पूरुवंशवर्णनम्।
पूरोः पुत्रो महातेजा राजा स जनमेजयः।
प्राची ततः सुतस्तस्य यः प्राचीमकरोद्दिशम्॥ ४९.१ ॥
प्राचीत तस्य तनयो मनस्युश्च तथा भवत्।
राजा पीतायुधो नाम मनस्योरभवत् सुतः॥ ४९.२ ॥
दायादस्तस्य चाप्यासीद् धुन्धुर्नाम महीपतिः।
धुन्धोर्बहुविधः पुत्रः सम्पातिस्तस्य चात्मजः॥ ४९.३ ॥
सम्पातेस्तु रहं वर्चा भद्राश्वस्तस्य चात्मजः।
भद्राश्वस्य घृताया तु दशाप्सरसि सूनवः॥ ४९.४ ॥
औचेयुश्च हृषेयुश्च पुण्येयु श्चेति ते दश।
घृतेयुश्च विनेयुश्च स्थलेयुश्चैव सत्तमः॥ ४९.५ ॥
धर्मेयुः सन्नतेयुश्च पुण्येयु श्चेति ते दश।
औचयो र्ज्वलना नाम भार्या वै तक्षकात्मजा॥ ४९.६ ॥
तस्यां स जनयामास अन्तिनारं महीपतिम्।
अन्तिनारो मनस्विन्यां पुत्रान् जज्ञे परान् शुभान्॥ ४९.७ ॥
अमूर्तरयसंवीरं त्रिवनञ्चैव धार्मिकम्।
गौरी कन्या तृतीया च मान्धातुर्जननी शुभा॥ ४९.८ ॥
इलिना तु यमस्यासीत् कन्याया जनयत् सुतान्।
ब्रह्मवाद पराक्रान्तां श्छुम्भदा त्विलिना ह्यभूत्॥ ४९.९ ॥
उपदानवी सुतान् लेभे चतुरस्त्विलिनात्मजात्।
ऋष्यन्तमथ दुष्यन्तं प्रवीरमनघं तथा॥ ४९.१० ॥
चक्रवर्त्ती ततो जज्ञे दुष्यन्तात् समितिञ्जयः।
शकुन्तलायां भरतो यस्य नाम्ना च भारताः॥ ४९.११ ॥
दौष्यन्तिं प्रति राजानं वागूचे चाशरीरिणी।
माता भस्त्रा पितुः पुत्रो येन जातः स एव सः॥ ४९.१२ ॥
भर स्वपुत्रं दुष्यन्त! मावमंस्थाः शकुन्तलाम्।
रेतोधां नयते पुत्रः परेतं यमसादनात्॥
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला॥ ४९.१३ ॥
भरतस्य विनष्टेषु तनयेषु पुरा किल।
पुत्राणां मातृकात् कोपात् सुमहान् सङ्क्षयः कृतः॥ ४९.१४ ॥
ततो मरुद्भिरानीय पुत्रः स तु बृहस्पतेः।
सङ्क्रामितो भरद्वाजो मरुद्बिर्भरतस्य तु॥ ४९.१५ ॥
ऋषय ऊचुः।
भरतस्य भरद्वाजः पुत्रार्थं मारुतैः कथम्।
सङ्क्रामितो महातेजास्तन्नो ब्रूहि यथातथम्॥ ४९.१६ ॥
सूत उवाच।
पत्न्यामापन्नसत्वायामुशिजः सः स्थितो भुवि।
भ्रातुर्भार्य्यां सद्रृष्ट्वा तु बृहस्पतिरुवाच ह॥ ४९.१७ ॥
उपतिष्ठ स्वलङ्कृत्य मैथुनाय च मां शुभे!।
एव मुक्ताऽब्रवीदेनं स्वयमेव बृहस्पतिम्॥ ४९.१८ ॥
गर्भः परिणतश्चायं ब्रह्म व्याहरते गिरा।
अमोघरेतास्त्वञ्चापि धर्मञ्चैवं विगर्हितम्॥ ४९.१९ ॥
एवमुक्तोऽब्रवीदेनां स्वयमेव बृहस्पतिः।
नोपदेष्टव्यो विनयस्त्वया मे वरवर्णिनि!॥ ४९.२० ॥
धर्षमाणः प्रसह्यैनां मैथुनायोपचक्रमे।
ततो बृहस्पतिं गर्भो धर्षमाणमुवाच ह॥ ४९.२१ ॥
सन्निविष्टो ह्यहं पूर्वमिह नाम बृहस्पते!।
अमोघरेताश्च भवान् नावकाश इह द्वयोः॥ ४९.२२ ॥
एवमुक्तः स गर्भेण कुपितः प्रत्युवाच ह।
यस्मात्त्वमीद्रृशे काले सर्वभूतेप्सिते सति॥
अभिषेधसि तस्मात्त्वं तमो दीर्घं प्रवेक्ष्यसि॥ ४९.२३ ॥
ततः कामं सन्निवर्त्य तस्यानन्दाद् बृहस्पतेः।
तद्रेतस्त्वपतद् भूमौ निवृत्तं शिशुकोऽभवत्॥ ४९.२४ ॥
सद्यो जातं कुमारं तु द्रृष्ट्वा तं ममताऽब्रवीत्।
गमिष्यामि गृहं स्वं वै भरस्वैनं बृहस्पते॥ ४९.२५ ॥
एवमुक्त्वागता सा तु गतायां सोऽपि तं त्यजन्।
मातापितृभ्यां त्यक्तन्तु द्रृष्ट्वा तं मारुतः शिशुम्
जगृहुस्तं भरद्वाजं मरुतः कृपया स्थिताः॥ ४९.२६ ॥
तस्मिन् काले तु भरतो बहुभिः ऋतुभि र्विभुः।
पुत्रनैमित्तिकैर्यज्ञैरयजत् पुत्रलिप्सया॥ ४९.२७ ॥
यदा स यजमानस्तु पुत्रं नासादयत् प्रभुः।
ततः क्रतुं मरुत्सोमं पुत्रार्थे समुपाहरत्॥ ४९.२८ ॥
तेन ते मरुतस्तस्य मरुत्सोमेन तुष्टुवुः।
उपनिन्युर्भरद्वाजं पुत्रार्थं भरताय वै॥ ४९.२९ ॥
दायादोऽङ्गिरसः सूनो रौरसस्तु बृहस्पतेः।
सङ्क्रामितो भरद्वाजो मरुद्भिर्मरुतं प्रति॥ ४९.३० ॥
भरतस्तु भरद्वाजं पुत्रं प्राप्य विभुरब्रवीत्।
आदावात्महितायः त्वं कृतार्थोऽहं त्वया विभो॥ ४९.३१ ॥
पूर्वं तु वितथो तस्मिन् कृते वै पुत्रजन्मनि।
ततस्तु वितथो नाम भरद्वाजो नृपोऽभवत्॥ ४९.३२ ॥
तस्मादपि भरद्वाजाद् ब्राह्मणाः क्षत्रिया भुवि।
द्व्यामुष्यायणकौलीनाः स्मृतास्ते द्विविधेन च॥ ४९.३३ ॥
ततो जाते हि वितथे भरतश्च दिवं ययौ।
भरद्वाजो दिवं यातो ह्यभिषिच्यसुतं ऋषिः॥ ४९.३४ ॥
दायादो वितथस्यासीद् भुवमन्युर्महायशाः।
महाभूतोपमाः पुत्रा श्चत्वारो भुवमन्यवः॥ ४९.३५ ॥
बृहत् क्षेत्रो महावीर्यः नरो गर्गश्च वीर्य्यवान्।
नरस्य सङ्कृतिः पुत्रस्तस्य पुत्रो महायशाः॥ ४९.३६ ॥
गुरुधीरन्तिदेवश्च सत्कृत्यान्तावुभौ स्मृतौ।
गर्गस्य चैव दायादः शिबिर्विद्वानजायत॥ ४९.३७ ॥
स्मृताः शैव्यास्ततो गर्गाः क्षत्रोपेता द्विजातयः।
आहार्यतनयश्चैव धीमानासीदुरुक्षवः॥ ४९.३८ ॥
तस्य भार्या विशाला तु सुषुवे पुत्रकत्रयम्।
त्रयूषपं पुष्करिं चैव कविं चैव महायशाः॥ ४९.३९ ॥
उरुक्षवाः स्मृता ह्येते सर्वे ब्राह्मणताङ्गताः।
काव्यानान्तु वरा ह्येते त्रयः प्रोक्ता महर्षयः॥ ४९.४० ॥
गर्गाः सङ्कृतयः काव्याः क्षत्रोपेताद्विजातयः।
सम्भृताङ्गिरसो दक्षाः बृहत् क्षत्रस्य च क्षितिः॥ ४९.४१ ॥
बृहत् क्षत्रस्य दायादो हस्ति नामा बभूव ह।
तेनेदं निर्मितं पूर्वं पुरन्तु गजसाह्वयम्॥ ४९.४२ ॥
हस्तिनश्चैव दायादा स्त्रयः परमकीर्त्तयः।
अजमीढो द्विमीढश्च पुरुमीढस्तथैव च॥ ४९.४३ ॥
अजमीढस्य पत्न्यस्तु तिस्त्रः कुरुकुलोद्वहाः।
नीलिनी धूमिनीचैव केशिनी चैव विश्रुताः॥ ४९.४४ ॥
स तासु जनयामास पुत्रान् वै देववर्चसः।
तपसोऽन्ते महातेजा जाता वृद्धस्य धार्मिकाः॥ ४९.४५ ॥
भारद्वाजप्रसादेन विस्तरं तेषु मे श्रृणु।
अजमीढस्य केशिन्यां कण्वः समभवत् किल॥ ४९.४६ ॥
मेधातिथिः सुतस्तस्य तस्मात् काण्वायना द्विजाः।
अजमीढस्य भूमिन्यां जज्ञे बृहदनुर्नृपः॥ ४९.४७ ॥
बृहदनोर्बृहन्तोऽथ बृहन्तस्य बृहन् मनाः।
बृहन्मनः सुतश्चापि बृहद्धनुरिति श्रुतः॥ ४९.४८ ॥
बृहद्धनोर्बृहदिषुः पुत्रस्तस्य जयद्रथः।
अश्वजित् तनयस्तस्य सेनजित् तस्य चात्मजः॥ ४९.४९ ॥
अथ सेनजितः पुत्रा श्चत्वारो लोकविश्रुताः।
रुचिराश्वश्च काव्यश्च राजा द्रृढरथस्तथा॥ ४९.५० ॥
वत्सश्चावर्तको राजा यस्यैते परिवत्सकाः।
रुचिराश्वस्य दायादः पृथुसेनो महायशाः॥ ४९.५१ ॥
पृथुसेनस्य पौरस्तु पौरान्नीपोऽथ जज्ञिवान्।
नीपस्यैक शतं त्वासीत् पुत्राणाममितौजसाम्॥ ४९.५२ ॥
नीपा इति समाख्याताः राजानः सर्व एव ते।
तेषां वंशकरः श्रीमान् नीपानां कीर्त्तिवर्द्धनः॥ ४९.५३ ॥
काव्याच्च समरो नाम सदेष्टसमरोऽभवत्।
समरस्य पारसम्पारौ सदश्व इति ते त्रयः॥ ४९.५४ ॥
पुत्राः सर्वगुणोपेता जाता वै विश्रुता भुवि।
पारपुत्रः पृथुर्जातः पृथोस्तु सुकृतोऽभवत्॥ ४९.५५ ॥
जज्ञे सर्वगुणोपेतो विभ्राजस्तस्य चात्मजः।
विभ्राजस्य तु दायाद स्त्वणुहो नाम वीर्य्यवान्॥ ४९.५६ ॥
बभूव शुकजामाता कृत्वी भर्ता महायशाः।
अणुहस्य तु दायादो ब्रह्मदत्तो महीपतिः॥ ४९.५७ ॥
युगदत्तः सुतस्तस्य विष्वक्सेनो महायशाः।
विभ्राजः पुनराजातो सुकृतेनेह कर्मणा॥ ४९.५८ ॥
विष्वक्सेनस्य पुत्रस्तु उदक्सोनो बभूव ह।
भल्लाटस्तस्य पुत्रस्तु तस्यासीज्जनमेजयः।
उग्रायुधेन तस्यार्थे सर्वे नीपाः प्रणाशिताः॥ ४९.५९ ॥
ऋषय ऊचुः।
उग्रायुधः कस्य सुतः कस्य वंशे स कथ्यते।
किमर्थं तेन ते नीपाः सर्वे चैव प्रणाशिताः॥ ४९.६० ॥
सूत उवाच।
उग्रायुधः सूर्य्यवंश्य स्तपस्तेपे वराश्रमे।
स्थाणुभूतोऽष्टसाहस्रं तं भेजे जनमेजयः॥ ४९.६१ ॥
तस्य राज्यं प्रतिश्रुत्य नीपानाजघ्निवान् प्रभुः।
उवाच सान्त्वं विविधं जघ्नुस्ते वै ह्युभावपि॥ ४९.६२ ॥
हन्यमाना गतानूचे यस्माद्धेतोर्न मे वचः।
शरणागतरक्षार्थं तस्मादेवं शपामि वः॥ ४९.६३ ॥
यदि मेऽस्ति तपस्तप्तं सर्वान्नयतु वो यमः।
ततस्तान् कृष्यमाणांस्तु यमेन पुरतः स तु॥ ४९.६४ ॥
कृपया परयाविष्टो जनमेजयमूचिवान्।
गतानेतानिमान् वीरांस्त्वं मे रक्षितुमर्हसि॥ ४९.६५ ॥
अरे पापा! दुराचारा! भवितारोऽस्य किङ्कराः।
तथेत्युक्तस्ततो राजा यमेन युयुधे चिरम्॥ ४९.६६ ॥
व्याधिभिर्नारकैर्घोरैर्यमेन सह तान् बलात्।
विजित्य मुनये प्रादात् तदद्भुतमिवाऽभवत्॥ ४९.६७॥
यमस्तुष्टस्ततस्तस्मै मुक्ति ज्ञानं ददौ परम्।
सर्वे यथोचितं कृत्वा जग्मुस्ते कृष्णमव्ययम्॥ ४९.६८ ॥
येषान्तु चरितं गृह्य हन्यन्ते नापमृत्युभिः।
इह लोके परे चैव सुखमक्षय्यमश्नुते॥ ४९.६९ ॥
अजमीढस्य धूमिन्यां विद्वाञ्जज्ञे यवीनरः।
धृतिमांस्तस्य पुत्रस्तु तस्य सत्यधृतिस्मृतः॥
अथ सत्यधृतेः पुत्रो द्रृढनेमिः प्रतापवान्॥ ४९.७० ॥
दृढनेमि सुतश्चापि सुधर्मा नाम पार्थिवः।
आसीन् सुधर्मतनयः सार्वभौमः प्रतापवान्॥ ४९.७१ ॥
सार्वभौमेति विख्यातः पृथिव्यामेकारड् बभौ।
तस्यान्ववाये महति महापौरवनन्दनः॥ ४९.७२ ॥
महापौरवपुत्रस्तु राजा रुक्मरथः स्मृतः।
अथ रुक्मरथस्यासीत् सुपार्श्वो नामपार्थिवः॥ ४९.७३ ॥
सुपार्श्वतनयश्चापि सुमतिर्नाम धार्मिकः।
सुमतेरपि धर्मात्मा राजा सन्नतिमानपि॥ ४९.७४ ॥
तस्यासीत् सन्नतिमतः कृतो नाम सुतो महान्।
हिरण्यनाभिनः शिष्यः कौसल्यस्य महात्मनः॥ ४९.७५ ॥
चतुर्विंशतिधा येन प्रोक्ता वै साम संहिताः।
स्मृतास्ते प्राच्य सामानः कार्तानामेह सामगाः॥ ४९.७६ ॥
कार्तिरुग्रायुधः सो वै महापौरववर्द्धनः।
बभूव येन विक्रम्य पृथुकस्य पिता हतः॥ ४९.७७ ॥
नीलो नाम महाराजः पञ्चालाधिपतिर्वशी।
उग्रायुधस्य दायादः क्षेमो नाम महायशाः॥ ४९.७८ ॥
क्षेमात् सुनीथः सञ्जज्ञे सुनीथस्य नृपञ्जयः।
नृपञ्जयाच्च विरथ इत्येते पौरवाः स्मृताः॥ ४९.७९ ॥