०४४

यदुवंशवर्णने क्रोष्टुवंशवर्णनम्।

ऋषय ऊचुः।
किमर्थं तद्वनं दग्धमापवस्य महात्मनः।
कार्तवीर्येण विक्रम्य सूत! प्रब्रूहि तत्वतः॥ ४४.१ ॥

रक्षिता स तु राजर्षिः प्रजानामिति नः श्रुतम्।
सकथं रक्षिता भूत्वा अदहत्तत्तपोवनम्॥ ४४.२ ॥

सूत उवाच।
आदित्यो द्विजरूपेण कार्तवीर्यमुपस्थितः।
तृप्तिमेकां प्रयच्छस्व आदित्योऽहं नरेश्वर॥ ४४.३ ॥

राजोवाच।
भगवन्! केन तृप्तिस्ते भवत्येव दिवाकर।
कीद्रृशं भोजनं दद्मि श्रुत्वा तु विदधाम्यहम्॥ ४४.४ ॥

आदित्य उवाच।
स्थावरन्देहि मे सर्वमाहारं ददतां वर।
तेन तृप्तो भवेयं वै सा मे तृप्तिर्हि पार्थिव॥ ४४.५ ॥

कार्तवीर्य उवाच।
न शक्याः स्थावराः सर्वे तेजसा च बलेन च।
निर्दग्धुं तपतां श्रेष्ठ! तेन त्वां प्रणमाम्यहम्॥ ४४.६ ॥

आदित्य उवाच।
तुष्टस्तेऽहं शरान् दद्मि अक्षयान् सर्वतो मुखान्।
ये प्रक्षिप्ता ज्वलिष्यन्ति मम तेजः समन्॥ ४४.७ ॥

आविष्टा मम तेजोभिः शेषयिष्यन्ति स्थावरान्।
शुष्कान् भस्मीकरिष्यन्ति तेन तृप्तिर्नराधिप॥ ४४.८ ॥

सूत उवाच।
ततः शरांस्तदादित्य स्त्वर्जुनाय प्रयच्छत।
ततो ददाह सम्प्राप्तान् स्थावरान् सर्वमेव च॥ ४४.९ ॥

ग्रामां स्तथाश्रमांश्चैव घोषाणि नगराणि च।
तथा वनानि रम्याणि वनान्युपवनानि च॥ ४४.१० ॥

एवं प्राचीं समदहत् ततः सर्वांश्च पक्षिणः।
निर्वृक्षा निस्तृणा भूमिर्हता घोरेण तेजसा॥ ४४.११ ॥

एतस्मिन्नेव काले तु आपो वा जलमास्थितः।
दश वर्षसहस्राणि तत्रास्ते समहानृषिः॥ ४४.१२ ॥

पूर्णे व्रते महातेजा उदतिष्ठं स्तपोधनः।
सोऽपश्यदाश्रमं दग्धमर्जुनेन महामुनिः॥ ४४.१३ ॥

क्रोधाच्छशाप राजर्षि कीर्तितं वो यथा मया।
क्रोष्टोः श्रृणुतराजर्षे र्वंशमुत्तमपौरुषम्॥ ४४.१४ ॥

यस्यान्ववाये सम्भूतो विष्णुर्वृष्णिकुलोद्वहः।
क्रोष्टोरेवाभवत् पुत्रो वृजिनीवान् महारथः॥ ४४.१५ ॥

वृजनीवतश्च पुत्रोऽभूत् स्वाहो नाम महाबलः।
स्वाह पुत्रोऽभवद्राजन्!रुषङ्गर्वदतां वरः॥ ४४.१६ ॥

स तु प्रसूतिमिच्छन् वैरुषङ्गुः सौम्यमात्मजम्।
चित्रश्चित्ररथश्चास्य पुत्रः कर्मभिरन्वितः॥ ४४.१७ ॥

अथ चैत्ररथिर्वीरो जज्ञे विपुलदक्षिणः।
शशबिन्दुरिति ख्यातश्चक्रवर्त्ती बभूव ह॥ ४४.१८ ॥

अत्रानुवंश श्लोकोऽयं गीतस्तस्मिन् पुराऽभवत्।
शशबिन्दोस्तु पुत्राणां शत नामभवच्छतम्॥ ४४.१९ ॥

धीमतां चाभिरूपाणां भूरि द्रविण तेजसाम्।
तोषां शतप्रधानानां पृथुसाह्वा महाबलाः॥ ४४.२० ॥

पृथुश्रवाः पृथुयशाः पृथुधर्मा पृथुञ्जयः।
पृथुकीर्त्तिः पृथुमना राजानः शशबिन्दवः॥ ४४.२१ ॥

शंसन्ति च पुराणज्ञाः पृथुश्रवसमुत्तमम्।
अन्तरस्य सुयज्ञस्य सुयज्ञस्तनयोऽभवत्॥ ४४.२२ ॥

उशना तु सुयज्ञस्य यो रक्षन् पृथिवीमिमाम्।
आजहाराश्वमेधानां शतमुत्तमधार्मिकः॥ ४४.२३ ॥

तितिक्षुरभवत् पुत्र औशनः शत्रुतापनः।
मरुत्तस्तस्य तनयो राजर्षीणामनुत्तमः॥ ४४.२४ ॥

आसीन् मरुत्त तनयो वीरः कम्बलबर्हिषः।
पुत्रस्तु रुक्मकवचो विद्वान् कम्बलबर्हिषः॥ ४४.२५ ॥

निहत्य रुक्मकवचः परान् कवचधारिणः।
धन्विनो विविधै र्बाणै रवाप्य पृथिवीमिमाम्॥ ४४.२६ ॥

अश्वमेधे ददौ राजा ब्राह्मणेभ्यस्तु दक्षिणाम्।
यज्ञे तु रुक्मकवचः कदाचित् परवीरहा॥ ४४.२७ ॥

जज्ञिरे पञ्चपुत्रास्तु महावीर्या धनुर्भृतः।
रुक्मेषु पृथुरुक्मश्च ज्यामघः परिघो हरिः॥ ४४.२८ ॥

परिधं च हरिं चैव विदेहेऽस्थापयत् पिता।
रुक्मेषुरभवद्राजा पृथुरुक्मस्तदाश्रयः॥ ४४.२९ ॥

तेभ्यः प्रव्राजितो राज्यात् ज्यामघस्तु तदाश्रमे।
प्रशान्तश्चाश्रमस्थश्च ब्राह्मणेनावबोधितः॥ ४४.३० ॥

जगाम धनुरादाय देशमन्यं ध्वजी रथी।
नर्म्मदां नृप एकाकी केवलं वृत्तिकामतः॥ ४४.३१ ॥

ऋक्षवन्तं गिरिं गत्वा भुक्तमन्यैरुपाविशत्।
ज्यामघस्याभवद् भार्या चैत्रापरिणतासती॥ ४४.३२ ॥

अपुत्रो न्यवसद्राजा भार्यामन्यान्नविन्दत।
तस्यासीद्विजयो युद्धे तत्र कन्यामवाप्य सः॥ ४४.३३ ॥

भार्यामुवाच सन्त्रासात् स्नुषेयं ते शुचिस्मिते।
एव मुक्ताब्रवीदेन कस्य चेयं स्नुषेति च॥ ४४.३४ ॥

राजोवाच।
यस्तेजनिष्यते पुत्रस्तस्य भार्या भविष्यति।
तस्मात् सा तपसोग्रेण कन्यायाः सम्प्रसूयत॥ ४४.३५ ॥

पुत्रं विदर्भं सुभगा चैत्रा परिणता सती।
राजपुत्र्यां च विद्वान् स स्नुषायां क्रथ कैशिकौ॥
लोमपादं तृतीयन्तु पुत्रं परमधार्मिकम्॥ ४४.३६ ॥

तस्यां विदर्भोऽजनयच्छूरान् रणविशारदान्।
लोमपादान्मनुः पुत्रो ज्ञातिस्तस्य तु चात्मजः॥ ४४.३७ ॥

कैशिकस्य चिदिः पुत्रो तस्माच्चैद्या नृपाः स्मृताः।
क्रथो विदर्भपुत्रस्तु कुन्ति स्तस्यात्मजोऽभवत्॥ ४४.३८ ॥

कुन्ते र्धृतः सुतो जज्ञे रणधृष्टः प्रतापवान्।
धृष्टस्य पुत्रो धर्मात्मा निर्वृतिः परवीरहा॥ ४४.३९ ॥

तदेको निर्वृतेः पुत्रो नाम्ना स तु विदूरथः।
दशार्हिस्तस्य वै पुत्रो व्योमस्तस्य च वै स्मृतः॥
दाशार्हाच्चैव व्योमात्तु पुत्रो जीमूत उच्यते॥ ४४.४० ॥

जीमूतपुत्रो विमलस्तस्य भीमरथः सुतः।
सुतो भीमरथस्यासीत् स्मृतो नवरथः किल॥ ४४.४१ ॥

तस्य चासीद् दृढरथः शकुनिस्तस्य चात्मजः।
तस्मात् करम्भः कारम्भि र्देवरातो बभूव ह॥ ४४.४२ ॥

देवक्षत्रोऽभवद्राजा दैवरातिर्महायशाः।
देवगर्भसमो जज्ञे देवनक्षत्रनन्दनः॥ ४४.४३ ॥

मधुर्नाम महातेजा मधोः पुरवसस्तथा।
आसीत् पुरवसः पुत्रः पुरुद्वान् पुरुषोत्तमः॥ ४४.४४ ॥

जन्तुर्जज्ञेऽथ वैदर्भ्यां भद्रसेन्यां पुरुद्वतः।
ऐक्ष्वाकी चाभवद् भार्या जन्तोस्तस्यामजायत॥ ४४.४५ ॥

सात्वतः सत्वसंयुक्तः सात्वतां कीर्तिवर्द्धनः।
इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः॥
प्रजावानेति सायुज्यं राज्ञः सोमस्य धीमतः॥ ४४.४६ ॥

सात्वतान् सत्वसम्पन्नान् कौसल्या सुषुवे सुतान्।
भजिनं भजमानन्तु दिव्यं देवावृधं नृप!॥ ४४.४७ ॥

अन्धकञ्च महाभोजं वृष्णिं च यदुनन्दनम्!
तेषां तु सर्गा श्चत्वारो विस्तरेणैव तच्छृणु॥ ४४.४८ ॥

भजमानस्य सृञ्जय्यां बाह्यकायाञ्च बाह्यकाः।
सृञ्जयस्य सुते द्वे तु बाह्यकास्तु तदाभवन्॥ ४४.४९ ॥

तस्य भार्ये भगिन्यौ द्वे सुषुवाते बहून् सुतान्।
निमिंश्च कृमिलं श्चैव वृष्णिं पर पुरञ्जयम्॥
ते बाह्यकायां सृञ्जय्यां भजमानाद् विजज्ञिरे॥ ४४.५० ॥

जज्ञे देवावृधो राजा बन्धूनां मित्रवर्द्धनः।
अपुत्रस्त्वभवद्राजा चचार परमन्तपः॥
पुत्रः सर्वगुणोपेतो मम भूयादिति स्पृहन्॥ ४४.५१ ॥

संयोज्य मन्त्रमेवाथ पर्णाशा जलमस्पृशत्।
तदोपस्पशेनात्तस्य चकार प्रियमापगा॥ ४४.५२ ॥

कल्याणत्वान्नरपते स्तस्मै सा निम्नगोत्तमा।
चिन्तयाथ परीतात्मा जगामाथ विनिश्चयम्॥ ४४.५३ ॥

नाधिगच्छाम्यहं नारीं यस्यामेवं विधः सुतः।
जायेत तस्माद्दद्याहं भवाम्यथ सहस्रशः॥ ४४.५४ ॥

अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः।
ज्ञापयामास राजानं तामियेष महाव्रतः॥ ४४.५५ ॥

अथ सा नवमे मासि सुषुवे सरितां वरा।
पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधान्नृपात्॥ ४४.५६ ॥

अनुवंशे पुराणज्ञा गायन्तीति परिश्रुतम्।
गुणान् देवावृधस्यापि कीर्त्तयन्तो महात्मनः॥ ४४.५७ ॥

यथैवं श्रृणुमो दूरादपश्यामस्तथान्तिकात्।
बभ्रुः श्रेष्ठो मनुष्याणां देवै र्देवावृधः समः॥ ४४.५८ ॥

षष्टिश्च पूर्वपुरुषाः सहस्राणि च सप्ततिः।
एतेऽमृतत्वं सम्प्राप्ता बभ्रो र्देवावृधान्नृप!॥ ४४.५९ ॥

यज्वा दान पतिर्वीरो ब्रह्मण्यश्च दृढव्रतः।
रूपवान् सुमहातेजाः श्रुतवीर्य्य धरस्तथा॥ ४४.६० ॥

अथ कङ्कस्य दुहिता सुषुवे चतुरः सुतान्।
कुकुरं भजमानञ्च शशिं कम्बलबर्हिषम्॥ ४४.६१ ॥

कुकुरस्य सुतो वृष्णि वृष्णेस्तु तनयो धृतिः।
कपोत रोमा तस्याथ तैत्तिरिस्तस्य चात्मजः॥ ४४.६२ ॥

तस्यासीत्तनुजा पुत्रो सखा विद्वान्नलः किल।
ख्यायते तस्य नाम्ना च नन्दनोदरदुन्दुभिः॥ ४४.६३ ॥

तस्मिन्प्रवितते यज्ञे अभिजातः पुनर्वसुः।
अश्वमेधं च पुत्रार्थमाजहार नरोत्तमः॥ ४४.६४ ॥

तस्य मध्येति रात्रस्य सभा मध्यात् समुत्थितः।
अतस्तु विद्वान् कर्मज्ञो यज्वा दाता पुनर्वसु॥ ४४.६५ ॥

तस्यासीत् पुत्रमिथुनं बभूवाविजितं किल।
आहुकश्चाहुकी चैव ख्यातं मतिमतां वर!॥ ४४.६६ ॥

इमांश्चोदाहरन्त्यत्र श्लोकान् प्रतितमाहुकम्।
सोपासङ्गानुकर्षाणां सध्वजाना वरूथिनाम्॥ ४४.६७ ॥

रथानां मेघघोषाणां सहस्राणि दशैव तु।
नासत्यवादी नातेजा नायज्वा नासहस्रदः॥ ४४.६८ ॥

नाशुचिर्नाप्यविद्वान् हि यो भोजेष्वभ्यजायत।
आहुकस्य भृतिं प्राप्ता इत्येतद्वै तदुच्यते॥ ४४.६९ ॥

आहुकश्चाप्यवन्तीषु स्वसारं चाहुकीं ददौ।
आहुकात् काश्यदुहिता द्वौ पुत्रौ समसूयत॥ ४४.७० ॥

देवकश्चोग्रसेनश्च देवगर्भसमावुभौ।
देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः॥ ४४.७१ ॥

देवानुपदेवश्च सुदेवो देवरक्षितः।
तेषां स्वसारः सप्तासन् वसुदेवाय ता ददौ॥ ४४.७२ ॥

देवकी श्रुतदेवी च यशोदा च यशोधरा।
श्री देवी सत्यदेवी च सुतापी चेति सप्तमी॥ ४४.७३ ॥

नवोग्रसेनस्य सुताः कंसस्तेषां तु पूर्वज।
न्यग्रोधश्च सुनामा च कङ्कः शङ्कश्च भूयसः॥ ४४.७४ ॥

सुतन्तू राष्ट्रपालश्च युद्धमुष्टिः सुमुष्टिदः।
तेषां स्वसारः पञ्चासन् कंसा कंसवती तथा॥ ४४.७५ ॥

सुतलन्तू राष्ट्रपाली च कङ्का चेति वराङ्गनाः।
उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः॥ ४४.७६ ॥

भजमानस्य पुत्रोऽथ रथिमुख्यो विदूरथः।
राजाधिदेवः शूरश्च विदूरथ सुतोऽभवत्॥ ४४.७७ ॥

राजाधिदेवस्य सुतौ जज्ञाते देवसम्मितौ।
नियमव्रतप्रधानौ शोणाश्वः श्वेतवाहनः॥ ४४.७८ ॥

शोणाश्वस्य सुताः पञ्च शूरा रणविशारदाः।
शमीच वेदशर्मा च निकुन्तः शक्रशत्रुजित्॥ ४४.७९ ॥

शमिपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः।
प्रतिक्षेत्रः सुतो भोजो हृदीकस्तस्य चात्मजः॥ ४४.८० ॥

हृदीकस्याभवन् पुत्रा दश भीमपराक्रमाः।
कृतवर्माग्रजस्तेषां शतधन्वा च मध्यमः॥ ४४.८१ ॥

देवार्हश्चैव नाभश्च भीषणश्च महाबलः।
अजातो वनजातश्च कनीयक करम्बकौ॥ ४४.८२ ॥

देवार्हस्य सुतो विद्वान् जज्ञे कम्बलबर्हिषः।
असमञ्जाः सुतस्तस्य तमोजास्तस्य चात्मजः॥ ४४.८३ ॥

अजातपुत्रा विक्रान्ता स्त्रयः परमकीर्त्तयः।
सुदंष्ट्रश्च सुनाभश्च कृष्ण इत्यन्धकामताः॥ ४४.८४ ॥

अन्धकानामिमं वंशं यः कीर्त्तयति नित्यशः।
आत्मनो विपुलं वंशं प्रजावानाप्नुते नरः॥ ४४.८५ ॥