शुक्रस्य क्रोधोत्पत्तिकथनम्।
शौनक उवाच।
ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह।
वृषपर्वाणमासीनमित्युवाचाविचारयन्॥ 29.1 ॥
नाधर्मश्चरितो राजन्! सद्यः फलति गौरिव।
शनैरावर्त्यमानस्तु मूलान्यपि निकृन्तति॥ 29.2 ॥
यदि नात्मनि पुत्रेषु न चेत् पश्यति नप्तृषु।
पापमाचरितं कर्म त्रिवर्गमतिवर्तते॥ 29.3 ॥
फलत्येवं ध्रुवं पापं गुरुभुक्तमिवोदरे।
यदा घातयसे विप्रं कच मां गिरसन्दता॥ 29.4 ॥
अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम्।
वधादनर्हतस्तस्य वधाच्च दुहितुर्मम॥ 29.5 ॥
वृषपर्वन्निबोधत्वं त्यक्ष्यामि त्वां सबान्धवम्।
स्थातुं त्वद्विषये राजन्! न शक्नोमि त्वया सह॥ 29.6 ॥
अद्यैवमभिजानामि दैत्यं मिथ्या प्रलापिनम्।
यतस्त्वमात्मनोदीर्णां दुहितां किमुपेक्षसे॥ 29.7 ॥
वृषपर्वोवच।
नावद्यं न मृषावादं त्वयि जानामि भार्गव!
त्वयि सत्यञ्च धर्म्मञ्च तत्प्रसीदतु मां भवान्॥ 29.8 ॥
अद्यास्मानपहायत्वमितो वास्यसि भार्गव!।
समुद्रं सम्म्प्रवेश्यामि नान्यदस्ति परायणम्॥ 29.9 ॥
शुक्र उवाच।
समुद्रं प्रविशध्वं वा दिशो वा व्रजतासुराः।
दुहितुर्नाप्रियं सोढुं शक्तोऽहं दयिता हि मे॥ 29.10 ॥
प्रसाद्यतां देवयानीं जीवितं यत्र मे स्थितम्।
योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः॥ 29.11 ॥
वृषपर्वोवाच।
यत्किञ्चिदसुरेन्द्राणां विद्यते वसु भार्गव!।
भुवि हस्तिरथाश्वं वा तस्य त्वं मम चेश्वरः॥ 29.12 ॥
शुक्र उवाच।
यत्किञ्चिदस्ति द्रविणं दैत्येन्द्राणां महासुर!।
तस्येश्वरोऽस्मि यद्येतद्देवयानि! प्रसाद्यताम्॥ 29.13 ॥
शौनक उवाच।
ततस्तु त्वरितः शुक्रस्तेन राज्ञा समं ययौ।
उवाच चैनां सुभगे! प्रतिपन्नं वचस्तव॥ 29.14 ॥
देवयान्युवाच।
यदित्वमीश्वरस्तात! राज्ञो वित्तस्य भार्गव।
नाभिजानामि तत्तेऽहं राजा वदतु मां स्वयम्॥ 29.15 ॥
यं काममभिजानामि देवयानि! शुचिस्मिते।
तत्तेऽहं सम्प्रदास्यामि यद्यपि स्यात् सुदुर्लभम्॥ 27.16 ॥
देवयान्युवाच।
दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये।
अनुयास्यति मां तत्र यत्र दास्यति मे पिता॥ 27.17 ॥
वृषपर्वोवाच।
उत्तिष्ठ धात्रि! गच्छ त्वं शर्मिष्ठां शीघ्रमानय।
यं च कामयते कामं देवयानी करोतु तम्॥ 29.18 ॥
शौनक उवाच।
ततो धात्री तत्र गत्वा शर्मिष्ठामिदमब्रवीत्।
उत्तिष्ठ भद्रे! शर्मिष्ठे! ज्ञातीनां सुखमावह॥ 29.19 ॥
त्यजति ब्राह्मणः शिष्यान् देवयान्या प्रचोदितः।
यं सा कामयते कामं सकार्योऽत्र त्वयानघे॥
दासीत्वमभिजातासि देवयान्याः सुशोभने!॥ 29.20 ॥
शर्मिष्ठोवाच।
यं च कामयते कामं करवाण्यहमद्य तम्।
मागान्मन्युवशं शुक्रो देवयानी च मत्कृते॥ 29.21 ॥
शौनक उवाच।
ततः कन्यासहस्रेण वृता शिविकया तदा।
पितुर्निदेशात्त्वरिता निश्चक्राम पुरोत्तमात्॥ 29.22 ॥
शर्मिष्ठोवाच।
अहं कन्यासहस्रेण दासी ते परिचारिका।
ध्रुवं त्वां तत्र यास्यामि यत्र दास्यति ते पिता॥ 29.23 ॥
देवयान्युवाच।
स्तुवतो दुहिता चाहं याचतः प्रतिगृह्णतः।
स्तूयमानस्य दुहिता कथं दासी भविष्यसि॥ 29.24 ॥
शर्मिष्ठोवाच।
येन केनचिदार्तानां ज्ञातीनां सुखमावहेत्।
अनुयास्याम्यहं तत्र यत्र दास्यति ते पिता॥ 29.25 ॥
शौनक उवाच।
प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः।
देवयानी नृपश्रेष्ठ! पितरं वाक्यमब्रवीत्॥ 29.26 ॥
प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम।
अमोघं तव विज्ञानमस्ति विद्याबलञ्च ते॥ 29.27 ॥
एवमुक्तो द्विजश्रेष्ठो दुहित्रा सुमहायशाः।
प्रविवेशपुरं हृष्टः पूजितः सर्वदानवैः॥ 29.28 ॥