०३०

ययातिचरित्रम्।

शौनक उवाच।
अथ दीर्घेण कालेन देवयानी नृपोत्तम्।
वनं तदेव निर्याता क्रीडार्थं वरवर्णिनी॥ ३०.१ ॥

तेन दासी सहस्रेण सार्धं शर्मिष्ठया तदा।
तमेव दश सप्राप्ता यथा कामं चचार सा॥ ३०.२ ॥

ताभिः सखीभिः सहिताः सर्वाभिर्मुदिता भृशम्।
क्रीडन्त्योऽभिरताः सर्व्वाः पिबन्त्यो मधु माधवम्॥ ३०.३ ॥

खादन्त्यो विविधान् भक्ष्यान् फलानि विविधानि च।
पुनश्च नाहुषो राजा मृगलिप्सुर्यद्रृच्छया॥ ३०.४ ॥

तमेव देशं सम्प्राप्तो जललिप्सुः प्रतर्षितः।
ददर्श देवयानीञ्च शर्मिष्ठान्ताश्च योषितः॥ ३०.५ ॥

पिबन्त्यो ललनास्तश्च दिव्याभरणभूषिताः।
उपिविष्टाञ्च दद्रृशे देवयानीं शुचिस्मिताम्॥ ३०.६ ॥

रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराननाम्।
शर्मिष्टया सेव्यमानां पादसम्वाहनादिभिः॥ ३०.७ ॥

ययातिरुवाच।
द्वाभ्यां कन्या सहस्राभ्यां द्वे कन्ये परिवारिते।
गोत्रे च नामनी चैव द्वयोः पृच्छाम्यतोह्यहम्॥ ३०.८ ॥

देवयान्युवाच।
आख्यास्याम्यहमादत्स्व वचनं मे नराधिपः!।
शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम्॥ ३०.९ ॥

इयं च मे सखी दासी यत्राहं तत्र गामिनी।
दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः॥ ३०.१० ॥

ययातिरुवाच।
कथं तु ते सखी दासी कन्येयं वरवर्णिनी।
असुरेन्द्रसुता सुभ्रु! परं कौतूहलं हि मे॥ ३०.११ ॥

देवयान्युवाच।
सर्वमेव नरव्याघ्र!विधानमनुवर्त्तते।
विधिना विहितं ज्ञात्वा मा विचित्रं मनः कृथा॥ ३०.१२ ॥

राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च।
किं नामा त्वं कुतश्चासि कस्य पुत्रश्च शंसमे॥ ३०.१३ ॥

ययातिरुवाच।
ब्रह्मचर्येण वेदो मे कृत्स्नः श्रुतिपथं गतः।
राजाहं राजपुत्रश्च ययातिरितिविश्रुतः॥ ३०.१४ ॥

देवयान्युवाच।
केन चार्थेन नृपते! ह्येनं देशं समागतः।
जिघृक्षुर्व्वारि यत्किञ्चिदथवा मृगलिप्सया॥ ३०.१५ ॥

ययातिरुवाच।
मृगलिप्सुरहं भद्रे! पानीयार्थमिहागतः।
बहुधाप्यनुयुक्तोऽस्मि त्वमनुज्ञातुमर्हसि॥ ३०.१६ ॥

देवयान्युवाच।
द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह।
त्वदधीनास्मि भद्रं ते सखे! भर्त्ता च मे भव॥ ३०.१७ ॥

ययातिरुवाच।
विध्यौशनसि भद्रं ते न त्वदर्होऽस्मि भामिनि।
अविवाह्याः स्म राजानो देवयानि! पितुस्तव॥ ३०.१८ ॥

देवयान्युवाच।
संसृष्टं ब्रह्मणा क्षत्रं क्षत्रं ब्रह्मणि संश्रितम्।
ऋषिश्च ऋषिपुत्रश्च नाहुषाद्यभजस्व माम्॥ ३०.१९ ॥

ययातिरुवाच।
एकदेहोद्भवा वर्णा श्चत्वारोऽपि वरानने।
पृथक््धर्म्माः पृथक्‌ शोचास्तेषां वै ब्राह्मणो वरः॥ ३०.२० ॥

देवयान्युवाच।
पाणिग्रहो नाहुषायं न पुम्भिः सेवितः पुरा।
त्वमेनमग्रहीदग्रे वृणोमि त्वामहं ततः॥ ३०.२१ ॥

कथं तु मे मनस्विन्याः पाणिमन्यः पुमान्‌ प्सृशेत्।
गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया॥ ३०.२२ ॥

ययातिरुवाच।
क्रुद्धा दाशी विषात् सर्पाज्ज्वलनात् सर्वतो मुखात्।
दुराधर्षतरो विप्रः पुरुषेण विजानता॥ ३०.२३ ॥

देवयान्युवाच।
कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात्।
दुराघर्षतरो विप्र इत्यात्थ पुरुषर्षभ॥ ३०.२४ ॥

ययातिरुवाच।
दशेदाशीविषस्त्वेकं शस्त्रेणैकश्च बध्यते।
हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः॥ ३०.२५ ॥

दुराधर्षतरो विप्रस्तस्मात् भीरु! मतोमम।
अतो दत्ताञ्च पित्रात्वां भद्रे!न विवहाम्यहम्॥ ३०.२६ ॥

देवयान्युवाच।
दत्तां वहस्व पित्रा मां त्वं हि राजन्! वृतो मया।
अयाचतो भयं नास्ति दत्ताञ्च प्रतिगृह्णतः॥ ३०.२७ ॥

शौनक उवाच।
त्वरितं देवयान्याथ प्रेषिता पितुरात्मनः।
सर्वं निवेदयामास धात्री तस्मै यथातथम्॥ ३०.२८ ॥

श्रुत्वैव च स राजानं दर्शयामास भार्गवः।
द्रृष्ट्वैवमागतं विप्रं ययातिः पृथिवीपतिः॥ ३०.२९ ॥

देवयान्युवाच।
राजायं नाहुषस्तात दुर्गमे पाणिमग्रहीत्।
नमस्ते देहि मामस्मै लोकेनान्यं पतिं वृणे॥ ३०.३० ॥

ववन्दे ब्राह्मणं काव्यं प्राञ्चलिः प्रणतः स्थितः।
तं चाप्यभ्यवदत्काव्यः साम्ना परमवल्गुना॥ ३०.३१ ॥

शुक्र उवाच।
वृतोऽनया पतिर्वीर! सुतया त्वं ममेष्टया।
गृहाणे मां मया दत्तां महिषीं नहुषात्मज!॥ ३०.३२ ॥

ययातिरुवाच।
अधर्मो मां स्पृशेदेवं पापमस्याश्च भार्गव!।
वर्णसङ्करतो ब्रह्मन्! इति त्वां प्रवृणोम्यहम्॥ ३०.३३ ॥

शुक्र उवाच।
अधर्मात् त्वां विमुञ्चामि वरं वरय चेप्सितम्।
अस्मिन् विवाहे त्वं श्लाघ्यो रहो पापन्नुदामि ते॥ ३०.३४ ॥

वहस्व भार्यां धर्मेण देवयानीं शुचिस्मिताम्।
अनया सह सम्प्रीतिमतुलां समवाप्नुहि॥ ३०.३५ ॥

इयं चापि कुमारी ते शर्मिष्ठ वार्षपर्वणी।
सम्पूज्य सन्ततं राजन्! न चैनां शयनेह्वयः॥ ३०.३६ ॥

शौनक उवाच।
एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम्।
जगाम स्वपुरं हृष्टः सोऽनुज्ञातो महात्मना॥ ३०.३७ ॥