शुक्रकृतदेवयानीसान्त्वनम्।
शुक्र उवाच।
यः परेषां नरो नित्यमतिवादां स्तितिक्षते।
देवयानि! विजानीहि तेन सर्वमिदञ्जितम्॥ २८.१ ॥
यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा।
संयते त्यज्यते सद्भिर्नयो रश्मिषु लम्बते॥ २८.२ ॥
यः समुत्पतितं क्रोधमक्रोधेन नियच्छति।
देवयानि विजानीहि तेन सर्वमिदञ्जितम्॥ २८.३ ॥
यः समुत्पतितं कोपं क्षमयैव निरस्यति।
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते॥ २८.४ ॥
यस्तु भावयते धर्मं योनिमात्रं तितिक्षति।
यश्च तप्तो न तपति भृशं सोऽर्थस्य भाजनम्॥ २८.५ ॥
यो यजेदश्वमेधेन मासि मासि शतं समाः।
यस्तु कुप्येन्न सर्वस्य तयोरक्रोधनो वरः॥ २८.६ ॥
ये कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः।
नैतत् प्राज्ञस्तु कुर्वीत विदुस्तेन बलाबलम्॥ २८.७ ॥
देवयान्युवाच।
वेदाहन्तात! बालापि कार्याणान्तु गतागतम्।
क्रोधे चैवातिवादे वा कार्यस्यापि बलाबले॥ २८.८ ॥
शिष्यस्याशिष्यवृत्तं हि न क्षन्तव्यं बुभूषुणा।
असत्सङ्कीर्णवृत्तेषु वासो मम न रोचते॥ २८.९ ॥
पुंसो ये नाभिनन्दन्ति वृत्तेनाभिजनेन च।
न तेषु निवसेत् प्राज्ञः श्रेयोऽर्थी पापबुद्धिषु॥ २८.१० ॥
ये नैनमभिजानन्तु वृत्तेनाभिजनेन च।
तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते॥ २८.११ ॥
तन्मे मथ्नाति हृदयमग्निकल्पमिवारणिम्।
वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः॥ २८.१२ ॥
नह्यतो दुष्करं मन्ये तात लोकेष्वपि त्रिषु।
या सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते॥ २८.१३ ॥