ययात्युपाख्यानम्।
शौनक उवाच।
एवमुक्तः सराजर्षिः काव्यं स्मृत्वा महाव्रतम्।
सङ्क्रामयामास जरां तदा पुत्रे महात्मनि॥ ३४.१ ॥
पौरवेणाथ वयसा ययातिर्नहुषात्मजः।
प्रीतियुक्तो नर श्रेष्टश्चचार विषयान् प्रियान्॥ ३४.२ ॥
यथा कामं यथोत्साहं यथा कालं यथासुखम्।
धर्माविरुद्धान् राजेन्द्रो यथार्हति स एव हि॥ ३४.३ ॥
देवानतर्पयद् यज्ञैः श्राद्धैरपि पितामहान्।
दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान्॥ ३४.४ ॥
अतिथीनन्नपानैश्च विशश्च प्रतिपालनैः।
आनृशंस्येन शूद्रांश्च दस्यून्निग्रहणेन च॥ ३४.५ ॥
धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन्।
ययातिः पालयामास साक्षादिन्द्र इवापरः॥ ३४.६ ॥
स राजा सिंहविक्रान्तो युवा विषयगोचरः।
अविरोधेन धर्मस्य चचार सुखमुत्तमम्॥ ३४.७ ॥
स सम्प्राप्य शुभान् कामान् तृप्तः खिन्नश्च पार्थिवः।
कालं वर्षसहस्रान्तं सस्मारमनुजाधिपः॥ ३४.८ ॥
परिचिन्त्य स कालज्ञः कलाः काष्ठाश्च वीर्यवान्।
पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह॥ ३४.९ ॥
न जातुकामः कामानामुपभोगेन शाम्यति।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते॥ ३४.१० ॥
यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः।
नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत्॥ ३४.११ ॥
यथासुखं यथोत्साहं यथाकाममरिन्दम!।
सेविता विषयाः पुत्र! यौवनेन मया तव॥ ३४.१२ ॥
पूरो! प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौवनम्।
राज्यञ्चैवगृहाणेदं त्वं हि मे प्रियकृत्सुतः॥ ३४.१३ ॥
प्रतिपेदे जरां राजा ययातिर्नाहुषस्तदा।
यौवनं प्रतिपेदे स पूरुः स्वं पुनरात्मनः॥ ३४.१४ ॥
अभिषेक्तुकामञ्च नृपं पूरुं पुत्रं कनीयसम्।
ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन्॥ ३४.१५ ॥
कथं शुक्रस्य दौहित्रं देवयान्याः सुतं प्रभो!।
ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रदास्यसि॥ ३४.१६ ॥
ज्येष्ठो यदुस्तवसुतस्तुर्वसुस्तदनन्तरम्।
शर्मिष्ठायाः सुतो द्रुह्यस्तथानुः पूरुरेव च॥ ३४.१७ ॥
कथं ज्येष्ठमतिक्रम्य कनीयान् राज्यमर्हति।
एतत्सम्बोधयामस्त्वां स्वधर्ममनुपालय॥ ३४.१८ ॥
ययातिरुवाच।
ब्राह्मणप्रमुखा वर्णाः सर्वे श्रृण्वन्तु मे वचः।
ज्येष्ठं प्रति यतो राज्यं न देयं मे कथञ्चन॥ ३४.१९ ॥
मम ज्येष्ठेन यदुना नियोगो नानुपालितः।
प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः॥ ३४.२० ॥
मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः।
स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु॥ ३४.२१ ॥
यदुनाहमवाज्ञातस्तथा तुर्वसु नापि वा।
द्रुह्येण चानुना चैव मय्यवज्ञा कृता भृशम्॥ ३४.२२ ॥
पूरुणा मे कृतं वाक्यं मानितञ्च विशेषतः।
कनीयान्मम दायादो जरा येन धृता मम॥ ३४.२३ ॥
मम कामः स च कृतः पूरुणा पुत्ररूपिणा।
शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम्॥ ३४.२४ ॥
पुत्रो यस्त्वानुवर्तेत सराजा पृथिवीपतिः।
भवन्तः प्रतिजानन्तु पूरुं राज्येऽभिषिच्यताम्॥ ३४.२५ ॥
यः पुत्रोगुणसम्पन्नो मातापित्रोर्हितः सदा।
सर्वं सोऽर्हति कल्याणं कनीयानपि स प्रभुः॥ ३४.२६ ॥
अर्हं पूरोरिदं राज्यं यः प्रियः प्रियकृत्तव।
वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम्॥ ३४.२७ ॥
शौनक उवाच।
पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा।
अभिषिच्य ततः पूरुं राज्ये स्वसुतमात्मजम्॥ ३४.२८ ॥
दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः।
पुरात् स निर्ययौ राजा ब्राह्मणैस्तापसैः सह॥ ३४.२९ ॥
यदोस्तु यादवा जाता तुर्वसोर्यवनाः सुताः।
द्रुह्यस्य तु सुताभोजा अनोस्तु म्लेच्छजातयः॥ ३४.३० ॥
पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव!।
इदं वर्षसहस्रात्तु राज्यं कुरु कुलागतम्॥ ३४.३१ ॥