०५१

ऋषय ऊचुः
ये पूज्याः स्युर्द्विजातीनामग्नयः सूत सर्वदा
तानिदानीं समाचक्ष्व तद्वंशं चानुपूर्वशः 51.1
सूत उवाच
योऽसावग्निरभीमानी स्मृतः स्वायम्भुवेऽन्तरे
ब्रह्मणो मानसः पुत्रस्तस्मात्स्वाहा व्यजीजनत् 2
पावकं पवमानं च शुचिरग्निश्च यः स्मृतः
निर्मथ्यः पवमानोऽग्निर्वैद्युतः पावकात्मजः 3
शुचिरग्निः स्मृतः सौरः स्थावराश्चैव ते स्मृताः
पवमानात्मजो ह्यग्निर्हव्यवाहः स उच्यते 4
पावकः सहरक्षस्तु हव्यवाहमुखः शुचिः
देवानां हव्यवाहोऽग्निः प्रथमो ब्रह्मणः सुतः 5
सहरक्षः सुराणां तु त्रयाणां ते त्रयोऽग्नयः
एतेषां पुत्रपौत्राश्च चत्वारिंशत्तथैव च 6
प्रवक्ष्ये नामतस्तान्वै प्रविभागेन तान्पृथक्
पावनो लौकिको ह्यग्निः प्रथमो ब्रह्मणश्च यः 7
ब्रह्मौदनाग्निस्तत्पुत्रो भरतो नाम विश्रुतः
वैश्वानरो हव्यवाहो वहन्हव्यं ममार सः 8
स मृतोऽथर्वणः पुत्रो मथितः पुष्करोदधिः
योऽथर्वा लौकिको ह्यग्निर्दक्षिणाग्निः स उच्यते 9
भृगोः प्रजायताथर्वा ह्यङ्गिराथर्वणः स्मृतः
तस्य ह्यलौकिको ह्यग्निर्दक्षिणाग्निः स वै स्मृतः 10
अथ यः पवमानस्तु निर्मथ्योऽग्निः स उच्यते
स च वै गार्हपत्योऽग्निः प्रथमो ब्रह्मणः स्मृतः 11
ततः सभ्यावसथ्यौ च संशत्यास्तौ सुतावुभौ
ततः षोडश नद्यस्तु चकमे हव्यवाहनः
यः खल्वाहवनीयोऽग्निरभिमानी द्विजैः स्मृतः 12
कावेरीं कृष्णवेणीं च नर्मदां यमुनां तथा
गोदावरीं वितस्तां च चन्द्र भागामिरावतीम् 13
विपाशां कौशिकीं चैव शतद्रुं सरयूं तथा
सीतां मनस्विनीं चैव ह्रादिनीं पावनां तथा 14
तासु षोडशधात्मानं प्रविभज्य पृथक्पृथक्
तदा तु विहरंस्तासु धिष्ण्येच्छः स बभूव ह 15
स्वाभिधानस्थिता धिष्ण्यास्तासूत्पन्नाश्च धिष्णवः
धिष्ण्येषु जज्ञिरे यस्मात्ततस्ते धिष्णवः स्मृताः 16
इत्येते वै नदीपुत्रा धिष्ण्येषु प्रतिपेदिरे
तेषां विहरणीया ये उपस्थेयाश्च ताञ्शृणु
विभुः प्रवाहणोऽग्नीध्रस्तत्रस्था धिष्णवोऽपरे 17
विहरति यथास्थानं पुण्याहे समुपक्रमे
अनिर्देश्यानिवार्याणामग्नीनां शृणुत क्रमम् 18
वासवोऽग्निः कृशानुर्यो द्वितीयोत्तरवेदिकः
सम्राडग्निसुतो ह्यष्टावुपतिष्ठन्ति तान्द्विजाः 19
पर्जन्यः पवमानस्तु द्वितीयः सोऽनुदृश्यते
पावकोष्णः समूह्यस्तु वोत्तरे सोऽग्निरुच्यते 20
हव्यसूदो ह्यसम्मृज्यः शामित्रः स विभाव्यते
शतधामा सुधाज्योती रौद्रै श्वर्यः स उच्यते 21
ब्रह्मज्योतिर्वसुधामा ब्रह्मस्थानीय उच्यते
अजैकपादुपस्थेयः स वै शालामुखो यतः 22
अनिर्देश्यो ह्यहिर्बुÞयो बहिरन्ते तु दक्षिणौ
पुत्रा ह्येते तु सर्वस्य उपस्थेया द्विजैः स्मृताः 23
ततो विहरणीयांस्तु वक्ष्याम्यष्टौ तु तान्सुतान्
हौत्रियस्य सुतो ह्यग्निर्बर्हिषो हव्यवाहनः 24
प्रशंस्योऽग्निः प्रचेतास्तु द्वितीयः संसहायकः
सुतो ह्यग्नेर्विश्ववेदा ब्राह्मणाच्छंसिरुच्यते 51.25
अपां योनिः स्मृतः स्वाम्भः सेतुर्नाम विभाव्यते
धिष्ण्य आहरणा ह्येते सोमेनेज्यन्त वै द्विजैः 26
ततो यः पावको नाम्ना यः सद्भिर्योग उच्यते
अग्निः सोऽवभृथो ज्ञेयो वरुणेन सहेज्यते 27
हृदयस्य सुतो ह्यग्नेर्जठरेऽसौ नृणां पचन्
मन्युमाञ्जठरश्चाग्निर्विद्धाग्निः सततं स्मृतः 28
परस्परोत्थितो ह्यग्निर्भूतानीह विभुर्दहन्
अग्नेर्मन्युमतः पुत्रो घोरः संवर्तकः स्मृतः 29
पिबन्नपः स वसति समुद्रे वडवामुखे
समुद्र वासिनः पुत्रः सहरक्षो विभाव्यते 30
सहरक्षस्तु वै कामान्गृहे स वसते नृणाम्
क्रव्यादग्निः सुतस्तस्य पुरुषान्योऽत्ति वै मृतान् 31
इत्येते पावकस्याग्नेर्द्विजैः पुत्राः प्रकीर्तिताः
ततः सुतास्तु सौवीर्याद्गन्धर्वैरसुरैर्हृताः 32
मथितो यस्त्वरण्यां तु सोऽग्निराप समिन्धनम्
आयुर्नाम्ना तु भगवान्पशौ यस्तु प्रणीयते 33
आयुषो महिमान्पुत्रो दहनस्तु ततः सुतः
पाकयज्ञेष्वभीमानी हुतं हव्यं भुनक्ति यः 34
सर्वस्माद्देवलोकाच्च हव्यं कव्यं भुनक्ति यः
पुत्रोऽस्य सहितो ह्यग्निरद्भुतः स महायशाः 35
प्रायश्चित्तेष्वभीमानी हृतं हव्यं भुनक्ति यः
अद्भुतस्य सुतो वीरो देवांशस्तु महान्स्मृतः 36
विविधाग्निस्ततस्तस्य तस्य पुत्रो महाकविः
विविधाग्निसुतादर्कादग्नयोऽष्टौ सुताः स्मृताः 37
काम्यास्विष्टिष्वभीमानी रक्षोहायतिकृच्च यः
सुरभिर्वसुमान्नादो हर्यश्वश्चैव रुक्मवान् 38
प्रवर्ग्यः क्षेमवांश्चैव इत्यष्टौ च प्रकीर्तिताः
शुच्यग्नेस्तु प्रजा ह्येषा अग्नयश्च चतुर्दश 39
इत्येते ह्यग्नयः प्रोक्ताः प्रणीता ये हि चाध्वरे
समतीते तु सर्गे ये यामैः सह सुरोत्तमैः 40
स्वायम्भुवेऽन्तरे पूर्वमग्नयस्तेऽभिमानिनः
एते विहरणीयेषु चेतनाचेतनेष्विह 41
स्थानाभिमानिनोऽग्नीध्राः प्रागासन्हव्यवाहनाः
काम्यनैमित्तिकाद्यास्ते ये ते कर्मस्ववस्थिताः 42
पूर्वे मन्वन्तरेऽतीते शुक्रैर्यामैश्च तैः सह
एते देवगणैः सार्धं प्रथमस्यान्तरे मनोः 43
इत्येता योनयो ह्यक्ताः स्थानाख्या जातवेदसाम्
स्वारोचिषादिषु ज्ञेयाः सवर्णान्तेषु सप्तसु 44
तैरेवं तु प्रसङ्ख्यातं साम्प्रतानागतेष्विह
मन्वन्तरेषु सर्वेषु लक्षणं जातवेदसाम् 45
मन्वन्तरेषु सर्वेषु नानारूपप्रयोजनैः
वर्तन्ते वर्तमानैश्च यामैर्देवैः सहाग्नयः 46
अनागतैः सुरैः सार्धं वत्स्यन्तोऽनागतास्त्वथ
इत्येष प्रचयोऽग्नीनां मया प्रोक्तो यथाक्रमम्
विस्तरेणानुपूर्व्या च किमन्यच्छ्रोतुमिच्छथ 47