००७

मरुद्‌गणोत्पत्तिकथने मदनद्वादशीव्रतकथनम्।

ऋषय ऊचुः।
दितेः पुत्राः कथं जाता मरुतो देववल्लभाः।
देवैर्जग्मुश्च सापत्नैः कस्मात्ते सख्यमुत्तमम्॥ ७.१ ॥

सूत उवाच।
पुरा देवासुरे युद्धे हतेषु हरिणासुरैः।
पुत्रा पौत्रेषु शोकार्त्ता गत्वा भूलोकमुत्तमम्॥ ७.२ ॥

स्यमन्तपञ्चके क्षेत्रे सरस्वत्यास्तटे शुभे।
भर्तुराराधनपरा तप उग्रं चचार ह॥ ७.३ ॥

तदादितिर्दैत्यमाता ऋषिरूपेण सुव्रत!।
फलाहारा तपस्तेपे कृच्छ्रं चान्द्रायणादिकम्॥ ७.४ ॥

यावद्वर्षशतं साग्रं जाता शोकसमाकुला।
ततः सा तपसा तप्ता वसिष्ठादीनपृच्छत॥ ७.५ ॥

कथयन्तु भवन्तो मे पुत्रशोकविनाशनम्।
व्रतं सौभाग्यफलदमिह लोके परत्र च॥ ७.६ ॥

ऊचु र्वसिष्ठप्रमुखा मदनद्वादशीव्रतम्।
यस्याः प्रभावादभवत् सुतशोक विवर्जिताः॥ ७.७ ॥

श्रोतुमिच्छामहे सूत! मदनद्वादशी व्रतम्।
सुतानेकोनपञ्चाशद्येन लेभे दितिः पुनः॥ ७.८ ॥

यद्वसिष्ठादिभिः पूर्वन्दितेः कथितमुत्तमम्।
विस्तरेण तदेवेदं मत्सकाशान्निबोधत॥ ७.९ ॥

चैत्रमासि सिते पक्षे द्वादश्यां नियतव्रतः।
स्थापयेदव्रणं कुम्भं सित तण्डुल पूरितम्॥ ७.१० ॥

नानाफलयुतं तद्वदिक्षुदण्डसमन्वितम्।
सितवस्त्रयुगच्छन्नं सितचन्दन चर्चितम्॥ ७.११ ॥

नानाभक्ष्यसमोपेतं सहिरण्यन्तु शक्तितः।
ताम्रपात्रं गुडोपेतं तस्योपरि निवेशयेत्॥ ७.१२

तस्मादुपरि कामन्तु कदलीदलसंस्थितम्।
कुर्य्याद् भार्याद्वयोपेतं रतिं तस्य च वामतः॥ ७.१३ ॥

गन्धं धूपं ततो दद्याद् गीतं वाद्यञ्च कारयेत्।
तदभावे कथां कुर्य्यात् कामकेशवयोर्नरः॥ ७.१४ ॥

कामनाम्नो हरेरर्चां स्नापयेद्‌ गन्धवारिणा।
शुक्लपुष्पाक्षततिलैरर्चयेन्‌ मधुसूदनम्॥ ७.१५ ॥

कामाय पादौ सम्पूज्य जङ्घे सौभाग्यदाय च।
ऊरुस्मरायेति पुनर्मन्मथायेति वै कटिम्॥ ७.१६ ॥

स्वच्छोदरायेत्युदरमनङ्गायेत्त्युरो हरेः।
मुखं पद्ममुखायेति बाहू पञ्चशराय वै॥ ७.१७ ॥

नमः सर्व्वात्मने मौलिमर्चयेदिति केशवम्।
ततः प्रभाते तं कुम्भं ब्राह्मणाय निवेदयेत्॥ ७.१८ ॥

ब्राह्मणान् भोजयेद् भक्त्या स्वयञ्चलवणादृते।
भुक्त्वा तु दक्षिणां दद्यादिमं मन्त्रमुदीरयेत्॥ ७.२० ॥

अनेन विधिना सर्वं मासि मासि व्रतं चरेत्।
उपवासी त्रयोदश्यामर्चयेद्विष्णुमव्ययम्॥ ७.२१ ॥

फलमेकञ्च सम्प्राश्य द्वादश्यां भूतले स्वपेत्।
ततस्त्रयोदशे मासि घृत धेनु समन्विताम्॥ ७.२२ ॥

शय्यां दद्यादनङ्गाय सर्वापस्करसंयुताम्।
काञ्चनं कामदेवञ्च शुक्लां गाञ्च पयस्विनीम्॥ ७.२३ ॥

घासोभिर्द्विजदाम्पत्यं पूज्यं शक्त्या विभूषणैः।
शय्या गन्धादिकं दद्यात्‌ प्रीयतामित्युदीरयेत्॥ ७.२४ ॥

होमः शुक्लतिलैः कार्य्यः कामनामानि कीर्त्तयेत्।
गव्येन हविषा तद्वत् पायसेन च धर्म्मवित्॥ ७.२५ ॥

विप्रेभ्यो भोजनं दद्याद्वित्तशाठ्यं विवर्जयेत्।
इक्षुदण्डानथो दद्यात् पुष्पमालाश्च शक्तितः॥ ७.२६ ॥

यः कुर्याद्विधिनानेन मदनद्वादशीमिमाम्।
स सर्वपापनिर्मुक्तः प्राप्नोति हरिसाम्यताम्॥ ७.२७ ॥

इह लोके वरान् पुत्रान् सौभाग्यफलमश्नुते।
यः स्मरः संस्मृतो विष्णुरानन्दात्मा महेश्वरः॥ ७.२८ ॥

सुखार्थी कामरूपेण स्मरेदङ्गजमीश्वरम्।
एतच्छ्रुत्वा चकारासौ दितिः सर्वमशेषतः॥ ७.२९ ॥

कश्यपो व्रतमाहात्म्यादगत्य परया मुदा।
चकार कर्कशां भूयो रूपयौवनशालिनीम्॥ ७.३० ॥

वरैराच्छन्दयामास सातु वव्रे ततो वरम्।
पुत्रं शक्रवधार्थाय समर्थममितौजसम्॥ ७.३१ ॥

वरयामि महात्मानं सर्वामरनिषूदनम्।
उवाच कश्यपो वाक्यमिन्द्रहन्तारमूर्जितम्॥ ७.३२ ॥

प्रदास्याम्यहमेवेह किं त्वेतत्‌ क्रियतां शुभे।
आपस्तम्बः करोत्विष्टिं पुत्रीयामद्य सुव्रते॥ ७.३३ ॥

विधास्यामि ततो गर्भमिन्द्रशत्रुनिषूदनम्।
आपस्तम्बस्ततश्चक्र पुत्रेष्टिन्द्रविणाधिकाम्॥ ७.३४ ॥

इन्द्रशत्रुर्भवस्वेति जुहाव च सविस्तरम्।
देवा मुमुदिरे दैत्या विमुखा स्युश्च दानवाः॥ ७.३५ ॥

दित्यां गर्भमथाधत्त कश्यपः प्राहतां पुनः।
त्वया यत्नो विधातव्यो ह्यस्मिन्‌ गर्भे वरानने॥ ७.३६ ॥

सम्वत्सरशतं त्वेकमस्मिन्नेव तपोवने।
सन्ध्यायां नैव भोक्तव्यं गर्भिण्या वरवर्णिनि!॥ ७.३७ ॥

न स्थातव्यं न गन्तव्यं वृक्षमूलेषु सर्वदा।
नोपस्करेषूपविशेन्मुसलोलूखलादिषु॥ ७.३८ ॥

जले च नावगाहेत शून्यागारञ्च वर्जयेत्।
वल्मीकायां न तिष्ठेत नचोद्विग्नमना भवेत्॥ ७.३९ ॥

विलिखेन्न नखैर्भूमिन्नाङ्गारेण न भस्मना।
न शयालुः सदा तिष्ठेद् व्यायामञ्च विवर्जयेत्॥ ७.४० ॥

न तुषाङ्गारभस्मास्थिकपालिषु समाविशेत्।
वर्जयेत्कलहं लोकैर्गात्रभङ्गं तथैव च॥ ७.४१ ॥

न मुक्तकेशा तिष्ठेत नारुचिः स्यात् कदाचन।
न सयीतोत्तरशिरा नचापरशिराः क्वचित्॥ ७.४२ ॥

न वस्त्रहीना नोद्विग्ना नचार्द्रावरणा सती।
नामङ्गल्यां वदेद्वाचं न च हास्याधिका भवेत्॥ ७.४३ ॥

कुर्य्यात्तु गुरुशुश्रूषां नित्यं माङ्गल्य तत्परा।
सर्व्यौषधीभिः कोणेन वारिणा स्नानमाचरेत्॥ ७.४४ ॥

कृतरक्षा सुभूषा च वास्तु पूजन तत्परा।
तिष्ठेत् प्रसन्नवदना भर्तुः प्रियहिते रता॥ ७.४५ ॥

दानशीला तृतीयायां पार्वण्यं नक्तमाचरेत्।
इति वृत्ताभवेन्नारी विशेषेणतु गर्भिणी॥ ७.४६ ॥

यस्तुतस्या भवेत् पुत्रः शीलायुर्वृद्धिसंयुतः।
अन्यथा गर्भपतनमवाप्नोति न संशयः॥ ७.४७ ॥

तस्मात्‌ त्वमनयावृत्त्या गर्भेऽस्मिन्‌ यत्नमाचर।
स्वस्त्यस्तु ते गमिष्यामि तथेत्युक्तस्तया पुनः॥ ७.४८ ॥

पश्यतां सर्वभूतानां तत्रैवान्तरधीयत।
ततः सा कश्यपोक्तेन विधिना समतिष्ठत॥ ७.४९ ॥

अथ भीतस्तथेन्द्रोऽपि दितेः पार्श्वमुपागमत्।
विहायदेवसदनं तच्छुश्रूषुरवस्थितः॥ ७.५० ॥

दितेश्छिद्रान्तरप्रेप्सुरभवत् पाकशासनः।
विनीतोऽभवदव्यग्रः प्रशान्तवदनो बहिः॥ ७.५१ ॥

अजानन् किल तत्‌ कार्य्यमात्मनः शुभमाचरन्।
ततो वर्षशतान्ते सा न्यूनेतु दिवसैस्त्रिभिः॥ ७.५२ ॥

मेने कृतार्थमात्मानं प्रीत्या विस्मितमानसा।
अकृत्वा पादयोः शौचं प्रसुप्ता मुक्तमूर्धजा॥ ७.५३ ॥

निद्राभरसमाक्रान्ता दिवापरशिराः क्वचित्।
ततस्तदन्तरं लब्ध्वा प्रविष्टस्तु शचीपतिः॥ ७.५४ ॥

वज्रेण सप्तधा चक्रे तं गर्भं त्रिदशाधिपः।
ततः सप्तैव ते जाताः कुमाराः सूर्य्यवर्चसः॥ ७.५५ ॥

रुदन्तः सप्तवेताला निषिद्धा गिरिदारिणा।
भूयोऽपि रुदतश्चैतानेकैकं सप्तधा हरिः॥ ७.५६ ॥

चिच्छेद वृत्रहन्ता वै पुनस्तदुदरे स्थितः।
एवमेकोनपञ्चाशद् भूत्वा ते रुरुदुर्भृशम्॥७.५७

इन्द्रो निवारयामास मा रोदीष्ट पुनः पुनः।
ततः सचिन्तयामास किमेतदितिवृत्रहा। ७.५८

धर्म्मस्य कस्य माहात्म्यात् पुनः सञ्जीवितास्त्वमी।
विदित्वा ध्यानयोगेन मदन द्वादशी फलम्॥ ७.५९ ॥

नूनमेतत् परिणतमधुना कृष्णपूजनात्।
वज्रेणापि हताः सन्तो न विनाशमवाप्नुयुः॥ ७.६० ॥

एकोऽप्यनेकतामाप यस्मादुदरगोप्यलम्।
अवध्या नूनमेते वै तस्माद्देवा भवन्त्विति॥ ७.६१ ॥

यस्मान्मारुदतेत्युक्ता रुदन्तो गर्भसंस्थिताः।
मरुतो नाम ते नाम्ना भवन्तु मखभागिनः॥ ७.६२ ॥

ततः प्रसाद्य देवेशः क्षमस्वेति दितिं पुनः।
अर्थशास्त्रं समास्थाय मयैतद्दुष्कृतं कृतम्॥ ७.६३ ॥

कृत्वा मरुद्गणं देवैः समानममराधिपः।
दितिं विमानमारोप्य ससुतामनयद्दिवम्॥ ७.६४ ॥

यज्ञभागभुजो जाता मरुतस्ते ततो द्विजाः।
न जग्मुरैक्यमसुरैरतस्ते सुरवल्लभाः॥ ७.६५ ॥