०२१

श्राद्धमाहात्म्ये पिपीलिकावहासवर्णनम् |

ऋषय ऊचुः।
कथं सत्वरुतज्ञोऽभूद् ब्रह्मदत्तो धरातले।
तच्चाभवत् कस्य कुले चक्रवाक चतुष्टयम्॥ २१.१ ॥

तस्मिन्नेवपुरे जातास्ते च चक्राह्वयास्तदा।
वृद्धद्विजस्य दायादा विप्रा जातिस्मराः पुरा॥ २१.२ ॥

धृतिमांस्तत्त्वदर्शी च विद्या चण्डस्तपोत्सुकः।
नामतः कर्म्मतश्चैते सुदरिद्रस्य ते सुताः॥ २१.३ ॥

तपसे बुद्धिरभवत्तदा तेषां द्विजन्मनाम्।
यास्यामः परमां सिद्धिमित्यूचुस्ते द्विजोत्तमाः॥ २१.४ ॥

ततस्तद्वचनं श्रुत्वा सुदरिद्रो महातपाः।
उवाच दीनया वाचा किमेतदिति पुत्रकाः॥ २१.५ ॥

अधर्म्म एष इति वः पिता तानभ्यवारयत्।
वृद्धं पितरमुत्सृज्य दरिद्रं वनवासिनः॥ २१.६ ॥

कोनुधर्मोऽत्रभवितामत्त्यगाद्‌ गतिरेव वा।
ऊचुस्ते कल्पिता वृत्तिस्तवतात! वदस्व तत्॥ २१.७ ॥

वित्तमेतत् पुरो राज्ञः स ते दास्यति पुष्कलम्।
धनं ग्रामसहस्रापि प्रभाते पठतस्तव॥ २१.८ ॥

ये विप्रमुख्याः कुरुजाङ्गलेषु दासास्तथा दासपुरे मृगाश्च।
कालञ्जरे सप्त च चक्रवाका ये मानसे ते वयमत्र सिद्धाः॥ २१.९ ॥

इत्युक्त्वा पितरं जग्मुस्ते वनं तपसे पुनः।
वृद्धोऽपि राजभवनं जगामात्मार्थ सिद्धये॥ २१.१० ॥

अनघो नाम वैभ्राजः पाञ्चालाधिपतिः पुरा।

पुत्रार्थी देवदेवेशं हरिं नारायणं प्रभुम्॥ २१.११ ॥

आराधयामास विभुं तीव्र व्रतपरायणः।
ततः कालेन महता तुष्टस्तस्य जनार्दनः॥ २१.१२ ॥

वरं वृणीष्व भद्रं ते हृदयेनेप्सितं नृप!
एवमुक्तस्त देवेन वव्रे स वरमुत्तमम्॥ २१.१३ ॥

पुत्रं मे देहि देवेश! महाबलपराक्रमम्।
पारगं सर्वशास्त्राणां धार्मिकं योगिनां परम्॥ २१.१४ ॥

सर्वसत्वरुतज्ञं मे देहि योगिनमात्मजम्।
एवमस्त्विति विश्वात्मा तमाह परमेश्वरः॥ २१.१५ ॥

पश्यतां सर्वदेवानां तत्रैवान्तरधीयत।
ततः स तस्य पुत्रोऽभूत् ब्रह्मदत्तः प्रतापवान्॥ २१.१६ ॥

सर्वसत्वानुकम्पी च सर्वसत्व बलाधिकः।
सर्वसत्त्वरुतज्ञश्च सर्वसत्वेश्वरेश्वरः॥ २१.१७ ॥

अहसत्तेन योगात्मा स पिपीलिकरागतः।
यत्र तत् कीटमिथुनं रममाणमवस्थितम्॥ २१.१८ ॥

ततः सा सन्नतिर्द्रृष्ट्वा तं हसन्तं सुविस्मिता।
किमप्याशङ्क्य मनसा तमपृच्छन्नरेश्वरम्॥ २१.१९ ॥

अकस्मात्‌ इतिहासस्ते किमर्थमभवन्नृप!।
हास्यहेतुं न जानामि यदकाले कृतं त्वया॥ २१.२० ॥

सूत उवाच।
अवदद्राजपुत्रोऽपि स पिपीलिकभाषितम्।
रागवाग्भिः समुत्पन्नमेतद्धास्यं वरानने!॥ २१.२१ ॥

न चान्यत्‌ कारणं किञ्चिद्धास्यहेतौ शुचिस्मिते।
न सामन्यत्तदा देवी प्राहालीकमिदं वचः॥ २१.२२ ॥

अहमेवाद्यहसिता न जीविष्ये त्वयाऽधुना।
कथं पिपीलिकालापं मर्त्यो वेत्ति विना सुरान्॥ २१.२३ ॥

तस्मात्त्वयाहमेवेह हसिता किमतः परम्।
ततो निरुत्तरो राजा जिज्ञासुस्तत्‌ पुरो हरेः॥ २१.२४ ॥

आस्थाय नियमन्तस्थौ सप्तरात्रमकल्मषः।
स्वप्ने प्राह हृषीकेशः प्रभाते पर्यटन् पुरम्॥ २१.२५ ॥

वृद्धद्विजोयस्तद्वाक्यात्‌ सर्वं ज्ञास्यस्यशेषतः।
इत्युक्त्वान्तर्दधो विष्णुः प्रभातेऽथ नृपः पुरात्॥ २१.२६ ॥

निर्गच्छन्मन्त्रिसहितः सभार्यो वृद्धमग्रतः।
गदन्तं विप्रमायान्तं तं वृद्धं सन्ददर्श ह॥ २१.२७ ॥

ये विप्रमुख्याः कुरुजाङ्गलेषु दासास्तथा दासपुरे मृगाश्च।
कालञ्जरे सप्त च चक्रवाका ये मानसे ते वयमन्त्र सिद्धाः॥ २१.२८ ॥

सूत उवाच।
इत्याकर्ण्य वचस्ताभ्यां स पपात शुचा ततः।
जातिस्मरत्वमगमत्तौ च मन्त्रिवरावुभौ॥ २१.२९ ॥

कामशास्त्रप्रणेता च वाभ्रव्यस्तु सुबालकः।
पाञ्चाल इति लोकेषु विश्रुतः सर्वशास्त्रवित्॥ २१.३० ॥

कण्डरीकोऽपि धर्मात्मा वेदशास्त्रप्रवर्तकः।
भूत्वा जातिस्मरौ शोकात् पतितावग्रतस्तदा॥ २१.३१ ॥

हा वयं योगविभ्रष्टाः कामतः कर्मबन्धनाः।
एवं विलप्य बहुशस्त्रयस्ते योगपारगाः॥ २१.३२ ॥

विस्मयाच्छ्राद्धमाहात्म्यमभिनन्द्य पुनः पुनः।
ततस्तस्मै धनं दत्त्वा प्रभूतग्रामसंयुतम्॥ २१.३३ ॥

विसृज्य ब्राह्मणन्तञ्च वृद्धं धन मुदान्वितम्।
आत्मीयं नृपतिः पुत्रं नृपलक्षणसंयुतम्॥ २१.३४ ॥

विष्वक् सेनाभिधानन्तु राजा राज्येऽभ्यषेचयत्।
मानसे मिलिताः सर्वे ततस्ते योगिनो वराः॥ २१.३५ ॥

ब्रह्मदत्तादयस्तस्मिन् पितृसक्ता विमत्सराः।
सन्नतिश्चाभवद्‌ भ्रष्टा मयैतत् किल कारितम्॥ २१.३६ ॥

राज्यत्यागफलं सर्वं यदेतदभिलष्यते।
तथेति प्राह राजा तु पुनस्तामभिनन्दयन्॥ २१.३७ ॥

त्वत् प्रसादादिदं सर्वं मयैतत् प्राप्यते फलम्।
ततस्ते योगमास्थाय सर्व एव वनौकसः॥ २१.३८ ॥

ब्रह्मरन्ध्रेण परमं पदमापुस्तपोधनाः।
एवमायुर्धनं विद्यां स्वर्गं मोक्षं सुखानि च॥ २१.३९ ॥

प्रयच्छन्ति सुतान् राज्यं नृणां प्रीताः पितामहाः।
य इदं पितृमाहात्म्यं ब्रह्मदत्तस्य च द्विजाः॥ २१.४० ॥

द्विजेभ्यः श्रावयेद्यो वा श्रृणोत्यथ पठेत वा।
कल्पकोटिशतं साग्रं ब्रह्मलोके महीयते॥ २१.४१ ॥