कश्यपान्वयवर्णनम्।
सूत उवाच।
कश्यपस्य प्रवक्ष्यामि पत्नीभ्यः पुत्र पौत्रकान्।
अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा तथा॥ ६.१ ॥
सुरभिर्विनता तद्वत्ताम्रा क्रोधवशा इरा।
कद्रूर्विश्वा मुनिस्तद्वत्तासां पुत्रान्निबोधत॥ ६.२ ॥
तुषिता नाम ये देवाश्चाक्षुषस्यान्तरे मनोः।
वैवस्वतेऽन्तरे चैते आदित्या द्वादशस्मृताः॥ ६.३ ॥
इन्द्रो धाता भगस्त्वष्टा मित्रोऽथ वरुणो यमः।
विवस्वान् सवितापूषा अंशुमान् विष्णुरेव च ॥ ६.४ ॥
एते सहस्रकिरणा आदित्या द्वादश स्मृताः।
मारीचात् कश्यपादाप पुत्रानदितिरुत्तमान्॥ ६.५ ॥
भृशाश्वस्य ऋषेः पुत्रा देवप्रहरणाः स्मृताः।
एते देवगणा विप्राः प्रतिमन्वन्तरेषु च॥ ६.६ ॥
उत्पद्यन्ते प्रलीयन्ते कल्पेकल्पे तथैव च।
दितिः पुत्रद्वयं लेभे कश्यपादिति नः श्रुतम्॥ ६.७ ॥
हिरण्यकशिपुञ्चैव हिरण्याक्षं तथैव च।
हिरण्यकशिपोस्तद्वज्जातां पुत्रचतुष्टयम्॥ ६.८ ॥
प्रह्लादश्चानुह्लादश्च संह्लादोह्लाद एव च।
प्रह्लादपुत्र आयुष्मान् शिविर्वाष्कल एव च॥ ६.९ ॥
विरोचनश्चतुर्थश्च स बलिं पुत्रमाप्तवान्।
बलेः पुत्रशतं त्वासीद् बाणज्येष्ठं ततो द्विजाः॥ ६.१० ॥
धृतराष्ट्रस्तथा सूर्यश्चन्द्रश्चन्द्रांशुतापनः।
निकुम्भनाभो गुर्वक्षः कुक्षिभीमो विभीषणः॥ ६.११ ॥
एवमाद्यास्तु बहवो बाणज्येष्ठा गुणाधिकाः।
बाणः सहस्रबाहुश्च सर्वास्त्रगणसंयुतः॥ ६.१२ ॥
तपसा तोषितो यस्य पुरे वसति शूलभृत्।
महाकालत्वमगमत्साम्यं यश्च पिनाकिनः॥ ६.१३ ॥
हिरण्याक्षस्य पुत्रोऽभूदुलूकः शकुनिस्तथा।
भूतसन्तापनश्चैव महानाभस्तथैव च॥ ६.१४ ॥
एतेभ्यः पुत्रपौत्राणां कोटयः सप्तसप्ततिः।
महाबला महाकाया नानारूपा महौजसः॥ ६.१५ ॥
दनुः पुत्रशतं लेभे कश्यपाद् बलदर्पितम्।
विप्रचित्तिः प्रधानोऽभूद्येषां मध्ये महाबलः॥ ६.१६ ॥
द्विमूर्द्धा शकुनिश्चैव तथा शङ्कुशिरोधरः।
अयोमुखः शम्वरश्च कपिशो नामतस्तथा॥ ६.१७ ॥
मारीचिर्मेघवांश्चैव इरा गर्भशिरास्तथा।
विद्रावणश्च केतुश्च केतुवीर्यः शतह्लदः॥ ६.१८ ॥
इन्द्रजित् सप्तजिच्चैव वज्रनाभस्तथैव च।
एकचक्रो महाबाहुर्वज्राक्षस्तारकस्तथा॥ ६.१९ ॥
असिलोमा पुलोमा च विन्दुर्वाणो महासुरः।
स्वर्भानुर्वृषपर्वा च एवमाद्या दनोः सुताः॥ ६.२० ॥
स्वर्भानोस्तु प्रभा कन्या शची चैव पुलोमजा।
उपदानवी मयस्यासीत्तथा मन्दोदरी कुहूः॥ ६.२१ ॥
शर्मिष्ठा सुन्दरी चैव चन्द्रा च वृषपर्वणः।
पुलोमा कालका चैव वैश्वानरसुते हि ते॥ ६.२२ ॥
बह्वपत्ये महासत्वे मारीचस्य परिग्रहे।
तयोः षष्टिसहस्रापि दानवानामभूत्पुरा॥ ६.२३ ॥
पौलोमन् कालकेयांश्च मारीचोऽजनयत्पुरा।
अवध्या येऽमराणां वै हिरण्यपुरवासिनः॥ ६.२४ ॥
चतुर्मुखाल्लब्धवरास्ते हता विजयेन तु।
विप्रचित्तिः सैहिकेयान् सिंहिकायामजीजनत्॥ ६.२५ ॥
हिरण्यकशिपोर्ये वै भागिनेयास्त्रयोदश।
व्यंसः कल्पश्च राजेन्द्र! नलो वातापिरेव च॥ ६.२६ ॥
इल्वलो नमुचिश्चैव श्वसृपश्चाजनस्तथा।
नरकः कालनाभश्च सरमाणस्तथैव च॥ ६.२७ ॥
कालवीर्यश्च विख्यातो दनुवंशविवर्धनाः।
संह्लादयस्य तु दैत्यस्य निवातकवचाः स्मृताः॥ ६.२८ ॥
अबध्याः सर्वदेवानां गन्धर्वोरगरक्षसाम्।
ये हता भर्गमाश्रित्य त्वर्जुनेन रणाजिरे॥ ६.२९ ॥
षट्कन्या जनयामास ताम्रा मारीचवीजतः।
शुकीश्येनीचभासीच सुग्रीवी गृध्रिका शुचिः॥ ६.३० ॥
शुकी शुकानुलूकांश्च जनयामास धर्मतः।
श्येनी श्येनांस्तथा भासी कुररानप्यजीजनत्॥ ६.३१ ॥
गृध्री गृध्रान् कपोतांश्च पारावतविहङ्गमान्।
हंससारसक्रौञ्चांश्च प्लवान् शुचिरजीजनत्॥ ६.३२ ॥
अजाश्वमेषोष्ट्रखरान् सुग्रीवी चाप्यजीजनत्।
एषताम्रान्वयः प्रोक्तो विनतायां निबोधत॥ ६.३३ ॥
गरुडः पततां नाथो अरुणश्च पतत्त्रिणाम्।
सौदामिनी तथा कन्या येयं नभसि विश्रुता॥ ६.३४ ॥
सम्पातिश्च जटायुश्च अरुणस्य तु तावुभौ।
सम्पातिपुत्रो बभ्रुश्च शीघ्रगश्चापि विश्रुतः॥ ६.३५ ॥
जटायुषः कर्णिकारः शतगामी च विश्रुतौ।
सारसो रज्जुबालश्च भेरुण्डश्चापि तत्सुताः॥ ६.३६ ॥
तेषामनन्तमभवत् पक्षिणां पुत्र पौत्रकम्।
सुरसायाः सहस्रन्तु सर्पाणामभवत्पुरा॥ ६.३७ ॥
सहस्रशिरसाङ्कद्रूः सहस्रञ्चापि सुव्रत!।
प्रधानास्तेषु विख्याताः षड्विंशतिररिन्दम॥ ६.३८ ॥
शेषवासुकिकर्कोट शङ्खैरावतकम्बलाः।
धनञ्चयमहानील पद्माश्वतरतक्षकाः॥ ६.३९ ॥
एलापत्रमहापद्मधृतराष्ट्रबलाहकाः।
शङ्खपाल—महाशङ्ख–पुष्पदंष्ट्र–शुभाननाः॥ ६.४० ॥
शङ्करोमा च बहुलो वामनः पाणिनस्तथा।
कपिलोदुर्मुखश्चापि पतञ्जलिरितिस्मृताः॥ ६.४१ ॥
एषामनन्तमभवत् सर्वेषां पुत्र पौत्रकम्।
प्रायशो यत् पुरा दग्धं जनमेजयमन्दिरे॥ ६.४२ ॥
रक्षोगणं क्रोधवशा स्वनामानमजीजनत्।
दंष्ट्रिणां नियुतं तेषां भीमसेनादगात् क्षयम्॥ ६.४३ ॥
रुद्राणाञ्च गणं तद्वद् गोमहिष्यो वराङ्गनाः।
सुरभिर्जनयामास कश्यपात् संयतव्रता॥ ६.४४ ॥
मुनिर्मुनीनाञ्च गणं गणमप्सरसां तथा।
तथा किन्नरगन्धर्व्वानरिष्टाऽजनयदत् बहून्॥ ६.४५ ॥
तृण वृक्ष लता गुल्ममिरा सर्वमजीजनत्!।
विश्वा तु यक्ष रक्षांसि जनयामास कोटिशः॥ ६.४६ ॥
तत एकोनपञ्चाशन्मरुतः कश्यपाद्दितिः।
जनयामास धर्म्मज्ञान् सर्वानमरवल्लभान्॥ ६.४७ ॥