ययात्यष्टकसम्वादवर्णनम्।
अष्टक उवाच।
चरन् गृहस्थः कथमेति देवान् कथं भिक्षः कथमाचार्य्यकर्म्मा।
वानप्रस्थः सत्पथे सन्निविष्टो बहून्यस्मिन् सम्प्रति वेदयन्ति॥ ४०.१ ॥
ययातिरुवाच।
आहूताध्यायी गुरुकर्मसु चोद्यतः पूर्वोत्थायी चरमञ्चाथशायी।
मृदुर्दान्तो धृतिमानप्रमत्तः स्वाध्यायशीलः सिद्ध्यति ब्रह्मचारी॥ ४०.२ ॥
धर्मागतं प्राप्य धनं यजेत दद्यात्सदैवातिथीन् भोजयेच्च।
अनाददानश्च परैरदत्तं सैषा गृहस्थोपनिषत् पुराणी॥ ४०.३ ॥
स्ववीर्य्यजीवी वृजिनान्निवृत्तो दाता परेभ्यो न परोपतापी।
ताद्रृङ्मुनिः सिद्धिमुपैति मुख्या वसन्नरण्ये नियताहारचेष्टः॥ ४०.४ ॥
अशिल्पजीवी विगृहश्च नित्यं जितेन्द्रियः सर्वतो विप्रमुक्तः।
अनोकशायी लघु लिप्समान श्चरन् देशामेकाम्वरः स भिक्षुः॥ ४०.५ ॥
रात्र्या यया चाभिरताश्च लोका भवन्ति कामाभिजिताः सुखेन च।
तामेव रात्रिं प्रयतेत विद्वानरण्यसंस्थो भवितुं यतात्मा॥ ४०.६ ॥
दशैव पूर्वान् दश चापरांस्तु ज्ञातींस्तथात्मानमथैकविंशम्।
अरण्यवासी सुकृतं दधाति मुक्त्वा त्वरण्ये स्वशरीरधातून्॥ ४०.७ ॥
अष्टक उवाच।
कतिस्विद्देवमुनयो मौनानि कति चाप्युत।
भवन्तीति तदाचक्ष्व श्रोतुमिच्छामहे वयम्॥ ४०.८ ॥
ययातिरुवाच।
अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः।
ग्रामे वा वसतोऽरण्यं स मुनिः स्याज्जनाधिप॥ ४०.९ ॥
अष्टक उवाच।
कथं स्विद्वसतोऽरण्ये ग्रामो भवति पृष्ठतः।
ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः॥ ४०.१० ॥
ययातिरुवाच।
न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत्।
तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः॥ ४०.११ ॥
अनग्निरनिकेतश्चाप्यगोत्रचरणो मुनिः।
कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम्॥ ४०.१२ ॥
यावत्प्राणाधिसन्धानं तावदिच्छेच्च भोजनम्।
तदास्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः॥ ४०.१३ ॥
यस्तुकामान् परित्यज्य त्यक्तकर्मा जितेन्द्रियः।
आतिष्ठेत मुनिर्मौनं सलोके सिद्धिमाप्नुयात्॥ ४०.१४ ॥
धौतदन्तं कृत्तनखं सदा स्नातमलङ्कृतम्।
असितं सितकर्मस्थं कस्तन्नार्चितुमर्हति॥ ४०.१५ ॥
तपसाकर्शितः क्षामः क्षीण मांसास्थिशोणितः।
यदा भवति निर्द्वन्द्वो मुनिमौनं समास्थितः॥ ४०.१६ ॥
अथलोकमिमं जित्वा लोकञ्चापि जयेत्परम्।
आस्येन तु यदाहारं गोवन्मृगयते मुनिः ।
अथास्य लोकः सर्वो यः सोऽमृतत्वाय कल्पते॥ ४०.१७ ॥