पृथ्वीदोहनम्।
ऋषय ऊचुः।
बहुभिर्धरणी भुक्ता भूपालैः श्रूयते पुरा।
पार्थिवाः पृथिवीयोगात् पृथिवी कस्य योगतः॥ १०.१ ॥
किमर्थञ्च कृता सञ्ज्ञा भूमेः किं पारिभाषिणी।
गौरितीयञ्च विख्याता सूत! कस्माद् ब्रवीहि नः॥ १०.२ ॥
सूत उवाच।
वंशे स्वायम्भुवस्यासीदङ्गो नाम प्रजापतिः।
मृत्योस्तु दुहिता तेन परिणीता सुदुर्मुखा॥ १०.३ ॥
सुनीथा नाम तस्यास्तु वेनो नामसुतः पुरा।
अधर्म्मनिरतश्चासीद् बलवान्वसुधाधिपः॥ १०.४ ॥
लोकेऽप्यधर्म्मकृज्जातः परभार्यापहारकः।
धर्माचारस्य सिद्ध्यर्थं जगतोऽथमहर्षिभिः॥ १०.५ ॥
अनुनीतोऽपि न ददावनुज्ञां स यदा ततः।
शापेन मारयित्वैनमराजक भयार्दिताः॥ १०.६ ॥
ममन्थु र्ब्राह्मणास्तस्य बलाद्देहमकल्मषाः।
तत्कायान्मथ्यमानात्तु निपेतुर्म्लेच्छजातयः॥ १०.७ ॥
शरीरे मातुरंशेन कृष्णाञ्जनसमप्रभाः।
पितुरंशस्य चांशेन धार्मिको धर्म्मचारिणः॥ १०.८ ॥
उत्पन्नो दक्षिणाद्धस्तात्स धनुः सशरो गदी।
दिव्यतेजोमयवपुः सरत्नकवचाङ्गदः॥ १०.९ ॥
पृथोरेवाभवद्यत्नात् ततः पृथुरजायत।
स विप्रैरभिषिक्तोऽपि तपः कृत्वा सुदारुणम्॥ १०.१० ॥
विष्णोर्वरेण सर्वस्य प्रभुत्वमगमत्पुनः।
निः स्वाध्यायवषट्कारं निर्धर्मं वीक्ष्य भूतलम्॥ १०.११ ॥
दग्धुमेवोद्यतः कोपाच्छरेणामितविक्रमः।
ततो गोरूपमास्थाय भूः पलायितुमुद्यता॥ १०.१२ ॥
पृष्ठतोऽनुगतस्तस्याः पृथुर्दीप्तशरासनः।
ततः स्थित्वैकदेशे तु किं करोमीति चाब्रवीत्॥ १०.१३ ॥
पृथुरत्यवदद्वाक्यमीप्सितं देहि सुव्रते।
सर्वस्य जगतः शीघ्रं स्थावरस्य चरस्य च॥ १०.१४ ॥
तथैव सा ब्रवीद्भूमिर्दुदोह स नराधिपः।
स्वके पाणौ पृथुर्वत्सं कृत्वा स्वायम्भुवं मनुम्॥ १०.१५ ॥
तदन्नमभवच्छुद्धं प्रजा जीवन्ति येन वै।
ततस्तु ऋषिभिर्दुग्धा वत्सः सोमस्तदाभवत्॥ १०.१६ ॥
दोग्धा बृहस्पतिरभूत्पात्रं वेदस्तपो रसः।
वेदैश्च वसुधा दुग्धा दोग्धामित्रस्तदा भवत्॥ १०.१७ ॥
इन्द्रोवत्सः समभवत् क्षीरमूर्जस्करं बलम्।
देवानां काञ्चनं पात्रं पितृणां राजतं तथा॥ १०.१८ ॥
अन्तकश्चाभवद्दोग्धा यमो वत्सः स्वधारसः।
अलावुपात्रं नागानां तक्षको वत्सकोऽभवत्॥ १०.१९ ॥
विषं क्षीरं ततो दोग्धा धृतराष्ट्रोऽभवत्पुनः।
असुरैरपि दुग्धेयमायसे शक्रपीडिनीम्॥ १०.२० ॥
पात्रे मायामभूद्वत्सः प्राह्लादिस्तु विरोचनः।
दोग्धाद्विमूर्धा तत्रासीन्माया येन प्रवर्त्तिता॥ १०.२१ ॥
यक्षैश्च वसुधा दुग्धा पुरान्तर्द्धानमीप्सुभिः।
कृत्वा वैश्रवणं वत्समामपात्रे महीपते॥ १०.२२ ॥
प्रेतरक्षोगणैर्दुग्धा धारा रुधिरमुल्बणम्।
रौप्यनाभोऽभवद् दोग्धा सुमाली वत्स एव च॥ १०.२३ ॥
गन्धर्वैश्च पुरा दुग्धा वसुधा साप्सरोगणैः।
वत्सं चैत्ररथं कृत्वा गन्धान् पद्म दले तथा॥ १०.२४ ॥
दोग्धा वररुचिर्नाम नाट्यवेदस्य पारगः।
गिरिभिर्वसुधा दुग्धा रत्नानि विविधानि च॥ १०.२५ ॥
औषधानिच दिव्यानि दोग्धा मेरुर्महाचलः।
वत्सोऽभूद्धिमवांस्तत्र पात्रं शैलमयं पुनः॥ १०.२६ ॥
वृक्षैश्चवसुधा दुग्धा क्षीरं छिन्नप्ररोहणम्।
पालाशपात्रं दोग्धातु शालः पुष्पलताकुलः॥ १०.२७ ॥
प्लक्षोऽभवत्ततो वत्सः सर्ववृक्षोधनाधिपः।
एवमन्यैश्च वसुधा तदा दुग्धा यथेप्सितम्॥ १०.२८ ॥
आयुर्धनानि सौख्यञ्च पृथौ राज्यं प्रशासति।
न दरिद्रस्तदा कश्चिन्नरोगी न च पापकृत्॥ १०.२९ ॥
नोपसर्गभयं किञ्चित् पृथौ राजनिशासति।
नित्यं प्रमुदितालोका दुःखशोकविवर्जिताः॥ १०.३० ॥
धनुष्कोट्या च शैनेन्द्रानुत्सार्य्यसमहाबलः।
भुवस्तलं समं चक्रे लोकानां हितकाम्यया॥ १०.३१ ॥
न पुरग्रामदुर्गाणि नचायुधधरा नराः।
क्षयातिशयदुःखञ्च नार्थशास्त्रस्य चादरः॥ १०.३२ ॥
धर्मैकवासनालोकाः पृथो राज्यं प्रशासति।
कथितानि च पात्राणि यत्क्षीरञ्च मया तव॥ १०.३३ ॥
येषां यत्र रुचिस्तत्तद्देयं तेभ्यो विजानता।
यज्ञ श्राद्धेषु सर्वेषु मया तुभ्यं निवेदितम्॥ १०.३४ ॥
दुहितृत्वङ्गता यस्मात् पृथौर्धर्म्मवतो मही।
तदानुरागयोगाच्च पृथिवी विश्रुता बुधैः॥ १०.३५ ॥