सृष्टिप्रकरणम्।
मनुरुवाच।
अहो कष्टतरञ्चैतदङ्गजागमनं विभो!।
कथं न दोषमगमत् कर्मणानेन पद्मभूः॥ ४.१ ॥
परस्परञ्च सम्बन्धः सगोत्राणामभूत्कथम्।
वैवाहिकस्तत्सुतानाच्छिन्धि मे संशयं विभो॥ ४.२ ॥
दिव्येयमादिसृष्टिस्तु रजोगुणसमुद्भवा।
अतीन्द्रियेन्द्रिया तद्वदतीन्द्रिय शरीरिका।४.३
दिव्यतेजोमयी भूप! दिव्यज्ञानसमुद्भवा।
न मर्त्यैरभितः शक्त्या वक्तुं वै मांसचक्षुभिः॥ ४.४ ॥
यथा भुजङ्गाः सर्पाणामाकाशं विश्वपक्षिणाम्।
विदन्ति मार्गं दिव्यानां दिव्या एव न मानवाः॥ ४.६ ॥
कार्य्याकार्ये न देवानां शुभाशुभफलप्रदे।
यस्मात्तस्मान्न राजेन्द्र! तद्विचारो नृणां शुभः॥ ४.६ ॥
अन्यच्च सर्ववेदानामधिष्ठाता चतुर्मुखः।
गायत्री ब्रह्मणस्तद्वदङ्गभूता निगद्यते॥ ४.७ ॥
अमूर्तं मूर्तिमद्वापि मिथुनं तत्प्रचक्षते।
विरिञ्चिर्यत्र भगवांस्तत्र देवी सरस्वती॥
भारती यत्र यत्रैव तत्र तत्र प्रजापतिः॥ ४.८ ॥
यथा तपो न रहितश्छायया दृश्यते क्वचित्।
गायत्री ब्रह्मणः पार्श्वं तथैव न विमुञ्चति॥ ४.९ ॥
वेदराशिः स्मृतो ब्रह्मा सावित्री तदधिष्ठिता।
तस्मान्नकश्चिद्दोषः स्यात् सावित्री गमने विभो॥ ४.१० ॥
तथापि लज्जावनतः प्रजापतिरभूत् पुरा।
स्वसुतोपगमात् ब्रह्मा शशाप कुसुमायुधम्॥ ४.११ ॥
यस्मान्ममापि भवता मनः सङ्क्षोभितं शरैः।
तस्मात्वद्देहमचिराद्रुद्रो भस्मीकरिष्यति॥ ४.१२ ॥
ततः प्रसादयामास कामदेवश्चतुर्मुखम्।
न मामकारणे शप्तुं त्वमिहार्हसि मानद!॥ ४.१३ ॥
अहमेवंविधः सृष्टस्त्वयैव चतुरानन!।
इन्द्रियक्षोभजनकः सर्वेषामेव देहिनाम्॥ ४.१४ ॥
स्त्रीपुंसोरविचारेण मया सर्वत्र सर्वदा।
क्षोभ्यं मनः प्रयत्नेन त्वयैवोक्तं पुरा विभो॥ ४.१६ ॥
तस्मादनपराधेन त्वयाशप्तस्तथा विभो!।
कुरु प्रसादं भगवन्! स्वशरीराप्तये पुनः॥ ४.१६ ॥
ब्रह्मोवाच।
वैवस्वतेऽन्तरे प्राप्ते यादवान्वयसम्भवः।
रामो नाम यदा मर्त्यो मत्सत्वबलमाश्रितः॥ ४.१७ ॥
अवतीर्य्यासुरध्वंसी द्वारकामधिवत्स्यति।
तद् भ्रातुस्तत्समस्य त्वन्तदा पुत्रत्वमेष्यसि॥ ४.१८ ॥
एवं शरीरमासाद्य भुक्त्वा भोगानशेषतः।
ततो भरतवंशान्ते भूत्वा वत्स नृपात्मजः॥ ४.१९ ॥
विद्याधराधिपत्वं च यावदाभूतसम्प्लवम्।
सुखानि धर्म्मतः प्राप्य मत्समीपङ्गमिष्यसि॥ ४.२० ॥
एवं शापप्रसादाभ्यामुपेतः कुसुमायुधः।
शोकप्रमोदाभियुतो जगाम स यथागतम्॥ ४.२१ ॥
मनुरुवाच।
कोऽसौ यदुरिति प्रोक्तो यद्वंशे कामसम्भवः।
कथञ्च दग्धो रुद्रेण किमर्थं कुसुमायुधः॥ ४.२२ ॥
भरतस्यान्वये कस्य का च सृष्टिः पुराभवत्।
एतत्सर्वं समाचक्ष्व मूलतः संशयो हि मे॥ ४.२३ ॥
मत्स्य उवाच।
या सा देहार्घसम्भूता गायत्री ब्रह्मवादिनी।
जननी या मनोर्देवी शतरूपा शतेन्द्रिया॥ ४.२४ ॥
रतिर्मनस्तपो बुद्धि महदादि समुद्भवः।
ततः स शतरूपायां सप्तापत्यान्यजीजनत्॥ ४.२६ ॥
ये मरीच्यादयः पुत्रा मानसास्तस्य धीमतः।
तेषामयमभूल्लोकः सर्वज्ञानात्मकः पुरा॥ ४.२६ ॥
ततोऽसृजद्वामदेवं त्रिशूलवरधारिणम्!।
सनत्कुमारं च विभुं पूर्वेषामपि पूर्वजम्॥ ४.२७ ॥
वामदेवस्तु भगवानसृजन् मुखतो द्विजान्।
राजन्यानसृजद् बाह्वोर्विट्शूद्रानूरुपादयोः॥ ४.२८ ॥
विद्युतोऽशनिमेघाश्च रोहितेन्द्रधनूंषि च।
च्छदांसि स ससर्जादौ पर्जन्यं च ततः परम्॥ ४.२९ ॥
ततः साध्यगणानीशस्त्रिनेत्रानसृजत् पुनः।
कोटयश्चतुराशीतिर्जरामरणवर्जिताः॥ ४.३० ॥
वामोऽसृजन्नमर्त्यांस्तान् ब्रह्मणाविनिवारितः।
नैवंविधाभवेत् सृष्टिर्जरामरणवर्जिता॥ ४.३१ ॥
शुभाशुभात्मिका यातु सैव सृष्टिः प्रशस्यते।
एवं स्थितः स तेनादौ सृष्टौ स्थाणुरतोऽभवत्॥ ४.३२ ॥
स्वायम्भुवो मनुर्धीमांस्तपस्तप्त्वा सुदुश्चरम्।
पत्नीमेवापरूपाढ्यामनन्तीं नाम नामतः॥ ४.३३ ॥
प्रियव्रतोत्तानपादौ मनुस्तस्यामजीजनत्।
धर्मस्य कन्या चतुरा सूनृता नाम भामिनी॥ ४.३४ ॥
उत्तानपादात्तनयान् प्राप मन्थरगामिनी।
अपस्यतिमपस्यन्तं कीर्तिमन्तं ध्रुवं तथा॥४.३६
उत्तानपादोऽजनयत् सूनृतायां प्रजापतिः।
ध्रुवो वर्षसहस्राणि त्रीणि कृत्वातपः पुरा॥ ४.३६ ॥
दिव्यमाप ततः स्थानमचलं ब्रह्मणो वरात्।
मतेव पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः॥ ४.३७ ॥
धन्या नाम मनोः कन्या ध्रुवाच्छिष्टमजीजनत्।
अग्निकन्या तु सुच्छाया शिष्टात्मा सुषुवे सुतान्॥ ४.३८ ॥
कृपं रिपुं जयं वृत्तं वृकं च वृकतेजसम्।
चक्षुषं ब्रह्मदौहित्र्यां वीरिण्यां स रिपुञ्जयः॥ ४.३९ ॥
वीरणस्यात्मजायान्तु चक्षुर्मनुमजीजनत्।
मनु र्वैराजकन्यायां नड्वलायां स चाक्षुषः॥ ४.४० ॥
जनयामास तनयान्दश शूरानकल्मषान्।
ऊरुः पूरुः शतद्युग्न स्तपस्वी सत्यवाक् हविः॥ ४.४१ ॥
अग्निष्टुदतिरात्रश्च सुद्युम्नश्चापराजितः।
अभिमन्युस्तु दशमो ऩड्वलायामजायत॥ ४.४२ ॥
ऊरोरजनयत् पुत्रान् षडाग्नेयी तु सुप्रभान्।
अग्निं सुमनसङ्ख्यातिं क्रतुमङ्गिरसं गयम्॥ ४.४३ ॥
पितृकन्या सुनीथातु वेनमङ्गादजीजनत्।
वेनमन्यायितं विप्रा ममन्थुस्तत्करादभूत्॥
पृथुर्नाम महातेजाः स पुत्रौ द्वावजीजनत्॥ ४.४४ ॥
अन्तर्धानस्तु मारीचं शिखण्डिन्यामजीजनत्।
हविर्धानात् षडाग्नेयी धिषणाऽजनयत् सुतान्॥
प्राचीनबर्हिषं साङ्गं यमं शुक्रं बलं शुभम्॥ ४.४६ ॥
प्राचीनबर्हिर्भगवान् महानासीत्प्रजापतिः।
हविर्धानाः प्रजास्तेन बहवः सम्प्रवर्त्तिताः॥ ४.४६ ॥
सवर्णायान्तु सामुद्र्यान्दशाधत्त सुतान् प्रभुः।
सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः॥ ४.४७ ॥
तत्तपो रक्षिता वृक्षा बभुर्लोके समन्ततः।
देवादेशाश्च तानग्निरदहद्रविनन्दन!॥ ४.४८ ॥
सोमकन्याऽभवत्पत्नी मारिषा नाम विश्रुता।
तेभ्यस्तु दक्षमेकं सा पुत्र मग्र्यमजीजनत्॥ ४.४९ ॥
दक्षादनन्तरं वृक्षानौषधानि च सर्वशः।
अजीजनत्सोमकन्या नन्दीं चन्द्रवतीं तथा॥ ४.६० ॥
सोमांशस्य च तस्यापि दक्षस्याशीतिकोटयः।
तासां तु विस्तरं वक्ष्ये लोके यः सुप्रतिष्ठितः॥ ४.६१ ॥
द्विपदश्चाभवन् केचित् केचिद् बहुपदा नराः।
बलीमुखाः शङ्कुकर्णाः कर्णप्रावरणास्तथा॥ ४.६२ ॥
अश्वऋक्षमुखाः केचित् केचित् सिंहाननास्तथा।
श्वशूकरमुखाः केचित् केचिदुष्ट्रमुखास्तथा॥ ४.६३ ॥
जनयामास धर्मात्मा म्लेच्छान् सर्व्वाननेकशः।
ससृष्ट्वा मनसा दक्षः स्त्रियः पश्चादजीजनत्॥ ४.६४ ॥
ददौ स दश दर्माय कश्यपाय त्रयोदश।
सप्तविंशतिः सोमाय ददौ नक्षत्रसञ्ज्ञिताः॥
देवासुरमनुष्यादि ताभ्यः सर्वमभूज्जगत्॥ ४.६६ ॥