कृष्णोत्पत्तिवर्णनम्।
सूत उवाच।
ऐक्ष्वाकी सुषुवे शूरं ख्यातमद्भुत मीढुषम्।
पौरुषाज्जज्ञिरे शूरात् भोजायां पुत्रकादश॥ ४६.१ ॥
वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः।
देवमार्गस्ततो जज्ञे ततो देवश्रवाः पुनः॥ ४६.२ ॥
अनाधृष्टिः शिनिश्चैव नन्दश्चैव ससृञ्जयः।
श्यामः शमीकः संयूपः पञ्च चास्य वराङ्गनाः॥ ४६.३ ॥
श्रुतकीर्तिः पृथा चैव श्रुतदेवी श्रुतश्रवाः।
राजाधि देवी च तथा पञ्चैता वीरमातरः॥ ४६.४ ॥
कृतस्य तु श्रुता देवी सुग्रहं सुषुवे सुतम्।
कैकेय्यां श्रुतकीर्त्यान्तु जज्ञे सोऽनुव्रतो नृपः॥ ४६.५ ॥
श्रुत श्रवसि चैद्यस्य सुनीथः समपद्यत।
वार्षिको धर्म्मशारीरः स बभूवारिमर्दनः॥ ४६.६ ॥
अथ सख्येन वृद्धेऽसौ कुन्तिभोजे सुतां ददौ।
एवं कुन्ती समाख्याता वसुदेवस्वसा पृथा॥ ४६.७ ॥
वसुदेवेन सा दत्ता पाण्डोर्भार्या ह्यनिन्दिता।
पाण्डो रर्थेन सा जज्ञे देवपुत्रान् महारथान्॥ ४६.८ ॥
धर्माद्युधिष्ठिरो जज्ञे वायोर्जज्ञे वृकोदरः।
इन्द्राद्धनञ्जयश्चैव शक्रतुल्य पराक्रमः॥ ४६.९ ॥
माद्रवत्यान्तु जनितावश्विभ्यामिति शुश्रुमः।
नकुलः सहेदवश्च रूपशीलगुणान्वितौ॥ ४६.१०॥
रोहिणी पौरवी सा तु ख्यातमानकदुन्दुभेः।
लेभे ज्येष्ठसुन्तं रामं सारणञ्च सुतं प्रियम्॥ ४६.११ ॥
दुर्दमं दमनं सुभ्रु पिण्डारक महाहनू।
चित्राक्ष्यौ द्वे कुमार्य्यौ तु रोहिण्यां जज्ञिरे तदा॥ ४६.१२ ॥
देवक्यां जज्ञिरे शौरेः सुषेणः कीर्तिमानपि।
उदासी बद्रसेनश्च ऋषिवासस्तथैव च॥
षष्ठो भद्र विदेहश्च कंसः सर्वानघातयत्॥ ४६.१३ ॥
प्रथमाया अमावास्या वार्षिकी तु भविष्यति।
तस्यां जज्ञे महाबाहुः पूर्वकृष्णः प्रजापतिः॥ ४६.१४ ॥
अनुजात्वभवत् कृष्णात् सुभद्रा भद्रभाषिणी।
देवक्यान्तु महातेजा जज्ञे शूरो महायशाः॥ ४६.१५ ॥
सहदेवस्तु ताम्रायां जज्ञे शौरिकुलोद्वहः।
उपासङ्गधरं लेभे तनयं देवरक्षिता॥
एकां कन्याञ्च सुभगां कंसस्तामभ्यघातयत्॥ ४६.१६ ॥
विजयं रोचमानञ्च वर्द्धमानन्तु देवलम्।
एते सर्वे महात्मानो ह्युपदेव्याः प्रजज्ञिरे॥ ४६.१७ ॥
अवगाहो महात्मा च वृकदेव्यामजायत।
वृकदेव्यां स्वयं जज्ञे नन्दको नामनामतः॥ ४६.१८ ॥
सप्तमं देवकी पुत्रं मदनं सुषुवे नृप।
गवेषमं महाभागं सङ्ग्रामेष्वपराजितम्॥ ४६.१९॥
श्रद्धा देव्या विहारे तु वने हि विचरन् पुरा।
वैश्यायामदधात् शौरिः पुत्रं कौशिकमग्रजम्॥ ४६.२० ॥
सुतनू रथराजी च शौरेरास्तां परिग्रहौ।
पुण्ङ्रश्च कपिलश्चैव वसुदेवात्मजौ बलौ॥ ४६.२१ ॥
जरा नाम निषादोऽभूत् प्रथमः स धनुर्धरः।
सौभद्रश्च भवश्चैव महासत्वौ बभूवतुः॥ ४६.२२ ॥
देवभाग सुतश्चापि नाम्नाऽसावुद्धवः स्मृतः।
पण्डितं प्रथमं प्राहु र्देवश्रवः समुद्भवम्॥ ४६.२३ ॥
ऐक्ष्वाक्यलभतापत्य आनाधृष्टेर्यशस्विनी।
निर्धूतसत्वं शत्रुघ्नं श्राद्धस्तस्मादजायत॥ ४६.२४ ॥
करूषायानपत्याय कृष्णस्तुष्टः सुतन्ददौ।
सुचन्द्रन्तु महाभागं वीर्यवन्तं महाबलम्॥ ४६.२५ ॥
जाम्बवत्याः सुतावेतौ द्वौ च सत्कृतलक्षणौ।
चारुदेष्णश्च साम्बश्च वीर्यवन्तौ महाबलौ॥ ४६.२६ ॥
तन्तिपालश्च तन्तिश्च नन्दनस्य सुतावुभौ।
शमीकपुत्राश्चत्वारो विक्रान्ताः सुमहाबलाः॥
विराजश्च धनुश्चैव श्याम्यश्च सृञ्जयस्तथा॥ ४६.२७ ॥
अनपत्योऽभवच्छ्यामः शमीकस्तु वनं ययौ।
जुगुप्समानो भोजत्वं राजर्षित्वमवाप्तवान्॥ ४६.२८ ॥
कृष्णस्य जन्माभ्युदयं यः कीर्तयति नित्यशः।
श्रृणोति मानवो नित्यं सर्वपापैः प्रमुच्यते॥ ४६.२९ ॥