श्री कैशिकपुराणं
विश्वास-प्रस्तुतिः
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
मूलम्

यस्य द्विरदवक्त्राद्याः पारिषद्याः परश्शतम्।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये॥

एतत् त्रैलोक्य निर्माण त्राण संहार कारणम्।
श्रीमत् श्रीरङ्गनाथस्य शासनं शाश्वतं परम्॥

श्रीमत् श्रीरङ्गनायक्याः श्रियस्त्रैलोक्यमङ्गलम्।
परावरेस्वश्वर शिरः चूडासञ्चारि शासनम्॥

रामानुज-दयापात्रं ज्ञानवैराग्य भूषणम्।
श्रीमद्वेङ्कटनाथार्य वन्दे वेदान्तदेशिकम्॥
मूलम्
रामानुजदयापात्रं ज्ञानवैराग्य भूषणम्।
श्रीमद्वेङ्कटनाथार्य वन्दे वेदान्तदेशिकम्॥
विश्वास-प्रस्तुतिः
नमस्तेऽस्तु वराहाय लीलयोद्धरते महीम्।
खुरमध्यगतो यस्य मेरुः कणकणायते॥
मूलम्
नमस्तेऽस्तु वराहाय लीलयोद्धरते महीम्।
खुरमध्यगतो यस्य मेरुः कणकणायते॥
विश्वास-प्रस्तुतिः
प्रलयोदन्वद्-उत्तीर्णां प्रपद्येऽहं वसुन्धराम्।
महावराह द्रंष्ट्राग्र-मल्लीकोश मधुव्रताम्॥
मूलम्
प्रलयोदन्वदुत्तीर्णां प्रपद्येऽहं वसुन्धराम्।
महावराह द्रंष्ट्राग्र-मल्लीकोश मधुव्रताम्॥
श्रीवराह उवाच
विश्वास-प्रस्तुतिः
जागरे तु विशालाक्षि जानतो वाऽप्य् अजानतः।
यो मे प्रगायते गेयं मम भक्त्या व्यवस्थितः॥ 1॥
मूलम्
जागरे तु विशालाक्षि जानतो वाऽप्यजानतः।
यो मे प्रगायते गेयं मम भक्त्या व्यवस्थितः॥ 1॥
विश्वास-प्रस्तुतिः
यावन्ति त्वक्षराण्यस्य गीयमाने यशस्विनि।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते॥ 2॥

रूपवान् गुणवान् शुद्धः सर्वधर्मभृतां वरः।
नित्यं पश्यति वै शक्रं वज्रहस्तं न संशयः॥ 3॥

मद्भक्तश्चापि जायेत इन्द्रेणैकपदे स्थितः।
सर्वधर्मगुणश्रेष्ठः तत्रापि मम लुब्धकः॥ 4॥

इन्द्रलोकात् परिभ्रष्टो मम गेयपरायणः।
प्रमुक्तः सर्वसंसारैर्मम लोकं च गच्छति॥ 5॥

एवं तु वचनं श्रुत्वा तत्प्रसादाद्वसुन्धरा।
वराहरूपिणं देवं प्रत्युवाच शुभानना॥ 6॥

अहो गीतप्रभावो वै यस्त्वया परिकीर्तितः।
कश्च गीतप्रभावेन सिद्धिं प्राप्तो महातपाः॥ 7॥
मूलम्
अहो गीतप्रभावो वै यस्त्वया परिकीर्तितः।
कश्च गीतप्रभावेन सिद्धिं प्राप्तो महातपाः॥ 7॥
श्रीवराह उवाच
विश्वास-प्रस्तुतिः
श्रुणु तत्त्वेन ते देवि कथ्यमानं यशस्विनम्।
यस्तु गीतप्रभावेन सिद्धिं प्राप्तो महातपाः॥ 8॥

अस्ति दक्षिणदिग्भागे महेन्द्रो नाम पर्वतः।
तत्र क्षीरनदी पुण्या दक्षिणे सागरसङ्गमा॥ 9॥

तत्र सिद्धाश्रमे भद्रे चण्डालः कृतनिश्चयः।
दूराज्जागरणे गाति मम भक्त्या व्यवस्थितः॥ 10॥

एवं तु गायमानस्य गतास्संवत्सरा दश।
श्वपाकस्य गुणज्ञस्य मद्भक्तस्य वसुन्धरे॥ 11॥

कौमुदस्य तु मासस्य द्वादश्यां शुक्लपक्षके।
सप्ते जने गते यामे वीणामादाय निर्ययौ॥ 12॥

ततो वर्त्मनि चण्डालो गृहीतो ब्रह्मरक्षसा।
अल्पप्राणः श्वपाको वै बलवान् ब्रह्मराक्षसः॥ 13॥

दुःखेन स तु सन्तप्तो न च शक्तो विचेष्टितुम्।
उवाच वचनं मन्दं मातङ्गो ब्रह्मराक्षसम्॥ 14॥

गच्छामि सन्तोषयितुमहम् जागरणे हरिम्।
गानेन पुण्डरीकाक्षं ब्रह्मराक्षस मुञ्च माम्॥ 15॥

एवमुक्तः श्वपाकेन बलवान् ब्रह्मराक्षसः।
अमर्षवशमापन्नो न च किञ्चित् तमब्रवीत्॥ 16॥

आत्मानं प्रतिधावन्तं चण्डालः ब्रह्मराक्षसम्।
किं त्वया चेष्टितव्यं मे य एवं परिधावसि॥ 17॥

श्वपाकवचनं श्रुत्वा ततो वै ब्रह्मराक्षसः।
उवाच वचनं घोरं मानुषाहारलोलुपः॥ 18॥

अद्य मे दशरात्रं वै निराहारस्य गच्छतः।
धात्रा त्वम् विहितो मह्यमाहारः परितो मम॥ 19॥

अद्य त्वां भक्षयिष्यामि सवसामांसशोणितम्।
तर्पयित्वा यथान्यायं यास्यामि च यथेप्सितम्॥ 20॥

ब्रह्मरक्षोवचः श्रुत्वा श्वपाको गीतलालसः।
राक्षसं छन्दयामास मम भक्त्या व्यवस्थितः॥ 21॥

श्रुणु तत्त्वं महाभाग भक्ष्योऽहं समुपागतः।
अवश्यमेतत् कर्तव्यं धात्रा दत्तं यथा तव॥ 22॥

पश्चात्खादसि मां रक्षो जागरे विनिवर्तिते।
विष्णोः सन्तोषणार्थाय ममैतत् व्रतमुत्तमम्॥ 23॥

रक्ष मां व्रतभङ्गाद्वै देवं नारायणं प्रति।
जागरे विनिवृत्ते तु मां भक्षय यथेप्सितम्॥ 24॥

श्वपाकस्य वचः श्रुत्वा ब्रह्मरक्षः क्षुधाऽर्दितम्।
उवाच मधुरं वाक्यं श्वपाकं तदनन्तरम्॥ 25॥

मोघम् भाषसि चण्डाल पुनरेष्याम्यहं त्विति।
को हि रक्षोमुखाद्भ्रष्टस्तन्मुखायाभिवर्धते॥ 26॥

बहवः सन्ति पन्थानो देशाश्च बहवस्तथा।
आत्मदेशं परित्यज्य परेषां गन्तुमिच्छसि॥ 27॥

स्व शरीरविनाशाय न चागच्छति कश्चन।
रक्षसो मुखविभ्रष्टः पुनरागन्तुमिच्छसि॥ 28॥

राक्षसस्य वचः श्रुत्वा चण्डालो धर्मसंश्रितम्।
उवाच मधुरं वाक्यं राक्षसं पिशिताशनम्॥ 29॥

यद्यप्यहं हि चण्डालः पूर्वकर्मविदूषितः।
प्राप्तोऽहं मानुषं भावं विदितेनान्तरात्मना॥ 30॥

श्रुणु तत्समयं रक्षो येनागच्छाम्यहम् पुनः।
दूराज्जागरणं कृत्वा लोकनाथस्य तृप्तये॥ 31॥

सत्यमूलं जगत्सर्वम् लोकस्सत्ये प्रतिष्ठितः।
नाहं मिथ्या प्रवक्ष्यामि सत्यमेव वदाम्यहम्॥ 32॥

अद्य मे समयस्तत्र ब्रह्मराक्षस तम् श्रुणु।
शपामि सत्येन गतो यद्यहम् नागमे पुनः॥ 33॥

यो गच्छेत् परदारांश्च काममोहप्रपीडितः।
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः॥ 34॥

पाकभेदं तु यः कुर्यादात्मनश्चोपभुञ्जतः।
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः॥ 35॥

दत्वा वै भूमिदानं तु पुनराच्छिन्दतीह यः।
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः॥ 36॥

स्त्रियं भुक्त्वा रूपवतीं पुनर्यस्तां विनिन्दति।
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः॥ 37॥

योऽमावास्यां विशालाक्षि श्राद्धं कृत्वा स्त्रियं व्रजेत्।
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः॥ 38॥

भुक्त्वा परस्य चान्नानि यस्तं निन्दति निर्घृणः।
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः॥ 39॥

यस्तु कन्यां ददामीति पुनस्तां न प्रयच्छति।
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः॥ 40॥

पष्ट्यष्टम्योरमावास्याचतुर्दश्योश्च नित्यशः।
अस्नातानां गतिम् गच्छे यद्यहम् नागमे पुनः॥ 41॥

दास्यामीति प्रतिश्रुत्य न च यस्तत्प्रयच्छति।
गतिम् तस्य प्रपद्ये वै यद्यहम् नागमे पुनः॥ 42॥

मित्रभार्यां तु यो गच्छेत् कामबाणवशानुगः।
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः॥ 43॥

गुरुपत्नीं राजपत्नीं ये तु गच्छन्ति मोहिताः।
तेषां गतिम् प्रपद्ये वै यद्यहम् नागमे पुनः॥ 44॥

यो वै दारद्वयं कृत्वा एकस्यां प्रीतिमान् भवेत्।
गतिम् तस्य प्रपद्ये वै यद्यहम् नागमे पुनः॥ 45॥

अनन्यशरणां भार्यां यौवने यः परित्यजेत्।
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः॥ 46॥

गोकुलस्य तृषार्तस्य जलार्थमभिधावतः।
विघ्नमाचरते यस्तु तत्पापं स्यादनागमे॥ 47॥

ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा।
या गतिर्विहिता सद्भिः तत्पापं स्यादनागमे॥ 48॥

वासुदेवं परित्यज्य येऽन्यं देवमुपासते।
तेषां गतिम् प्रपद्ये वै यद्यहम् नागमे पुनः॥ 49॥

नारायणमथान्यैस्तु देवैस्तुल्यं करोति यः।
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः॥ 50॥

चण्डालवचनं श्रुत्वा परितुष्टस्तु राक्षसः।
उवाच मधुरं वाक्यं गच्छ शीघ्रं नमोऽस्तु ते॥ 51॥

राक्षसेन विनिर्मुक्तश्चण्डालः कृतनिश्चयः।
पुनर्गायति मह्यं वै मम भक्त्या व्यवस्थितः॥ 52॥

अथ प्रभाते विमले विनिवृत्ते तु जागरे।
नमो नारायणेत्युक्त्वा श्वपाकः पुनरागमत्॥ 53॥

गच्चतस्त्वरितं तस्य पुरुषः पुरतः स्थितः।
उवाच मधुरं वाक्यं श्वपाकं तदनन्तरम्॥ 54॥

कुतो गच्छसि चण्डाल दृतम् गमननिश्चितम्।
एतदाचक्ष्व तत्त्वेन यत्र ते वर्तते मनः॥ 55॥

तस्य तद्वचनं श्रुत्वा श्वपाकः सत्यसंमतः।
उवाच मधुरं वाक्यं पुरुषम् तदनन्तरम्॥ 56॥

समयो मे कृतो यत्र ब्रह्मराक्षससन्निधौ |
तत्राहं गन्तुमिच्छामि यत्रासौ ब्रह्मराक्षसः॥ 57॥
विश्वास-प्रस्तुतिः
श्वपाकवचनं श्रुत्वा पुरुषो भावशोधकः।
उवाच मधुरं वाक्यं श्वपाकं तदनन्तरम्॥ 58॥

न तत्र गच्छ चण्डाल मार्गेणानेन सुव्रत।
तत्रासौ राक्षसः पापः पिशिताशी दुरासदः॥ 59॥

पुरुषस्य वचः श्रुत्वा श्वपाकः सत्यसङ्गरः।
मरणं तत्र निश्चित्यमधुरं वाक्यमब्रवीत्॥ 60॥

नाहमेवं करिष्यामि यन्मां त्वं परिपृच्छसि।
अहं सत्ये प्रवृत्तो वै शीलं सत्ये प्रतिष्ठितम्॥ 61॥

ततस्स पद्मपत्राक्षः श्वपाकं प्रत्युवाच ह।
यद्येवं निश्चयस्तात स्वस्ति तेऽस्तु गमिष्यतः॥ 62॥

ब्रह्मरक्षोन्तिकं प्राप्य सत्येऽसौ कृतनिश्चयः।
उवाच मधुरं वाक्यं राक्षसं पिशिताशनम्॥ 63॥

भवता समनुज्ञातो गानं कृत्वा यथेप्सया।
विष्णवे लोकनाथाय मम पूर्णो मनोरथः।
एतानि मम चाङ्गानि भक्षयस्व यथेच्छया॥ 64॥
विश्वास-प्रस्तुतिः
श्वपाकवचनं श्रुत्वा ब्रह्मरक्षो भयानकम्।
उवाच मधुरं वाक्यं श्वपाकं संशितव्रतम्॥ 65॥

त्वमद्य रात्रोउ चण्डाल विष्णोर्जागरणं प्रति | trou
फलं गीतस्य मे देहि जीवितुम् यदि चेच्छसि॥ 66॥
ब्रह्मरक्षो वचः श्रुत्वा श्वपाकः पुनरब्रवीत्॥ 67॥
विश्वास-प्रस्तुतिः
यत् त्वया भाषितं पूर्वं मया सत्यं च यत्कृतम्।
भक्षयस्व यथेच्छं मां दद्यां गीतफलं न तु॥ 68॥

चण्डालस्य वचः श्रुत्वा हेतुयुक्तमनन्तरम्।
उवाच मधुरं वाक्यं चण्डालं ब्रह्मराक्षसः॥ 69॥

अथवाऽर्धम् तु मे देहि पुण्यं गीतस्य यत्फलम्।
ततो मोक्ष्यामि कल्याण भक्षादस्माद्विभीषनात्॥ 70॥

ब्रह्मरक्षो वचः श्रुत्वा श्वपाकः संशितव्रतः।
वाणीं श्लक्ष्णां समादाय ब्रह्मराक्षसमब्रवीत्।
भक्षयामीति संश्रुत्य गीतमन्यत् किमिच्छसि॥ 71॥
विश्वास-प्रस्तुतिः
श्वपाकस्य वचः श्रुत्वा ब्रह्मरक्षो भयावहम्।
उवाच मधुरं वाक्यं श्वपाकं संशितव्रतम्॥ 72॥

एकयामस्य मे देहि पुण्यं गीतस्य यत्फलम्।
ततो यास्यसि कल्याण सङ्गमम् पुत्रदारकैः॥ 73॥

श्रुत्वा राक्षस वाक्यानि चण्डालो गीतलालसः।
उवाच मधुरं वाक्यं राक्षसं कृतनिश्चयः॥74॥

न यामस्य फलं दद्यां ब्रह्मरक्षस्तवेप्सितम्।
पिबस्व शोणितं मह्यं यत् त्वया पूर्वभाषितम्॥ 75॥

श्वपाकस्य वचः श्रुत्वा राक्षसः पिशिताशनः।
सत्यवन्तं गुणज्ञञ्च चण्डालमिदमब्रवीत्॥ 76॥

एकं गीतस्य मे देहि यत् त्वया विष्णुसंसदि॥ 77॥
निग्रहात्तारयास्माद्वैतेन गीतफलेन माम् |
एवमुक्त्वा तु चण्डालं राक्षसश्शरणं गतः॥ 78॥
विश्वास-प्रस्तुतिः
श्रुत्वा राक्षस वाक्यानि श्वपाकः संशितव्रतः।
उवाच मधुरं वाक्यं राक्षसं पिशिताशनम्॥ 79॥

किं त्वया दुष्कृतं कर्म कृतपूर्वं तु राक्षसः।
कर्मणो यस्य दोषेण राक्षसीं योनिमाश्रितः॥ 80॥

एवमुक्तः श्वपाकेन पूर्ववृत्तमनुस्मरन्।
राक्षसः शरणङ्गत्वा श्वपाकमिदमब्रवीत्॥ 81॥

नाम्ना वै सोमशर्माऽहं चरको ब्रह्मयोनिजः।
सूत्रमन्त्र परिभ्रष्टो यूपकर्मण्यधिष्ठितः॥ 82॥

ततोऽहं कारये यज्ञं लोभमोहप्रपीडितः।
यज्ञे प्रवर्तमाने तु शूलदोषस्त्वजायत॥ 83॥

अथ पञ्चमरात्रे तु असमाप्ते क्रतावहम्।
अकृत्वा विमलं कर्म ततः पञ्चत्वमागतः॥ 84॥

तस्य यज्ञस्य दोषेण मातङ्ग श्रुणु यन्मम।
जातोऽस्मि राक्षसस्तत्र ब्राह्मणो ब्रह्मराक्षसः॥ 85॥

एवं तु यज्ञदोषेण वपुः प्राप्तमिदं मम।
इत्युक्त्वा तु तदा रक्षः श्वपाकं शरणं गतम्॥ 86॥
मूलम्
एवं तु यज्ञदोषेण वपुः प्राप्तमिदं मम।
इत्युक्त्वा तु तदा रक्षः श्वपाकं शरणं गतम्॥ 86॥
विश्वास-प्रस्तुतिः
ब्रह्मरक्षो वचः श्रुत्वा श्वपाकः संशितव्रतः।
बाढमित्यब्रवीद्वाक्यं ब्रह्मराक्षसचोदितः॥ 87॥

यन्मया पश्चिमं गीतं स्वरं कैशिकमुत्तमम्।
फलेन तस्य भद्रं ते मोक्षयिष्यामि किल्बिषात्॥ 88॥

श्री वराह उवाच
विश्वास-प्रस्तुतिः
यस्तु गायति भक्त्या वै कैशिकं मम संसदि।
स तारयति दुर्गाणि श्वपाको राक्षसं यथा॥ 89॥

एवं तत्र वरं गृह्य राक्षसो ब्रह्मसंस्थितः।
जातस्तु विमले वंशे मम लोकञ्च गच्छति॥ 90॥

श्वपाकश्चापि सुश्रोणि मम चैवोपगायकः।
कृत्वा तु विपुलं कर्म स ब्रह्मत्वमुपागतः॥ 91॥

एतद्गीतफलं देवि कौमुदद्वादशीं पुनः।
यस्तु गायति स श्रीमान् मम लोकञ्च गच्छति॥ 92॥

श्रीकैशिकपुराणं समाप्तम्