०२७

देवयानी कथानकम् ।

शौनक उवाच।
कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः।
कचादवेत्य तां विद्यां कृतार्था भरतर्षभ!॥ २७.१ ॥

सर्व एव समागम्य शतक्रतुमथाब्रुवन्।
कालः स्त्वद्विक्रमस्याद्य जहि शत्रून् पुरन्दर!॥ २७.२ ॥

एवमुक्तस्तु सह तै स्त्रिदशैर्मघवांस्तदा।
तथेत्युक्त्वोप चक्राम सोऽपश्यद्विपिने स्त्रियः॥ २७.३ ॥

क्रीडन्तीनान्तु कन्यानां वने चैत्ररथोपमे।
वायुर्भूतः सवस्त्राणि सर्वाण्येव व्यमिश्रयत्॥ २७.४ ॥

ततो जलात्‌ समुत्तीर्य ताः कन्याः सहितास्तदा।
वस्त्राणिजगृहुस्तानि यथा संस्थान्यनेकशः॥ २७.५ ॥

तत्र वासो देवयान्याः शर्मिष्ठा जगृहे तदा।
व्यतिक्रममजानन्ती दुहिता वृषपर्वणः॥ २७.६ ॥

ततस्तयोर्मिथस्तत्र विरोधः समजायत।
देवयान्याश्च राजेन्द्र! शर्मिष्ठायाश्च तत्कृते॥ २७.७ ॥

देवयान्युवाच।
कस्माद्‌ गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि!
समुदाचारहीनाया न ते श्रेयो भविष्यति॥ २७.८ ॥

शर्मिष्ठोवाच।
आसीनञ्च शयानञ्च पिता ते पितरं मम।
स्तौति पृच्छति चाभीक्ष्णं नीचस्तः सुविनीतवत्॥ २७.९ ॥

याचतस्त्वञ्च दुहिता स्तुवतः प्रतिगृह्णतः।
सुताहं स्तूयमानस्य ददतो न तु गृह्णतः॥ २७.१० ॥

अनायुधासायुधायाः किं त्वं कुप्यसि भिक्षुकि!।
लप्स्यसे प्रतियोद्धारं न च त्वां गणयाम्यहम्॥ २७.११ ॥

शौनक उवाच।
सा विस्मयं देवयानीं गतां सक्ताञ्च वाससि।
शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमाविशत्॥ २७.१२ ॥

हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्रया।
अनवेक्ष्य ययौ तस्मात् क्रोधवेगपरायणा॥ २७.१३ ॥

अथ तं देशमभ्यगाद्ययातिर्नहुषात्मजः।
श्रान्तयुग्मः श्रान्तरूपो मृगलिप्सुः पिणसितः॥ २७.१४ ॥

नाहुषिः प्रेक्ष्यमाणो हि सनिपाते गतोदके।
ददर्श कन्यां तां तत्र दीप्तामग्निशिखामिव॥ २७.१५ ॥

तामपृच्छत् स दृष्ट्वैव कन्याममरवर्णिनीम्।
सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना॥ २७.१६ ॥

का त्वं चारुमुखीश्यामा सुमृष्टमणिकुण्ड्ला।
दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्‌वसिषि चातुरा॥ २७.१७ ॥

कथञ्च पतिता ह्यस्मिन्। कृते वीरुत्तृणावृते।
दुहिता चैव कस्य त्वं वद सर्वं सुमध्यमे॥ २७.१८ ॥

देवयान्युवाच।
योऽसौ देवै र्हतान् दैत्यानुत्थापयति विद्यया।
तस्य शुक्रस्य कन्याह त्वं मां नूनं न बुध्यसे॥ २७.१९ ॥

एष मे दक्षिणो राजन्! पाणिस्ताम्रनखाङ्गुलिः।
समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः॥ २७.२० ॥

जानामि त्वाञ्चसंशान्तं वीर्य्यवन्तं यशस्विनम्।
तस्मान्मां पतितं कूपादस्मादुद्धर्तुमर्हसि॥ २७.२१ ॥

शौनक उवाच।
तामथ ब्राह्मणीं स्त्रीं च विज्ञाय नहुषात्मजः।
गृहीत्वा दक्षिणे पाणावुज्जहार ततो बलात्॥ २७.२२ ॥

उद्‌धृत्य चैनान्तरसा तस्मात् कूपान्नराधिपः।
आमन्त्रयित्वा सुश्रोणीं ययाति स्वपुरं ययौ॥ २७.२३ ॥

देवयान्युवाच।
त्वरितं घूर्णिके गच्छ सर्वमाचक्ष्व मे पितुः।
नेदानीं तु प्रवेक्ष्यामि नगरं वृषपर्वणः॥ २७.२४ ॥

शौनक उवाच।
सा तु वै त्वरितं गत्वा घूणिका सुरमन्दिरम्।
द्रृष्ट्वा काव्यमुवाचेदं कम्पमाना विचेतना॥ २७.२५ ॥

आचख्यौ च महाभागा देवयानी वने हता।
शर्मिष्ठया महाप्राज्ञ!दुहित्रा वृषपर्वणः॥ २७.२६ ॥

श्रुत्वा दुहितरं काव्यस्तदा शर्मिष्ठया हताम्।
त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने॥। २७.२७ ॥

द्रृष्ट्वा दुहितरं काव्यो देवयानीं तपोवने।
बाहुभ्यां सम्परिष्वज्य दुःखितो वाक्यमब्रवीत्॥ २७.२८ ॥

आत्मदोषैर्निंयच्छन्तिः सर्वे दुःखमुखे जना।
मन्येदुश्चरितं तस्मिन् तस्येयं निष्कृतिः कृता॥ २७.२९ ॥

निष्कृतिर्वास्तु वा मास्तु श्रृणुष्वावहितो मम।
शर्मिष्ठयाय दुक्तास्मि दुहित्रा वृषपर्वणः॥ २७.३० ॥

सत्यं किलैतत् सा प्राह दैत्यानामस्मि गायना।
एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी॥ २७.३१ ॥

वचनं तीक्ष्ण परुषं क्रोधरक्तेक्षणा भृशम्।
स्तुवतो दुहितासि त्वं याचतः प्रतिगृह्णतः॥ २७.३२ ॥
सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः।
इति मामाह शर्मिष्ठ दुहिता वृषपर्वणः॥
क्रोधसंरक्तनयना दर्पपूर्णानना ततः॥ २७.३३ ॥

यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः।
प्रसादयिष्ये शर्मिष्ठामित्युक्ता हि सखी मया॥ २७.३४ ॥

शुक्र उवाच।
स्तुवतो दुहिता नस्त्वं भद्रे! न प्रतिगृह्णतः।
अतस्त्वं स्तूयमानस्य दुहिता देवयान्यसि॥ २७.३५ ॥

वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः।
अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम॥ २७.३६ ॥