सृष्टिप्रकरणम्।
मनुरुवाच।
चतुर्मुखत्वमगमत् कस्माल्लोकपितामहः।
कथं तु लोकानसृजत् ब्रह्मा ब्रह्मविदाम्वरः॥ ३.१ ॥
तपश्चचार प्रथमममराणां पितामहः।
आविर्भूतास्ततो वेदाः साङ्गोपाङ्गपदक्रमाः॥ ३.२ ॥
पुराणं सर्वशास्त्राणं प्रथमं ब्रह्मणा स्मृतम्।
नित्यं शब्दमयं पुण्यं शतकोटिप्रविस्तरम्॥ ३.३ ॥
अनन्तरञ्च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः।
मीमांसान्यायविद्याश्च प्रमाणाष्टक संयुताः॥ ३.४ ॥
वेदाभ्यासरतस्यास्य प्रजाकामस्य मानसाः।
मनसः पूर्वसृष्टा वै जातायत्तेन मानसाः॥ ३.५ ॥
मरीचिरभवत् पूर्व ततोऽत्रिर्भगवान् ऋषिः।
अङिगराश्चाभवत्पश्चात् पुलस्त्यस्तदनन्तरम्॥ ३.६ ॥
ततः पुलहनामा वै ततः क्रतुरजायत।
प्रचेताश्च ततः पुत्रो वशिष्ठश्चाभवत् पुनः॥ ३.७ ॥
पुत्रो भृगुरभूत्तद्वन्नारदोऽप्यचिरादभूत्।
दशेमान् मानसान् ब्रह्मा मुनीन् पुत्रानजीजनत्॥ ३.८ ॥
शारीरानथ वक्ष्यामि मातृहीनान् प्रजापतेः।
अङ्गुष्ठाद्दक्षिणाद्दक्षः प्रजापतिरजायतः॥ ३.९ ॥
धर्मस्तनान्तादभवत् हृदयात् कुसुमायुधः।
भ्रूमध्यादभवत् क्रोधो लोभश्चाधरसम्भवः॥ ३.१० ॥
बुद्धे र्मोहः समभवदहङ्कारादभून्मदः।
प्रमोदश्चाभवत्कण्ठान् मृत्युर्लोचनतो नृप॥ ३.११ ॥
भरतः करमध्यात्तु ब्रह्मसूनुरभूत्ततः।
एते नव! सुताः राजन्! कन्या च दशमी पुनः॥
अङ्गजा इति विख्याता दशमी ब्रह्मणः सुता॥ ३.१२ ॥
मनुरुवाच।
बुद्धेर्मोहः समभवदिति यत्परिकीर्त्तितम्।
अहङ्कारः स्मृतः क्रोधो बुद्धिर्नाम किमुच्यते॥ ३.१३ ॥
मत्स्य उवाच।
सत्वं रजस्तमश्चैव गुणत्रयमुदाहृतम्।
साम्यावस्थितिरेतेषां प्रकृतिः परिकीर्तिता॥ ३.१४ ॥
केचित् प्रधानमित्याहुरव्यक्तमपरै जगुः।
एतदेव प्रजासृष्टिं करोति विकरोति च॥ ३.१५ ॥
गुणेभ्यः क्षोभमाणेभ्य स्त्रयो देवा विजज्ञिरे।
एकामूर्तिस्त्रयो भागा ब्रह्मविष्णुमहेश्वराः॥ ३.१६ ॥
स विकारात् प्रधानात्तु महत्तत्त्वं प्रजायते।
महानिति यतः ख्यातिर्लोकानां जायते सदा॥ ३.१७ ॥
अहङ्कारश्च महतो जायते मानवर्धनः।
इन्द्रियाणि ततः पञ्च वक्ष्ये बुद्धिवशानि तु॥
प्रादुर्भवन्ति चान्यानि तथा कर्म्मवशानि तु॥ ३.१८ ॥
श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका च यथाक्रमम्।
पायूपस्थं हस्तपादं वाक्चेतीन्द्रियसङ्ग्रहः॥ ३.१९ ॥
शब्दः स्पर्शश्च रूपञ्च रसोगन्धश्च पञ्चमः।
उत्सर्गानन्दनादान गत्यालापाश्च तत्क्रियाः॥ ३.२० ॥
मन एकादशं तेषां कर्म्मबुद्धिगुणान्वितम्।
इन्द्रियावयवाः सूक्ष्मास्तस्य मूर्तिमनीषिणः॥ ३.२१ ॥
श्रयन्ति यस्मात्तन्मात्राः शरीरं तेन संस्मृतम्।
शरीरयोगाज्जीवोऽपि शरीरीगद्यतेबुधैः॥ ३.२२ ॥
मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया।
आकाशं शब्दतन्मात्रादभूच्छव्दगुणात्मकम्॥ ३.२३ ॥
आकाशविकृतेर्वायुः शब्दस्पर्शगुणोऽभवत्।
वायोश्च स्पर्शतन्मात्रात्तेजश्चाविरभूत्ततः॥ ३.२४ ॥
त्रिगुणं तद्विकारेण तच्छब्दस्पर्शरूपवत्।
तेजोविकारादभवद्वारि राजं श्चतुर्गुणम्॥ ३.२५ ॥
रसतन्मात्रसम्भूतं प्रायो रसगुणात्मकम्।
भूमिस्तु गन्धतन्मात्रादभूत्पञ्चगुणान्विता॥ ३.२६ ॥
प्रायो गन्धगुणा सा तु बुद्धिरेषा गरीयसी।
एभिः सम्पादितं भुङ्क्ते पुरुषः पञ्चविंशकः॥ ३.२७ ॥
ईश्वरेच्छावशः सोऽपि जीवात्मा कथ्यते बुधैः।
एवं षड्विंशकं प्रोक्तं शरीर इह मानवे॥ ३.२८ ॥
साङ्ख्यं सङ्ख्यात्मकत्वाच्च कपिलादिभिरुच्यते।
एतत्तत्त्वात्मकं कृत्वा जगद्वेधा अजीजनत्॥ ३.२९ ॥
सावित्रीं लोकसृष्ट्यर्थं हृदि कृत्वा समास्थितः।
ततः सञ्जपतस्तस्य भित्वा देहमकल्मषम्॥ ३.३० ॥
स्त्रीरूपमर्द्धमकरोदर्द्धं पुरुषरुपवत्।
शतरूपा च सा ख्याता सावित्री च निगद्यते॥ ३.३१ ॥
सरस्वत्यथ गायत्री ब्रह्माणी च परन्तप!।
ततः स्वदेहसम्भूतामात्मजामित्यकल्पयत्॥ ३.३२ ॥
दृष्ट्वा तां व्यथितस्तावत्कामबाणार्दितो विभुः।
अहो रूपमहोरूपमितिचाह प्रजापतिः॥ ३.३३ ॥
ततो वशिष्ठप्रमुखाः भगिनीमिति चुक्रुशुः।
ब्रह्मा न किञ्चिद्ददृशे तन्मुखालोकनादृते॥ ३.३४ ॥
अहो रूपमहोरूपमिति प्राह पुनः पुनः।
ततः प्रणामनम्रान्तां पुनरेवाभ्यलोकयत्॥ ३.३५ ॥
अथ प्रदक्षिणं चक्रे सा पितुर्वरवर्णिनी।
पुत्रेभ्यो लज्जितस्यास्य तद्रूपालोकनेच्छया॥ ३.३६ ॥
आविर्भूतं ततो वक्त्रं दक्षिणं पाण्डुगण्डवत्।
विस्मयस्फुरदोष्ठञ्च पाश्चात्यमुदगात्ततः॥ ३.३७॥
चतुर्थमभवत्पश्चाद्वामं कामशरातुरम्।
ततोऽन्यदभवत्तस्य कामातुर तया तथा॥ ३.३८ ॥
उत्पतन्त्यास्तदाकारा आलोकन कुतूहलात्।
सृष्ट्यर्थं यत् कृतं तेन तपः परमदारुणम्॥ ३.३९ ॥
तत् सर्वं नाशमगमत् स्वसुतोपगमेच्छया।
तेनोर्ध्वं वक्त्रमभवत् पञ्चमं तस्य धीमतः॥
आविर्भवज्जटाभिश्च तद्वक्त्रञ्ञ्चावृणोत्प्रभुः॥ ३.४०॥
ततस्तानब्रवीत् ब्रह्मा पुत्रानात्मसमुद्भवान्।
प्रजाः सृजध्वमभितः सदेवासुरमानुषी॥ ३.४१ ॥
एवमुक्तास्ततः सर्वे ससृजुर्विविधाः प्रजाः।
गतेषु तेषु सृष्ट्यर्थं प्रणामावनतामिमाम्॥ ३.४२ ॥
उपयेमे स विश्वात्मा शतरूपामनिन्दिताम्।
सम्बभूव तया सार्द्धमतिकामातुरो विभुः॥
सलज्जाञ्चकमे देवः कमलोदरमन्दिरे॥ ३.४३ ॥
यावदब्दशतं दिव्यं यथान्यः प्राकृतो जनः।
ततः कालेन महता तस्याः पुत्रोऽभवन्मनुः॥३.४४
स्वायम्भुव इति ख्यातः स विराडिति नः श्रुतम्।
तद्रूपगुणसामान्यादधिपूरुष उच्यते॥ ३.४५ ॥
वैराजा यत्र ते जाता बहवः शंसितव्रताः।
स्वायम्भुवा महाभागाः सप्त सप्त तथापरे॥ ३.४६ ॥
स्वारोचिषाद्याः सर्वे ते ब्रह्मतुल्यस्वरूपिणः।
औत्तमिप्रमुखास्तद्वद्येषान्त्वं सप्तमोऽधुना॥ ३.४९ ॥