०२६

कचदेवयानीसंवादकथनम्।

शैनक उवाच।
समापितव्रतं तन्तु विसृष्टं गुरुणा तदा।
प्रस्थितं त्रिदशावासं देवायानीदमब्रवीत्॥ २६.१ ॥

देवयान्युवाच।
ऋषेरङ्गिरसः पौत्र! वृत्तेनाभिजनेन च।
भ्राजसे विद्यया चैव तपसा च दमेन च॥ २६.२ ॥

ऋषिर्यथाङ्गिरामान्यः पितु र्मम महायशाः।
तथा मान्यश्च पूज्यश्च मम भूयो बृहस्पतिः॥ २६.३ ॥

एवं ज्ञात्वा विजानीहि यद्‌ ब्रवीमि तपोधन!।
व्रतस्थे नियमोपेते यथा वर्त्ताम्यहं त्वयि॥ २६.४ ॥

स समापितविद्यो मां भक्तान्न त्यक्तुमर्हसि।
गृहाणपाणिं विधिवन् मम मन्त्रपुरस्कृतम्॥ २६.५ ॥

कच उवाच।
पूज्यो मान्यश्च भगवान् यथा मम पिता तव।
तथात्वमनवद्याङ्गि! पूजनीयतमा मता॥ २६.६ ॥

आत्मप्राणेः प्रियतमा भार्गवस्य महात्मनः।
त्वं भद्रे! धर्मतः पूज्या गुरुपुत्री सदा मम॥ २६.७ ॥

यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव।
देवयानि! तथैवत्वं नैवं मां वक्तुमर्हसि॥ २६.8 ॥

देवयान्युवाच।
गुरुपुत्रस्य पुत्रो मे न तु त्वमसि मे पितुः।
तस्मान्मान्यश्च पूज्यश्च ममापि त्वं द्विजोत्तम॥ २६.९ ॥

असुरैर्हन्यमाने तु कचे त्वयि पुनः पुनः।
तदा प्रभृति या प्रीतिस्तां त्वमेव स्मरस्व मे॥ २६.१० ॥
सौहार्द्ये चानुरागे च वेत्थ मे भक्तिमुत्तमाम्।
न मामर्हसि धर्मज्ञ! त्यक्तुं भक्तामनागसम्॥ २६.११ ॥

कच उवाच।
अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते!।
प्रसीद सुभ्रु! मह्यन्त्वं गुरोर्गुरुतरा शुभे॥
यत्रोषितं विशालाक्षि! त्वया चन्द्रनिभानने!।
तत्राहमुषितो भद्रे! कुक्षौ काव्यस्त भामिनि॥ २६.१२ ॥

भगिनी धर्मतो मे त्वं मैवं वोचः शुभानने!।
सुखेनाध्युषितो भद्रे! न मन्युर्विद्यते मम
आपृच्छे त्वां गमिष्यामि शिवमस्त्वथ मे पथि।
अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे
अप्रमत्तोद्यता नित्यमाराधय गुरुं मम।
देवयान्युवाच।
दैत्यैर्हतस्त्वं यद्भर्तृ बुध्या त्वं रक्षितो मया॥ २६.१३ ॥

यदि मां धर्मकामार्थां प्रत्याख्यास्यसि धर्मतः।
ततः कच न ते विद्या सिद्धिरेषा गमिष्यति॥ २६.१४ ॥

कच उवाच।
गुरुपुत्रीति कृत्वाहं प्रत्याख्यास्ये न दोषतः।
गुरुणा चाभ्यनुज्ञातः काममेवं शपस्वमाम्॥ २६.१५ ॥

आर्षं धर्मब्रुवाणोऽहं देवयानि! यथात्वया।
शप्तुं नार्होऽस्मि कल्याणि! कामतोऽथ च धर्मतः॥ २६.१६ ॥

तस्माद् भवत्या यः कामो न तथा सम्भविष्यति।
ऋषिपुत्रो न ते कश्चित्‌ जातु पाणिं ग्रहीष्यति॥ २६.१७ ॥

फलिष्यति न मे विद्या त्वद्वचश्चेति तत्तथा।
अध्यापयिष्यामि च यं तस्य विद्या फलिष्यति॥

शौनक उवाच।
एवमुक्त्वा नृप श्रेष्ठ! देवयानीं कचस्तदा।
त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः॥ २६.१8 ॥

तमागतमभिप्रेक्ष्य देवाः सेन्द्रपुरोगमाः।
बृहस्पतिं सभाज्येदं कचमाहुर्मुदान्विताः॥ २६.१९ ॥

त्वं कचास्मद्धितं कर्म कृतवान् महदद्भुतम्।
न ते यशः प्रणशिता भागभाग्च भविष्यसि॥ २६.२० ॥