श्राद्धमाहात्म्ये कौशिकसूनुकथानकम्।
ऋषय ऊचुः।
कथं कौशिकदायादाः प्राप्तास्ते योगमुत्तमम्।
पञ्चभिर्जन्मसम्बन्धैः कथं कर्म्मक्षयोऽभवत्॥ २०.१ ॥
कौशिको नाम धर्म्मात्मा कुरुक्षेत्रे महान् ऋषिः।
नामतः कर्म्मतस्तस्य सूतान् सप्त निबोधत॥ २०.२ ॥
स्वसृपः क्रोधनो हिंस्रः पिशुनः कविरेव च।
वारदुष्टः पितृवर्तीच गर्गशिष्यास्तदा भवत्॥ २०.३ ॥
पितर्य्युपरते तेषामभूद् दुर्भिक्षमुल्बणम्।
अनावृष्टिश्च महती सर्वलोकभयङ्करी॥ २०.४ ॥
गर्गादेशाद्वने दोग्ध्रीं रक्षन्तस्ते तपोधनाः।
खादामः कपिलामेता वयं क्षुत्पीडिता भृशम्। २०.५ ॥
इति चिन्तयतां पापं लघुः प्राह तदानुजः।
यद्यवश्यमियं बध्या श्राद्धरूपेण योज्यताम्॥ २०.६ ॥
श्राद्धे नियोज्यमानेयं पापात् त्रास्यति नोध्रुवम्।
एवं कुर्वित्यनुज्ञातः पितृवर्ती तदानुजैः॥ २०.७ ॥
चक्रे समाहितः श्राद्धमुपयुज्य च तां पुनः।
द्वौ देवे भ्रातरौ कृत्वा पित्रे त्रीनप्यनुक्रमात्॥ २०.८ ॥
तथैकमतिथिं कृत्वा श्राद्धदः स्वयमेव तु।
चकार मन्त्रवच्छ्राद्धं स्मरन् पितृपरायणः॥ २०.९ ॥
विना गवा वत्सकोऽपि गुरवे विनिवेदितः।
व्याघ्रेण निहता धेनुर्वत्सोऽयं प्रतिगृह्यताम्॥ २०.१० ॥
एवं साभक्षिताधेनुः सप्तभिस्तैस्तपोधनैः।
वैदिकं बलमाश्रित्य क्रूरे कर्म्मणि निर्भयाः॥ २०.११ ॥
ततः कालावकृष्टास्ते व्याधा दासपुरेऽभवन्।
जातिस्मरत्वं प्राप्तास्ते पितृभावेन भाविताः॥ २०.१२ ॥
यत् कृतं क्रूरकर्म्मापि श्राद्धरूपेण तैस्तदा।
तेन ते भवने जाता व्याधानां क्रूरकर्मिणाम्॥ २०.१३ ॥
पितॄणाञ्चैव माहात्म्याज्जाता जातिस्मरास्तु ते।
ते तु वैराग्ययोगेन आस्थायानशनं पुनः॥ २०.१४ ॥
जातिस्मराः सप्तजाता मृगाः कालञ्जरे गिरौ।
नीलकण्ठस्य पुरतः पितृभावानुभाविताः॥ २०.१५ ॥
तत्रापि ज्ञानवैराग्यात् प्राणानुत्सृज्य धर्म्मतः।
लोकैरवेक्ष्यमाणास्ते तीर्थान्तेऽनशनेन तु॥ २०.१६ ॥
मानसे चक्रवाकास्ते सञ्जाताः सप्तयोगिनः।
नामतः कर्मतः सर्व्वान् श्रृणुध्वं द्विजसत्तमाः॥ २०.१७ ॥
सुमनाः कुमुदः शुद्धश्छिद्रदर्शी सुनेत्रकः।
सुनेत्रश्चांशुमांश्चैव सप्तैते योगपारगाः॥ २०.१८ ॥
योगभ्रष्टास्त्रय स्तेषां वभ्रमुश्चाल्पचेतनाः।
द्रृष्ट्वा विभ्राजमानं तमुद्याने स्त्रीभिरन्वितम्॥ २०.१९ ॥
क्रीडन्तं विविधैर्भावै र्महाबलपराक्रमम्।
पाञ्चालान्वयसम्भूतं प्रभूतबलवाहनम्॥ २०.२० ॥
राज्यकामोभवच्चैक स्तेषां मध्ये जलौकसाम्।
पितृवर्ती च यो विप्रः श्राद्धकृत् पितृवत्सलः॥ २०.२१ ॥
अपरौ मन्त्रिणौ द्रृष्ट्वा प्रभूतबलवाहनौ।
मन्त्रित्वे च क्रतुश्चेच्छामस्मिन्मर्त्ये द्विजोत्तमाः॥ २०.२२ ॥
तन्मध्ये ये तु निष्कामास्ते बभूवुर्द्विजोत्तमाः।
विभ्राजमानस्त्वेकोऽभूत् ब्रह्मदत्त इति स्मृतः॥ १०.२३ ॥
मन्त्रिपुत्रौ तथा चोभौ कण्डहरीकसुबालकौ।
ब्रह्मदत्तोऽभिषिक्तः सन् पुरोहितविपश्चिता॥ २०.२४ ॥
पाञ्चालराजो विक्रान्तः सर्वशास्त्रविशारदः।
योगवित् सर्वजन्तूनां रुतवेत्ताऽभवत्तदा॥ २०.२५ ॥
तस्य राज्ञोऽभवद् भार्य्या देवलस्यात्मजा शुभा।
सन्नतिर्नामविख्याता कपिलायाभवत् पुरा॥ २०.२६ ॥
पितृकार्यो नियुक्तत्वादभवद् ब्रह्मवादिनी।
तया चकार सहितः सराज्यं राजनन्दनः॥ २०.२७ ॥
कदाचिदुद्यानगः तया सह स पार्थिवः।
ददर्श कीटमिथुनमनङ्ग कलहाकुलम्॥ २०.२८ ॥
पिपीलकामनुनयन् परितः कीटकामुकः।
पञ्चबाणाभितप्ताङ्गः स गद्गदमुवाच ह॥ २०.२९ ॥
न त्वयासद्रृशी लोके कामिनी विद्यते क्वचित्।
मध्यक्षामातिजघना बृहद्वक्षोऽभिगामिनी॥ २०.३०॥
सुवर्णवर्णा सुश्रोणी मञ्जूक्ता चारुहासिनी।
सुलक्षनेत्ररसना गुडशर्करवत्सला॥ २०.३१ ॥
भोक्ष्यसे मयि भुङ्क्ते त्वं स्नासि स्नाते तथा मयि।
प्रोषिते सति दीनत्वं क्रुद्धेऽपि भयचञ्चला॥ २०.३२ ॥
किमर्थं वद कल्याणि! सरोषवदनास्थिता।
सा तमाह सकोपा तु किमालपसि मां शठ॥ ३०.३३ ॥
त्वया मोदकचूर्णन्तु मां विहाय विनेष्यता।
प्रदत्तं समतिक्रान्ते दिनेऽन्यस्याः समन्मथ!॥ २०.३४ ॥
त्वत्साद्रृशान् मया दत्तमन्यस्यै वरवर्णिनि!।
तदेकमपराधं मे क्षन्तुमर्हसि भामिनि!॥ ३०.३५ ॥
नैतदेवं करिष्यामि पुनः क्वापीह सुव्रते!।
स्पृशामि पादौ सत्येन प्रसीद प्रणतस्य मे॥ २०.३६ ॥
सूत उवाच।
इति तद्वचनं श्रुत्वा सा प्रसन्नाऽभवत्ततः।
आत्मानमर्पयामास मोहनाय पिपीलिका॥ २०.३७ ॥
ब्रह्मदत्तोऽप्यशेषन्तं ज्ञात्वा विस्मयमागमत्।
सर्वसत्वरुतज्ञत्वात् प्रसादाच्चक्रपाणिनः॥ २०.३८ ॥