ययात्यष्टकसम्वादवर्णनम्।
अष्टक उवाच।
यदा वसन्नन्दने कामरूपे संवत्सराणामयुतं शतानाम्।
किं कारणं कार्तयुगप्रधान हित्वा तद्वै वसुधामन्वपद्यः॥ ३९.१ ॥
ययातिरुवाच।
ज्ञाति सुहृत् स्वजनो यो यथेह क्षीणे वित्ते त्यज्यते मानवैर्हिः।
तथा स्वर्गे क्षीणपुण्यं मनुष्यन्त्यजन्ति सद्यः खेचरा देवसङ्घाः॥ ३९.२ ॥
अष्टक उवाच।
कथं तस्मिन् क्षीणपुण्या भवन्ति सम्मुह्यते मेऽत्रमनोऽतिमात्रम्।
किं विशिष्टाः कस्य धामोपयान्ति तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे॥ ३९.३ ॥
ययातिरुवाच।
इमं भौमं नरकन्ते पतन्ति लालप्यमाना नरदेव!सर्वे।
ते कङ्कगोमायुपलाशनार्थं क्षितौ विवृद्धिं बहुधा प्रयान्ति॥ ३९.४ ॥
तस्मादेवं वर्जनीयं नरेन्द्र दुष्टं लोके गर्हणीयञ्च कर्म्म।
आख्यातं ते पार्थिव सर्वमेतत् भूयश्चेदानीं वद किन्ते वदामि॥ ३९.५ ॥
अष्टक उवाच।
यदा तु तांस्ते वितुदन्ते वयांसि तथा गृध्राः शितिकण्ठाः पतङ्गाः।
कथं भवन्ति कथमा भवन्ति त्वत्तो भीमं नरकमहं श्रृणोमि॥ ३९.६ ॥
ययातिरुवाच।
ऊर्ध्वं देहा कर्म्मणो जृम्भमाणात् व्यक्तं पृथिव्यामनुसञ्चरन्ति।
इमं भौमं नरकन्ते पतन्ति नावेक्षन्ते वर्षपूगाननेकान्॥ ३९.७ ॥
षष्टिं सहस्राणि पतन्ति व्योम्नि तथाशीतिञ्चैव तु वत्सराणाम्।
तान्वै तुदन्ते प्रपतन्तः प्रयातान् भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः॥ ३९.८ ॥
अष्टक उवाच।
यदेतांस्ते सम्पततस्तुदन्ति भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः।
कथं भवन्ति कथमाभवन्ति कथं भूगर्बभूता भवन्ति॥ ३९.९ ॥
ययातिरुवाच।
असृग्रेतः पुष्परसानुयुक्तं अन्वेति सद्यः पुरुषेण सृष्टम्।
तद्वै तस्यारज आपद्यते च स गर्भभूतः समुपैति तत्र॥ ३९.१० ॥
वनस्पतीनोषधींश्चाविशन्ति अपो वायुं पृथिवीञ्चान्तरिक्षम्।
चतुष्पदं द्विपदञ्चापि सर्व एवं भूता गर्भभूता भवन्ति॥ ३९.११ ॥
अन्यद्वपुर्विदधातीह गर्भे उताहो स्वित् स्वेन कामेन याति।
आपद्यमानो नरयोनिमेतामाचक्ष्व मे संशयात् पृच्छतस्त्वम्॥ ३९.१२ ॥
शरीरदेहादिसमुच्छ्रयञ्च चक्षुः श्रोत्रे लभते केन सञ्ज्ञाम्।
एतत् सर्वं तात आचक्ष्व पृष्टः क्षेत्रज्ञं त्वां मन्यमाना हि सर्वे॥ ३९.१३ ॥
ययातिरुवाच।
वायुः समुत्कर्षति गर्भयोनिमृतौ रेतः पुष्परसानुयुक्तम्।
स तत्र तन्मात्रकृताधिकारः क्रमेण संवर्धयतीह गर्भम्॥ ३९.१४ ॥
स जायमानोऽथ गृहीतगात्रः सञ्ज्ञामधिष्ठाय ततो मनुष्यः।
स श्रोत्राभ्यां वेदयतीह शब्दं स वै रूपं पश्यति चक्षुषा च॥ ३९.१५ ॥
घ्राणेन गन्धं जिह्वयाथो रसञ्च त्वचा स्पर्शमनसा देवभावम्।
इत्यष्टके होपचितं हि विद्धि महात्मनः प्राणभृतः शरीरे॥ ३९.१६ ॥
अष्टक उवाच।
यः संस्थितः पुरुषो दह्यते वा निखन्यते वापि निकृष्यते वा।
अभावभूतः स विनाशमेत्य केनात्मानं चेतयते पुरस्तात्॥ ३९.१७ ॥
ययातिरुवाच।
हित्वा सोऽसून् सुप्तवन्निष्ठितत्वात् पुरोधाय सुकृतं दुष्कृतञ्च।
अन्यं योनिं पुण्यपापानुसारां हित्वा देहं भजते राजसिंह॥ ३९.१८ ॥
पुण्यां योनिं पुण्यकृतो विशन्ति पापां योनिं पापकृतो व्रजन्ति।
कीटाः पतङ्गाश्च भवन्ति पापान्न मे विवक्षास्ति महानुभाव॥ ३९.१९ ॥
चतुष्पदा द्विपदाः पक्षिणश्च तथा भूता गर्भभूता भवन्ति।
आख्यातमेतन्निखिलं हि सर्वं भूयस्तु किं पृच्छसि राजसिंह॥ ३९.२० ॥
अष्टक उवाच।
किंस्वित् कृत्वा लभते तात सञ्ज्ञां मर्त्यः श्रेष्ठां तपसा विद्यया वा।
तन्मे पृष्टः शंस सर्वं यथावच्छुभान् लोकान् येन गच्छेत् क्रमेण॥ ३९.२१ ॥
ययातिरुवाच।
तपश्च दानञ्च शमो दमश्च ह्रीरार्जवं सर्वभूतानुकम्पा।
स्वर्गस्य लोकस्य वदन्ति सन्तो द्वाराणि सप्तैव महान्ति पुसाम्म्॥ ३९.२२ ॥
सर्वाणि चैतानि यथोदितानि तपः प्रधानान्यभिमर्शकेन।
नश्यन्ति मानेन तमोऽभिभूताः पुंसः सदैवेति वदन्ति सन्तः॥ ३९.२३ ॥
अधीयानः पण्डितं मन्यमानो यो बिद्यया हन्ति यशः परस्य।
तस्यान्तवन्तः पुरुषस्य लोकानचास्य तद् ब्रह्मफलं ददाति॥ ३९.२४ ॥
चत्वारि कर्माणि भयङ्कराणि भयं प्रयच्छन्त्ययथाकृतानि।
मानाग्निहोत्रमुतमानमौनं मानेनाधीतमुतमानयज्ञः॥ ३९.२५ ॥
न मन्यमानो मुदमाददीत न सन्तापं प्राप्नुयाच्चावमानात्।
सन्तः सतः पूजयन्तीह लोके नासाधवः साधु बुद्धिं लभन्ते॥ ३९.२६ ॥
इति दद्यादिति यजेदित्यधीयीत मे श्रुतम्।
इत्येतान्यभयान्याहुस्तान्यवर्जानि नित्यशः॥ ३९.२७ ॥
येनाश्रयं वेदयन्ते पुराणां मनीषिणो मानसे मानयुक्तम्।
तन्निःश्रेयस्तेन संयोगमेत्य परां शान्तिं प्राप्नुयुः प्रेत्य चेह॥ ३९.२८ ॥