः १९
यत्राधिकृत्य गायत्रीं वर्ण्यते धर्मविस्तरः
वृत्रासुरवधोपेतं तद्भागवतमुच्यते २०
सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरोत्तमाः
तद्वृत्तान्तोद्भवं लोके तद्भागवतमुच्यते २१
लिखित्वा तच्च यो दद्याद्धेमसिंहसमन्वितम्
पौर्णमास्यां प्रौष्ठपद्यां स याति परमां गतिम्
अष्टादश सहस्राणि पुराणं तत्प्रचक्षते २२
यत्राह नारदो धर्मान्बृहत्कल्पाश्रयाणि च
पञ्चविंशत्सहस्राणि नारदीयं तदुच्यते २३
आश्विने पञ्चदश्यां तु दद्याद्धेनुसमन्वितम्
परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम् २४
यत्राधिकृत्य शकुनीन्धर्माधर्मविचारणा
व्याख्याता वै मुनिप्रश्ने मुनिभिर्धर्मचारिभिः ५३.२५
मार्कण्डेयेन कथितं तत्सर्वं विस्तरेण तु
पुराणं नवसाहस्रं मार्कण्डेयमिहोच्यते २६
प्रतिलिख्य च यो दद्यात्सौवर्णकरिसंयुतम्
कार्त्तिक्यां पुण्डरीकस्य यज्ञस्य फलभाग्भवेत् २७
यत्तदीशानकं कल्पं वृत्तान्तमधिकृत्य च
वसिष्ठायाग्निना प्रोक्तमाग्नेयं तत्प्रचक्षते २८
लिखित्वा तच्च यो दद्याद्धेमपद्मसमन्वितम्
मार्गशीर्ष्यां विधानेन तिलधेनुसमन्वितम् २९
तच्च षोडशसाहस्रं सर्वक्रतुफलप्रदम्
यः प्रदधन्नरः सोऽथ स्वर्गलोके महीयते ३०
यत्राधिकृत्य माहात्म्यमादित्यस्य चतुर्मुखः
अघोरकल्पवृत्तान्तप्रसङ्गेन जगत्स्थितिम्
मनवे कथयामास भूतग्रामस्य लक्षणम् ३१
चतुर्दश सहस्राणि तथा पञ्च शतानि च
भविष्यचरितप्रायं भविष्यं तदिहोच्यते ३२
तत्पौषे मासि यो दद्यात्पौर्णमास्यां विमत्सरः
गुडकुम्भसमायुक्तमग्निष्टोमफलं भवेत् ३३
रथन्तरस्य कल्पस्य वृत्तान्तमधिकृत्य च
सावर्णिना नारदाय कृष्णमाहात्म्यमुत्तमम् ३४
यत्र ब्रह्मवराहस्य चोदन्तं वर्णितं मुहुः
तदष्टादशसाहस्रं ब्रह्मवैवर्तमुच्यते ३५
पुराणं ब्रह्मवैवर्तं यो दद्यान्माघमासि च
पौर्णमास्यां शुभदिने ब्रह्मलोके महीयते ३६
यत्राग्निलिङ्गमध्यस्थः प्राह देवो महेश्वरः
धर्मार्थकाममोक्षार्थमाग्नेयमधिकृत्य च ३७
कल्पान्ते लैङ्गमित्युक्तं पुराणं ब्रह्मणा स्वयम्
तदेकादशसाहस्रं फाल्गुन्यां यः प्रयच्छति
तिलधेनुसमायुक्तं स याति शिवसाम्यताम् ३८
महावराहस्य पुनर्माहात्म्यमधिकृत्य च
विष्णुनाभिहितं क्षोण्यै तद्वाराहमिहोच्यते ३९
मानवस्य प्रसङ्गेन कल्पस्य मुनिसत्तमाः
चतुर्विंशत्सहस्राणि तत्पुराणमिहोच्यते ४०
काञ्चनं गरुडं कृत्वा तिलधेनुसमन्वितम्
पौर्णमास्यां मधौ दद्याद् ब्राह्मणाय कुटुम्बिने
वराहस्य प्रसादेन पदमाप्नोति वैष्णवम् ४१
यत्र माहेश्वरान्धर्मानधिकृत्य च षण्मुखः
कल्पे तत्पुरुषं वृत्तं चरितैरुपबृंहितम् ४२
स्कान्दं नाम पुराणं च ह्येकाशीतिर्निगद्यते
सहस्राणि शतं चैकमिति मर्त्येषु गद्यते ४३
परिलिख्य च यो दद्याद्धेमशूलसमन्वितम्
शैवं पदमवाप्नोति मीने चोपागते रवौ ४४
त्रिविक्रमस्य माहात्म्यमधिकृत्य चतुर्मुखः
त्रिवर्गमभ्यधात्तच्च वामनं परिकीर्तितम् ४५
पुराणं दशसाहस्रं कूर्मकल्पानुगं शिवम्
यः शरद्विषुवे दद्याद्वैष्णवं यात्यसौ पदम् ४६
यत्र धर्मार्थकामानां मोक्षस्य च रसातले
माहात्म्यं कथयामास कूर्मरूपी जनार्दनः ४७
इन्द्र द्युम्नप्रसङ्गेन ऋषिभ्यः शक्रसन्निधौ
अष्टादश सहस्राणि लक्ष्मीकल्पानुषङ्गिकम् ४८
यो दद्यादयने कूर्मं हेमकूर्मसमन्वितम्
गोसहस्रप्रदानस्य फलं सम्प्राप्नुयान्नरः ४९
श्रुतीनां यत्र कल्पादौ प्रवृत्त्यर्थं जनार्दनः
मत्स्यरूपेण मनवे नरसिंहोपवर्णनम् ५३.५०
अधिकृत्याब्रवीत्सप्तकल्पवृत्तं मुनीश्वराः
तन्मात्स्यमिति जानीध्वं सहस्राणि चतुर्दश ५१
विषुवे हेममत्स्येन धेन्वा चैव समन्वितम्
यो दद्यात्पृथिवी तेन दत्ता भवति चाखिला ५२
यदा च गारुडे कल्पे विश्वाण्डाद्गरुडोद्भवम्
अधिकृत्याब्रवीत्कृष्णो गारुडं तदिहोच्यते ५३
तदष्टादशकं चैकं सहस्राणीह पठ्यते
सौवर्णहंससंयुक्तं यो ददाति पुमानिह
स सिद्धिं लभते मुख्यां शिवलोके च संस्थितिम् ५४
ब्रह्मा ब्रह्माण्डमाहात्म्यमधिकृत्याब्रवीत्पुनः
तच्च द्वादशसाहस्रं ब्रह्माण्डं द्विशताधिकम् ५५
भविष्याणां च कल्पानां श्रूयते यत्र विस्तरः
तद्ब्रह्माण्डपुराणं च ब्रह्मणा समुदाहृतम् ५६
यो दद्यात्तद्व्यतीपाते पीतोर्णायुगसंयुतम्
राजसूयसहस्रस्य फलमाप्नोति मानवः
हेमधेन्वा युतं तच्च ब्रह्मलोकफलप्रदम् ५७
चतुर्लक्षमिदं प्रोक्तं व्यासेनाद्भुतकर्मणा
मत्पितुर्मम पित्रा च मया तुभ्यं निवेदितम् ५८
इह लोकहितार्थाय सङ्क्षिप्तं परमर्षिणा
इदमद्यापि देवेषु शतकोटिप्रविस्तरम् ५९
उपभेदान्प्रवक्ष्यामि लोके ये सम्प्रतिष्ठिताः
पाद्मे पुराणे यत्रोक्तं नरसिंहोपवर्णनम्
तच्चाष्टादशसाहस्रं नारसिंहमिहोच्यते ६०
नन्दाया यत्र माहात्म्यं कार्त्तिकेयेन वर्ण्यते
नन्दीपुराणं तल्लोकैराख्यातमिति कीर्त्यते ६१
यत्र साम्बं पुरस्कृत्य भविष्यति कथानकम्
प्रोच्यते तत्पुनर्लोके साम्बमेतन्मुनिव्रताः ६२
पुरातनस्य कल्पस्य पुराणानि विदुर्बुधाः
धन्यं यशस्यमायुष्यं पुराणानामनुक्रमम्
एवमादित्यसञ्ज्ञा च तत्रैव परिगद्यते ६३
अष्टादशभ्यस्तु पृथक् पुराणं यत्प्रदिश्यते
विजानीध्वं द्विजश्रेष्ठास्तदेतेभ्यो विनिर्गतम् ६४
पञ्चाङ्गानि पुराणेषु आख्यानकमिति स्मृतम्
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च
वंश्यानुचरितं चैव पुराणं पञ्चलक्षणम् ६५
ब्रह्मविष्ण्वर्करुद्रा णां माहात्म्यं भुवनस्य च
ससंहारप्रदानां च पुराणे पञ्चवर्णके ६६
धर्मश्चार्थश्च कामश्च मोक्षश्चैवात्र कीर्त्यते
सर्वेष्वपि पुराणेषु तद्विरुद्धं च यत्फलम् ६७
सात्त्विकेषु पुराणेषु माहात्म्यमधिकं हरेः
राजसेषु च माहात्म्यमधिकं ब्रह्मणो विदुः ६८
तद्वदग्नेश्च माहात्म्यं तामसेषु शिवस्य च
सङ्कीर्णेषु सरस्वत्याः पितॄणां च निगद्यते ६९
अष्टादश पुराणानि कृत्वा सत्यवतीसुतः
भारताख्यानमखिलं चक्रे तदुपबृंहितम्
लक्षेणैकेन यत्प्रोक्तं वेदार्थपरिबृंहितम् ७०
वाल्मीकिना तु यत्प्रोक्तं रामोपाख्यानमुत्तमम्
ब्रह्मणाभिहितं यच्च शतकोटिप्रविस्तरम् ७१
आहृत्य नारदायैवं तेन वाल्मीकये पुनः
वाल्मीकिना च लोकेषु धर्मकामार्थसाधनम्
एवं सपादाः पञ्चैते लक्षा मर्त्ये प्रकीर्तिताः ७२
पुरातनस्य कल्पस्य पुराणानि विदुर्बुधाः
धन्यं यशस्यमायुष्यं पुराणानामनुक्रमम्
यः पठेच्छृणुयाद्वापि स याति परमां गतिम् ७३
इदं पवित्रं यशसो निधानमिदं पितॄणामतिवल्लभं च
इदं च देवेष्वमृतायितं च नित्यं त्विदं पापहरं च पुंसाम् ७४
इति श्रीमात्स्ये महापुराणे पुराणानुक्रमणिकाभिधानं नाम त्रिपञ्चाशोऽध्यायः ५३