पितृवंशानुकीर्त्तनम्।
सूत उवाच।
लोकाः सोमपथा नाम यत्र मारीचनन्दनाः।
वर्त्तन्ते देवपितरो देवा यान् भावयन्त्यलम्॥ १४.१ ।
अग्निष्वात्ता इति ख्याता यज्वानो यत्रसंस्थिताः।
अच्छोदा नाम तेषान्तु मानसी कन्यकानदी॥ १४.२ ॥
अच्छोदन्नाम च सरः पितृभिर्निर्मितं पुरा।
अच्छोदा तु तपश्चक्रे दिव्यं वर्ष सहस्रकम्॥ १४.३ ॥
आजग्मुः पितरस्तुष्टाः किलदातुञ्च तां वरम्।
दिव्यरूपधराः सर्वे दिव्यमाल्यानुलेपनाः॥ १४.४ ॥
सर्वे युवानो बलिनः कुसुमायुधसन्निभाः।
तन्मध्येऽमावसुं नाम पितरं वीक्ष्य सांऽगना॥ १४.५ ॥
वव्रे वरार्थिनी सङ्गं कुसुमायुधपीडिता।
योगाद्भ्रष्टा तु सा तेन व्यभिचारेण भामिनी॥ १४.६ ॥
धरान्तु नास्पृशत् पूर्वं पपाताथ भुवस्तले।
तिथावमावसूर्यस्यामिच्छां चक्रे न तां प्रति॥ १४.७ ॥
धैर्येण तस्य सा लोकैरमावास्येति विश्रुता।
पितॄणां वल्लभा तस्य तस्यामक्षयकारकम्॥१४.८॥
अच्छोदाऽधोमुखीदीना लज्जिता तपसः क्षयात्।
सा पितॄन् प्रार्थयामास पुरे चात्मप्रसिद्धये॥ १४.९ ॥
विलप्यमाना पितृभिरिदमुक्ता तपस्विनी।
भविष्यमर्थमालोक्य देवकार्यञ्च ते तदा॥ १४.१० ॥
इदमूचुर्म्महाभागाः प्रसाद शुभयागिरा।
दिवि दिव्यशरीरेण यत् किञ्चित् क्रियते बुधैः॥ १४.१० ॥
तेनैव तत्कर्म्मफलं भुज्यते वरवर्णिनि।
सद्यं फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे॥ १४.११ ॥
तस्मात्त्वं पुत्रि! तपसः प्राप्स्यसे प्रेत्य तत्फलम्।
अष्टाविंशे भवित्री त्वं द्वापरे मत्स्य योनिजा॥ १४.१२ ॥
व्यतिक्रमात् पितॄणां त्वं कष्टं कुलमवाप्स्यसि।
तस्माद्राज्ञोवसोः कन्या त्वमवश्यं भविष्यसि ॥ १४.१३ ॥
कन्या भूत्वा च लोकान् स्वान् पुनराप्स्यसि दुर्लभान्।
पराशरस्य वीर्येण पुत्रमेकमवाप्स्यसि॥ १४.१४ ॥
द्वीपे तु बदरीप्राये बादरायणमच्युतम्।
स वेदमेकं बहुधा विभजिष्यति ते सुतः॥ १४.१५ ॥
पौरवस्यात्मजौ द्वौ तु समुद्रांशस्य शन्तनोः।
विचित्रवीर्य्यस्तनयस्तथा चित्राङ्गदो नृपः॥ १४.१६ ॥
इमावुत्पाद्य तनयौ क्षेत्रजावस्य धीमतः।
प्रौष्ठपद्यष्टकारूपा पितृलोके भविष्यसि॥ १४.१७ ॥
नाम्ना सत्यवती लोके पितृलोके तथाष्टका।
आयुरारोग्यदा नित्यं सर्वकाम फलप्रदा॥ १४.१८ ॥
भविष्यसि परे काले नदीत्वञ्च गमिष्यसि।
पुण्यतोयासरिच्छ्रेष्ठा लोकेह्यच्छोद नामिका॥ १४.१९ ॥
इत्युक्त्वा सगणस्तेषां तत्रैवान्तरधीयत।
साप्यवाप च तत्सर्वं फलं तदुदितं पुरा॥ १४.२० ॥