०३१

ययाति चरित्रम्।

शौनक उवाच।
ययातिः स्वपुरं प्राप्य महेन्द्रपुरसन्निभम्।
प्रविश्यान्तः पुरं तत्र देवयानीं न्यवेशयत्॥ ३१.१ ॥

देवयान्याश्चानुमते सुतां तां वृषपर्वणः।
अशोकवनिकाभ्यासे गृहं कृत्वा न्यवेशयत्॥ ३१.२ ॥

वृतां दासीसहस्रेण शर्मिष्ठामासुरायणीम्।
वासोभिरन्नपानैश्च सम्भिज्य सुसंवृताम्॥ ३१.३ ॥

देवयान्यातु सहितः स नृपो नहुषात्मजः।
विजहार बहूनब्दान् देववन्मुदितो भृशम्॥ ३१.४ ॥

ऋतुकाले तु सम्प्राप्ते देवयानी वराङ्गना।
लेभे गर्भं प्रथमतः कुमारश्च व्यजायत॥ ३१.५ ॥

गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी।
ददर्श यौवनं प्राप्ता ऋतुं सा कमलेक्षणा॥ ३१.६ ॥

चिन्तयामास दर्म्मज्ञा ऋतु प्राप्तौ च भामिनी।
ऋतुकालश्च सम्प्राप्तो न कश्चिन् मे पतिर्वृतः॥ ३१.७ ॥

किं प्राप्तं किञ्च कर्तव्यं कथं कृत्वा सुखं भवेत्।
देवयानी प्रसूतासौ वृथाऽहं प्राप्तयौवना॥ ३१.८ ॥

यथा तथावृतो भर्ता तथैवाहं वृणोमि तम्।
राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः॥
अपीदानीं स धर्मात्मा रहो मे दर्शनं व्रजेत्॥ ३१.९ ॥

अथनिष्क्रम्य राजाऽसौ तस्मिन्‌ काले यदृच्छया।
अशोकवनिकाभ्यासे शार्मिष्ठां प्राप्य धिष्ठितः॥ ३१.१० ॥

तमेकं रहसि द्रृष्ट्वा शर्मिष्ठा चारुहासिनी।
प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत्॥ ३१.११ ॥

सोमश्चेन्द्रश्च वायुश्च यमश्च वरुणाश्च वा।
तव वा नाहुषगृहे कः स्त्रियं द्रष्टुमर्हति॥ ३१.१२ ॥

रूपाभिजनशीलैर्हि त्वं राजन्! वेत्थ मां सदा।
सा त्त्वां याचे प्रसाद्येऽहरन्तु मे हि नराधिप!॥ ३१.१३ ॥

ययातिरुवाच।
वेद्मित्वाशीलसम्पन्नां दैत्य कन्यामनिन्दिताम्।
रूपन्तु ते न पश्यामि सूच्यग्रमपि निन्दितम्॥ ३१.१४ ॥

मामब्रवीत्तदा शुक्रो देवयानीं यदावहम्।
नेयमाह्वयितव्या ते शयने वार्षपर्वणी॥ ३१.१५ ॥

शर्मिष्ठोवाच।
न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन्नविवाहकाले।
प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि॥ ३१.१६॥

पृष्ठास्तु साक्ष्ये प्रवदन्ति चान्यथा भवन्ति मिथ्या वचना नरेन्द्र ते।
एकार्थतायान्तु समाहितायां मिथ्या वदन्तं ह्यनृतं हिनस्ति॥ ३१.१७ ॥

ययातिरुवाच।
राजा प्रमाणं भूतानां स विनश्येत् मृषा वदन्।
अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे॥ ३१.१८ ॥

शर्मिष्ठोवाच।
समावेतौ मतौ राजन्। पतिः सख्याश्च यः पतिः।
समं विवाह इत्याहुः सख्यामेऽसि पतिर्यतः॥ ३१.१९ ॥

दातव्यं याचमानस्य हीति मे व्रतमाहितम्।
त्वञ्च याचसि कामं मां ब्रूहि किङ्करवाणि तत्॥ ३१.२० ॥

शर्मिष्ठोवाच।
अधर्मात्‌ त्राहि मां राजन्! धर्मञ्च प्रतिपादय।
त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम्॥ ३१.२१ ॥

त्रय एवाधना राजन्! भार्या दासस्तथा सुतः।
यत्ते समघिगच्छन्ति यस्य ते तस्य तद्‌धनम्॥ ३१.२२ ॥

देवयान्या भुजिष्यास्मि वश्या च तव भार्गवी।
स चाहं च त्वया राजन्! भरणीयां भजस्व माम्॥ ३१.२३ ॥

शौनक उवाच।
एव मुक्तस्तया राजा ताड्यमित्यभिजज्ञवान्।
पूजयामास शर्मिष्ठां धर्मं च प्रतिपादयत्॥ ३१.२४ ॥

स समागम्य शर्मिष्ठां यथा काममवाप्य च।
अन्योन्यं चाभिसम्पूज्य जग्मतुस्तौ यथागतम्॥ ३१.२५ ॥

तस्मिन् समागमे सुभ्रुः शर्मिष्ठा वार्षपर्वणी।
लेभे गर्भं प्रथमतः तस्मात् नृपति सत्तमात्॥ ३१.२६ ॥

प्रजज्ञे च ततः काले राज्ञी राजीवलोचना।
कुमारं देवगर्भाभमादित्यसमतेजसम्॥ २१.२७ ॥