ऋषय ऊचुः।
कस्मिन् काले च तच्छ्राद्धमनन्तफलदं भवेत्।
कस्मिन् वासरभागे तु श्राद्धकृच्छ्राद्धमाचरेत् ॥ २२.१ ॥
तीर्थेषु केषु च कृतं श्राद्धं बहुफलं भवेत्।
सूत उवाच।
अपराह्णे तु सम्प्राप्ते अभिजिद्रौहिणोदये॥ २२.२ ॥
यत्किञ्चिद्दीयते तत्र तदक्षयमुदाहृतम्।
तीर्थानि कानि शस्तानि पितृणां वल्लभानि च॥ २२.३ ॥
नामतस्तानि वक्ष्यामि सङ्क्षेपेण द्विजोत्तमाः!।
पितृतीर्थं गया नाम सर्वतीर्थवरं शुभम्॥ २२.४ ॥
यत्रास्ते देवदेवेशः स्वयमेव पितामहः।
तत्रैषा पितृभिर्गीता गाथा भागमभीप्सुभिः॥ २२.५ ॥
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्।
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत्॥ २२.६ ॥
तथावाराणसी पुण्या पितॄणां वल्लभा सदा।
यत्राविमुक्तसान्निध्यं भुक्ति मुक्ति फलप्रदम्॥ २२.७ ॥
पितॄणां वल्लभं तद्वत् पुण्यञ्च विमलेश्वरम्।
पितृतीर्थं प्रयागन्तु सर्वकाम फलप्रदम्॥ २२.८ ॥
वटेश्वरस्तु भगवान् माधवेन समन्वितः।
योगनिद्राशयस्तद्वत् सदा वसति केशवः॥ २२.९ ॥
दशाश्वमेधिकं पुण्यं गङ्गा द्वारं तथैव च।
नन्दाथ ललिता तद्वत्तीर्थं मायापुरी शुभा॥ २२.१० ॥
तथा मित्रपदं नाम ततः केदारमुत्तमम्।
गङ्गा सागरमित्याहुः सर्वतीर्थमयं शुभम्॥ २२.११ ॥
तीर्थं ब्रह्मसरस्तद्वच्छतद्रु सलिले ह्रदे।
तीर्थन्तु नैमिषं नाम सर्वतीर्थफलप्रदम्॥ २२.१२ ॥
गङ्गोद्भेदस्तु गोमत्यां यत्रोद्भूतः सनातनः।
तथा यज्ञवराहस्तु देवदेवश्च शूलभृत्॥ २२.१३ ॥
यत्र तत्काञ्चनं द्वारमष्टादशभुजो हरः।
नेमिस्तु हरिचक्रस्य शीर्णा यत्राभवत्पुरा॥ २२.१४ ॥
तदेतन्नैमिषारण्यं सर्वतीर्थनिषेवितम्।
देवदेवस्य तत्रापि वाराहस्य तु दर्शनम्॥ २२.१५ ॥
यः प्रयाति स पूतात्मा नारायणपदं व्रजेत्।
कृतशौचं महापुण्यं सर्वपापनिषूदनम्॥ २२.१६ ॥
यत्रास्ते नारसिंहस्तु स्वयमेव जनार्दनः।
तीर्थमिक्षुमती नाम पितॄणां वल्लभं सदा॥ २२.१७ ॥
सङ्गमे यत्र तिष्ठन्ति गङ्गायाः पितरः सदा।
कुरुक्षेत्रं महापुण्यं सर्वतीर्थ समन्वितम्॥ २२.१८ ॥
तथा च सरयूः पुण्या सर्वदेवनमस्कृता।
इरावती नदी तद्वत् पितृतीर्थाधिवासिनी॥ २२.१९ ॥
यमुना देविका काली चन्द्रभागा दृषद्वती।
नदी वेणुमती पुण्या परा वेत्रवती तथा॥ २२.२० ॥
पितॄणां वल्लभा ह्येताः श्राद्धे कोटिगुणा मताः।
जम्बूमार्गं महापुण्यं यत्र मार्गो हि लक्ष्यते॥ २२.२१ ॥
अद्यापि पितृतीर्थं तत् सर्वकामफलप्रदम्।
नीलकुण्डमितिख्यातं पितृतीर्थं द्विजोत्तमाः!॥ २२.२२ ॥
तथा रुद्रसरः पुण्यं सरोमानसमेव च।
मन्दाकिनी तथाच्छोदा विपाशाथ सरस्वती॥ २२.२३ ॥
पूर्वे मित्रपदन्तद्वत् वैद्यनाथं महाफलम्।
क्षिप्रा नदी महाकालस्तथा कालञ्जरं शुभम्॥ २२.२४ ॥
वंशोद्भेदं हरोद्भेदं गङ्गोद्भेदं महाफलम्।
भद्रेश्वरं विष्णुपदं नर्मदा द्वारमेव च॥ २२. २५ ॥
गयापिण्डप्रदानेन समान्याहुर्महर्षयः।
एतानि पितृतीर्थानि सर्वपापहराणि च॥ २२.२६ ॥
स्मरणादपि लोकानां किमु श्राद्धकृतां नृणाम्।
ओङ्कारं पितृतीर्थञ्च कावेरी कपिलोदकम्॥ २२.२७ ॥
सम्भेदश्चण्डवेगायास्तथैवामर कण्टकम्।
कुरुक्षेत्राच्छतगुणं तस्मिन् स्नानादिकं भवेत्॥ २२.२८ ॥
शुक्रतीर्थञ्च विख्यातं तीर्थं सोमेश्वरं परम्।
सर्वव्याधिहरं पुण्यं शतकोटि फलाधिकम्॥ २२.२९ ॥
श्राद्धे दाने तथा होमे स्वाध्याये जलसन्निधौ।
कायावरोहणं नाम तथा चर्मण्वतीनदी॥ २२.३० ॥
गोमती वरुणा तद्वत्तीर्थमौशनसम्परम्।
भैरवं भृगुतुङ्गञ्च गौरीतीर्थमनुत्तमम्॥ २२.३१ ॥
तीर्थं वैनायकं नाम भद्रेश्वरमतः परम्।
तथा पापहरं नाम पुण्याथ तपती नदी॥ २२.३२ ॥
मूलतापीपयोष्णी च पयोष्णीसङ्गमस्तथा।
महावोधिः पाटला च नागतीर्थमवन्तिका॥ २२.३३ ॥
तथा वेणा नदी पुण्या महाशालं तथैव च।
महारुद्रं महालिङ्गं दशार्णा च नदी शुभा॥ २२.३४ ॥
शतरुद्रा शताह्वा च तथा विश्वपदं परम्।
अङ्गारवाहिका तद्वन्नदौ तौ शोणघर्घरौ॥ २२.३५ ॥
कालिका च नदी पुण्या वितस्ता च नदी तथा।
एतानि पितृतीर्थानि शस्यन्ते स्नानदानयोः॥ २२.३६ ॥
श्राद्धमेतेषु यद्दत्तन्तदनन्तफलं स्मृतम्।
द्रोणी वाटनदी धारा सरित् क्षीरनदी तथा॥ २२.३७ ॥
गोकर्णं गजकर्णञ्च तथा च पुरुषोत्तमः।
द्वारका कृष्णतीर्थञ्च तथार्बुदसरस्वती॥ २२.३८ ॥
नदी मणिमती नाम तथा च गिरिकर्णिका।
धूतपापं तथा तीर्थं समुद्रो दक्षिणस्तथा॥ २२.३९ ॥
एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्नुते।
तीर्थं मेघकरं नाम स्वयमेव जनार्दनः॥ २२.४० ॥
यत्र शार्ङ्गधरो विष्णुर्मेखलायामवस्थितः।
तथा मन्डोदरी तीर्थं तीर्थं चम्पा नदी शुभा॥ २२.४१ ॥
तथा सा मलनाथश्च महाशाल नदी तथा।
चक्रवाकं चर्म्मकोटं तथा जन्मेश्वरं महत्॥ २२.४२ ॥
अर्जुनं त्रिपुरं चैव सिद्धेश्वरमतः परम्।
श्रीशैलं शाङ्करं तीर्थं नारसिंहमतः परम्॥ २२ .४३ ॥
महेन्द्रञ्च तथा पुण्यमथ श्रीरङ्गसञ्ज्ञितम्।
एतेष्वपि सदा श्राद्धमनन्तफलदं स्मृतम्॥ २२.४४ ॥
दर्शनादपि चैतानि सद्यः पापहराणि वै।
तुङ्गभद्रा नदी पुण्या तथा भीमरथी सरित्॥ २२.४५ ॥
भीमेश्वरं कृष्णवेणा कावेरी कुड्मलानदी।
नदी गोदावरी नाम त्रिसन्ध्या तीर्थमुत्तमम्॥ २२.४६ ॥
तीर्थं त्रैयम्बकं नाम सर्वतीर्थ नमस्कृतम्।
यत्रास्ते भगवानीशः स्वयमेव त्रिलोचनः॥ २२.४७ ॥
श्राद्धमेतेषु सर्वेषु कोटिकोटिगुणं भवेत्।
स्मरणादपि पापानि नश्यन्ति शतधा द्विजः॥ २२.४८ ॥
श्रीपर्णी ताम्रपर्णी च जया तीर्थमनुत्तमम्।
तथा मत्स्यनदी पुण्या शिवधारं तथैव च॥ २२.४९ ॥
भद्रतीर्थञ्च विख्यातं पम्पातीर्थञ्च शाश्वतम्।
पुण्यं रामेश्वरं तद्वदेलापुरमलं पुरम्॥ २२.५० ॥
अङ्गभूतञ्च विख्यातमानन्दकमलं बुधम्।
आम्रातकेश्वरं तद्वदेकाम्भकमतः परम्। २२.५१ ॥
गोवर्धनं हरिश्चन्द्रं कृपुचन्द्रं पृथूदकम्।
सहस्राक्षं हिरण्याक्षं तथा च कदली नदी॥ २२. ५२ ॥
रामाधिवासस्तत्रापि तथा सौमित्रिसङ्गमः।
इन्द्रकीलं महानादन्तथा च प्रियमेलकम्॥ २२.५३ ॥
एतान्यपि सदा श्राद्धे प्रशस्तान्यधिकानि तु।
एतेषु सर्वदेवानां सान्निध्यं द्रृश्यते यतः॥ २२.५४ ॥
दानमेतेषु सर्वेषु दत्तं कोटिशताधिकम्।
बाहुदा च नदी पुण्या तथा सिद्धवनं शुभम्॥ २२.५५ ॥
तीर्थं पाशुपतं नाम नदी पार्वतिका शुभा।
श्राद्धमेतेषु सर्वेषु दत्तं कोटिशतोत्तरम्॥ २२.५६ ॥
तथैव पितृतीर्थन्तु यत्र गोदावरी नदी।
युतालिङ्गसहस्रेण सर्वान्तरजलावहा॥ २२.५७ ॥
जामदग्न्यस्य तत्तीर्थं क्रमादायातमुत्तमम्।
प्रतीकस्य भयाद्भिन्नं यत्र गोदावरी नदी॥ २२.५८ ॥
तत्तीर्थं हव्यकव्यानामप्सरो युगसञ्ज्ञितम्।
श्राद्धाग्निकार्यदानेषु तथा कोटि शताधिकम्॥ २२.५९ ॥
तथा सहस्रलिङ्गञ्च राघवेश्वरमुत्तमम्।
सेन्द्रफेना नदी पुण्या यत्रेन्द्रः पतितः पुरा॥ २२.६० ॥
निहत्य नमुचिं शक्रस्तपसा स्वर्गमाप्तवान्।
तत्र दत्तं नरैः श्राद्धमनन्तफलदं भवेत्॥ २२.६१ ॥
तीर्थन्तु पुष्करं नाम शालग्रामं तथैव च।
सोमपानञ्च विख्यातं यत्र वैश्वानरालयम्॥ २२.६२ ॥
तीर्थं सारस्वतं नाम स्वामितीर्थं तथैव च।
मलन्दरा नदीपुण्या कोशिकी चन्द्रिका तथा॥ २२.६३ ॥
वैदर्भावाथ वैरा च पयोष्णी प्राङ्मुखापरा।
कावेरी चोत्तरापुण्या तथाजालन्धरो गिरिः॥ २२.६४ ॥
एतेषु श्राद्धतीर्थेषु श्राद्धमानन्त्यमश्नुते।
लोहदण्डं तथा तीर्थं चित्रकूटस्तथैव च॥ २२.६५ ॥
विन्ध्ययोगश्च गङ्गायास्तथा नदीतटं शुभम्।
कुब्जाम्रन्तु तथा तीर्थं उर्वशी पुलिनं तथा॥ २२.६६ ॥
संसारमोचनं तीर्थं तथैव ऋणमोचनम्।
एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्नुते॥ २२.६७ ॥
अट्टहासं तथा तीर्थं गौतमेश्वरमेव च।
तथा वशिष्ठं तीर्थन्तु हारितं तु ततः परम्॥ २२. ६८ ॥
ब्रह्मावर्तं कुशावर्तं हयतीर्थं तथैव च।
पिण्डाारकञ्च विख्यातं शङ्खोद्धारं तथैव च॥ २२.६९ ॥
घण्टेाश्वरं बिल्वकञ्च नीलपर्वतमेव च।
तथा च धरणी तीर्थं रामतीर्थं तथैव च॥ २२. ७० ॥
अश्वतीर्थञ्च विख्यातमनन्तं श्राद्धदानयोः।
तीर्थं वेदशिरो नाम तथैवौघवती नदी॥ २२.७१ ॥
तीर्थं वसुप्रदं नाम च्छागलाण्डं तथैव च।
एतेषु श्राद्धदातारः प्रयान्ति परमं पदम्॥ २२.७२ ॥
तथा च बदरी तीर्थं गणतीर्थं तथैव च।
जयन्तं विजयञ्चैव शुक्रतीर्थं तथैव च॥ २२.७३ ॥
श्रीपतेश्च तथा तीर्थं तीर्थं रैवतकं तथा।
तथैव शारदा तीर्थं भद्रकालेश्वरं तथा॥ २२.७४ ॥
वैकुण्ठतीर्थञ्च परं भीमेश्वरमथापि वा।
एतेषु श्राद्धदातारः प्रयान्ति परमां गतिम्॥ २२.७५ ॥
तीर्थं मातृगृहं नाम करवीरपुरं तथा।
कुशेशरञ्च विख्यातं गौरी शिखरमेव च॥ २२. ७६ ॥
नकुलेशस्य तीर्थञ्च कर्दमालं तथैव च।
दिण्डिपुण्यकरं तद्वत् पुण्डरीकपुरं तथा॥ २२.७७ ॥
सप्त गोदावरी तीर्थं सर्वतीर्थेश्वरेश्वरम्।
तत्र श्राद्धं प्रदातव्यमनन्तफलमीप्सुभिः॥ २२.७८ ॥
एषतूद्देशतः प्रोक्तस्तीर्थानां सङ्ग्रहो मया।
वागीशोऽपि न शक्नोति विस्तरान् किमु मानुषः॥ २२.७९ ॥
सत्यं तीर्थं दया तीर्थं तीर्थमिन्द्रियनिग्रहः।
वर्णाश्रमाणां गेहेऽपि तीर्थन्तु समुदाहृतम्॥ २२. ८० ॥
एतत्तीर्थेषु यच्छ्राद्धं तत्कोटि गुणमिष्यते।
यस्मात्तस्मात् प्रयत्नेन तीर्थे श्राद्धं समाचरेत्॥ २२ .८१ ॥
प्रातः कालो मुहूर्तांस्त्रीन् सङ्गवस्तावदेव तु।
मध्याह्न स्त्रिमुहूर्तस्यादपराह्णस्ततः परम्॥ २२.८२ ॥
सायाह्नस्त्रिमुहूर्तः स्याच्छ्राद्धं तत्र न कारयेत्।
राक्षसी नाम सा वेला गर्हिता सर्वकर्मसु॥ २२.८३ ॥
अह्नो मुहूर्तो विख्याता दश पञ्च च सर्वदा।
तत्राष्टमो मुहूर्तो यः सकालः कुतपः स्मृतः॥ २२.८४ ॥
मध्याह्ने सर्वदा यस्मान्मन्दीभवति भास्करः।
तस्मादनन्तफलद स्तदारम्भो भविष्यति॥ २२.८५ ॥
मध्याह्नखड्ग पात्रञ्च तथा नेपालकम्बलः।
रूप्यं दर्भास्तिला गावो दौहित्रश्चाष्टमः स्मृतः॥ २२.८६ ॥
पापं कुत्सितमित्याहुस्तस्य सन्तापकारिणः।
अष्टावेतेयतस्तस्मात् कुतपा इति विश्रुता॥ २२.८७ ॥
ऊर्ध्वं मुहूर्तात् कुतपाद्यन्मुहूर्तचतुष्टयम्।
मुहूर्तपञ्चकञ्चैतत् स्वधाभवनमिष्यते॥ २२.८८ ॥
विष्णोर्देहसमुद्भूताः कुशाः कृष्णास्तिलास्तथा।
श्राद्धस्य रक्षणायालमेतत् प्राहुर्दिवौकसः॥ २२.८९ ॥
तिलोदकाञ्जलिर्देय जलस्थैस्तीर्थवासिभिः।
सदर्भहस्तेनैकेन श्राद्धमेवं विशिष्यते॥ २२.९० ॥
श्राद्धसाधनकाले तु पाणिनैकेन दीयते।
तर्पणन्तू भयेनैव विधिरेष सदा स्मृतः॥ २२.९१ ॥
पुण्यं पवित्रामायुष्यं सर्वपापविनाशनम्।
पुरा मत्स्येन कथितन्तीर्थश्राद्धानुकीर्तनम्॥
श्रृणोति यः पठेद्वापि श्रीमान् सञ्जायते नरः॥ २२.९२ ॥
श्राद्धकाले च वक्तव्यं तथा तीर्थनिवासिभिः।
सर्वपापोपशान्त्यर्थमलक्ष्मीनाशनं परम्॥ २२.९३ ॥
इदं पवित्रं यशयो निधानमिदं महापापहरञ्च पुंसाम्।
ब्रह्मार्करुद्रैरपि पूजितञ्च श्राद्धस्य माहात्म्यमुशन्ति तज्ज्ञाः॥ २२.९४ ॥