कूर्म उवाच
विश्वास-प्रस्तुतिः
अतः परं प्रवक्ष्यामि प्रतिसर्गमनुत्तमम् ।
प्राकृतं हि समासेन शृणुध्वं गदतो मम ॥ १ ॥
मूलम्

गते परार्धद्वितये कालो लोकप्रकालनः ।
कालाग्निर्भस्मसात् कर्तुं करोति निकिलं मतिम् ॥ २ ॥

स्वात्मन्यात्मानमावेश्य भूत्वा देवो महेश्वरः ।
दहेदशेषं ब्रह्माण्डं सदेवासुरमानुषम् ॥ ३ ॥

तमाविश्य महादेवो भगवान्नीललोहितः ।
करोति लोकसंहारं भीषणं रूपमाश्रितः ॥ ४ ॥
मूलम्
तमाविश्य महादेवो भगवान्नीललोहितः ।
करोति लोकसंहारं भीषणं रूपमाश्रितः ॥ ४ ॥
विश्वास-प्रस्तुतिः
प्रविश्य मण्डलं सौरं कृत्वासौ बहुधा पुनः ।
निर्दहत्यखिलं लोकं सप्तसप्तिस्वरूपधृक् ॥ ५ ॥

स दग्ध्वा सकलं सत्त्वमस्त्रं ब्रह्मशिरो महत् ।
देवतानां शरीरेषु क्षिपत्यखिलदाहकम् ॥ ६ ॥

दग्धेष्वशेषदेवेषु देवी गिरिवरात्मजा ।
एकासा साक्षिणी शम्भोस्तिष्ठते वैदिकी श्रुतिः ॥ ७ ॥

शिरः कपालैर्देवानां कृतस्त्रग्वरभूषणः ।
आदित्यचन्द्रादिगणैः पूरयन् व्योममण्डलम् ॥ ८ ॥

सहस्रनयनो देवः सहस्राकृतिरिश्वरः ।
सहस्रहस्तचरणः सहस्रार्चिर्महाभुजः ॥ ९ ॥
मूलम्
सहस्रनयनो देवः सहस्राकृतिरिश्वरः ।
सहस्रहस्तचरणः सहस्रार्चिर्महाभुजः ॥ ९ ॥
विश्वास-प्रस्तुतिः
दंष्ट्राकरालवदनः प्रदीप्तानललोचनः ।
त्रिशूली कृत्तिवसनो योगमैश्वरमास्थितः ॥ १० ॥

पीत्वा तत्परमानन्दं प्रभूतममृतं स्वयम् ।
करोति ताण्डवं देवीमालोक्य परमेश्वरः ॥ ११ ॥

पीत्वा नृत्तामृतं देवी भर्तुः परममङ्गला ।
योगमास्थाय देवस्य देहमायाति शूलिनः ॥ १२ ॥

सन्त्यक्त्वा ताण्डवरसं स्वेच्छयैव पिनाकधृक् ।
ज्योतिः स्वभावं भगवान् दग्ध्वा ब्रह्माण्डमण्डलम् ॥ १३ ॥

संस्थितेष्वथ देवेषु ब्रह्मविष्णुपिनाकिषु ।
गुणैरशेषैः पृथिवीविलयं याति वारिषु ॥ १४ ॥

स वारितत्त्वं सगुणं ग्रसते हव्यवाहनः ।
तेजस्तु गुणसंयुक्तं वायौ संयाति सङ्क्षयम् ॥ १५ ॥

आकाशे सगुणो वायुः प्रलयं याति विश्वभृत् ।
भूतादौ च तथाकाशं लीयते गुणसंयुतम् ॥ १६ ॥

इन्द्रियाणि च सर्वाणि तैजसे यान्ति सङ्क्षयम् ।
वैकारिके देवगणाः प्रलम्य यान्ति सत्तमाः ॥ १७ ॥

वैकारिकस्तैजसश्च भूतादिश्चेति सत्तमाः ।
त्रिविधो ऽयमहङ्कारो महति प्रलम्य व्रजेत् ॥ १८ ॥

महान्तमेभिः सहितं ब्रह्माणमतितेजसम् ।
अव्यक्तं जगतो योनिः संहरेदेकमव्ययम् ॥ १९ ॥

एवं संहृत्य भूतानि तत्त्वानि च महेश्वरः ।
वियोजयति चान्योन्यं प्रधानं पुरुषं परम् ॥ २० ॥

प्रधानपुंसोरजयोरेष संहार ईरितः ।
महेश्वरेच्छाजनितो न स्वयं विद्यते लयः ॥ २१ ॥

गुणसाम्यं तदव्यक्तं प्रकृतिः परिगीयते ।
प्रधानं जगतो योनिर्मायातत्त्वमचेतनम् ॥ २२ ॥

कूटस्थश्चिन्मयो ह्यात्मा केवलः पञ्चविंशकः ।
गीयते मुनिभिः साक्षी महानेकः पितामहः ॥ २३ ॥

एवं संहारकरणी शक्तिर्माहेश्वरी ध्रुवा ।
प्रधानाद्यं विशेषान्तं दहेद् रुद्र इति श्रुतिः ॥ २४ ॥

योगिनामथ सर्वेषां ज्ञानविन्यस्तचेतसाम् ।
आत्यन्तिकं चैव लयं विदधातीह शङ्करः ॥ २५ ॥

इत्येष भगवान् रुद्रः संहारं कुरुते वशी ।
स्थापिका मोहनी शक्तिर्नारायण इति श्रुतिः ॥ २६ ॥

हिरण्यगर्भा भगवान् जगत् सदसदात्मकम् ।
सृजेदशेषं प्रकृतेस्तन्मयः पञ्चविंशकः ॥ २७ ॥

सर्वज्ञाः सर्वगाः शान्ताः स्वात्मन्येवव्यवस्थिताः ।
शक्तयो ब्रह्मविण्वीशा भुक्तिमुक्तिफलप्रदाः ॥ २८ ॥

सर्वेश्वराः सर्ववन्द्याः शाश्वतानन्तभोगिनः ।
एकमेवाक्षरं तत्त्वं पुम्प्रधानेश्वरात्मकम् ॥ २९ ॥

अन्याश्च शक्तयो दिव्याः सन्ति तत्र सहस्रशः ।
इज्यन्ते विविधैर्यज्ञैः शक्रादित्यादयो ऽमराः ॥ ३० ॥

एकैकस्य सहस्राणि देहानां वै शतानि च ।
कथ्यन्ते चैव माहात्म्याच्छक्तिरेकैव निर्गुणाः ॥ ३१ ॥

तां तां शक्तिं समाधाय स्वयं देवो महेश्वरः ।
करोति देहान् विविधान् ग्रसते चैव लीलया ॥ ३२ ॥

इज्यते सर्वयज्ञेषु ब्राह्मणैर्वेदवादिभिः ।
सर्वकामप्रदो रुद्र इत्येषा वैदिकी श्रुतिः ॥ ३३ ॥

सर्वासामेव शक्तीनां ब्रह्मविष्णुमहेश्वराः ।
प्राधान्येन स्मृता देवाः शक्तयः परमात्मनः ॥ ३४ ॥

आद्यः परस्ताद् भगवान् परमात्मा सनातनः ।
गीयते सर्वशक्त्यात्मा शूलपाणिर्महेश्वरः ॥ ३५ ॥

एनमेके वदन्त्यग्निं नारायणमथापरे ।
इन्द्रमेके परे विश्वान् ब्रह्माणमपरे जगुः ॥ ३६ ॥

ब्रह्मविष्णवग्निवरुणाः सर्वे देवास्तथर्षयः ।
एकस्यैवाथ रुद्रस्य भेदास्ते परिकीर्तिताः ॥ ३७ ॥

यं यं भेदं समाश्रित्य यजन्ति परमेश्वरम् ।
तत् तद् रूपं समास्थाय प्रददाति फलं शिवः ॥ ३८ ॥

तस्मादेकतरं भेदं समाश्रित्यापि शाश्वतम् ।
आराधयन्महादेवं याति तत्परमं पदम् ॥ ३९ ॥

किन्तु देवं महादेवं सर्वशक्तिं सनातनम् ।
आराधयेद् वै गिरिशं सगुणं वाथ निर्गुणम् ॥ ४० ॥

मया प्रोक्तो हि भवतां योगः प्रागेव निर्गुणः ।
आरुरुक्षुस्तु सगुणं पूजयेत् परमेश्वरम् ॥ ४१ ॥

पिनाकिनं त्रिनयनं जटिलं कृत्तिवाससम् ।
पद्मासनस्थं रुक्माभं चिन्तयेद् वैदिकी श्रुतिः ॥ ४२ ॥

तस्मात् सर्वान् परित्यज्य देवान् ब्रह्मपुरोगमान् ।
आराधयेद् विरूपाक्षमादिमध्यान्तसंस्थितम् ॥ ४३ ॥

भक्तियोगसमायुक्तः स्वधर्मनिरतः शुचिः ।
तादृशं रूपमास्थाय समायात्यन्तिकं शिवम् ॥ ४४ ॥

एष योगः समुद्दिष्टः सबीजो ऽत्यन्तभावने ।
यथाविधि प्रकुर्वाणः प्राप्नुयादैश्वरं पदम् ॥ ४५ ॥

अथ चेदसमर्थः स्यात् तत्रापि मुनिपुङ्गवाः ।
ततो वाय्वग्निशक्रादीन् पूजयेद् भक्तिसंयुतः ॥ ४६ ॥

ये चान्ये भावने शुद्धे प्रागुक्ते भवतामिह ।
अथापि कथितो योगो निर्बोजश्च सबीजकः ॥ ४७ ॥

विष्णुं रुद्रं विरञ्चिं च सबीजं भावयेद् बुधः ।
सथवाग्न्यादिकान् देवांस्तत्परः संयतेन्द्रियः ॥ ४८ ॥

पूजयेत् पुरुषं विष्णुं चतुर्मूर्तिधरं हरिम् ।
अनादिनिधनं देवं वासुदेवं सनातनम् ॥ ४९ ॥

तल्लिङ्गधारी नियतं तद्भक्तस्तदपाश्रयः ।
एष एव विधिर्ब्राह्मे भावने चान्तिके मतः ॥ ५० ॥

इत्येतत् कथितं ज्ञानं भावनासंश्रयं परम् ।
इन्द्रद्युम्नाय मुनये कथितं यन्मया पुरा ॥ ५१ ॥

अव्यक्तात्मकमेवेदं चेतनाचेतनं जगत् ।
तदीश्वरः परं ब्रह्म तस्माद् ब्रह्ममयं जगत् ॥ ५२ ॥

एतावदुक्त्वा भगवान् विरराम जनार्दनः ।
तुष्टुवुर्मुनयो विष्णुं शक्रेण सह माधवम् ॥ ५३ ॥

नमस्ते कूर्मरूपाय विष्णवे परमात्मने ।
नारायणाय विश्वाय वासुदेवाय ते नमः ॥ ५४ ॥

नमो नमस्ते कृष्णाय गोविन्दाय नमो नमः ।
माधवाय नमस्तुभ्यं नमो यज्ञेश्वराय च ॥ ५५ ॥

सहस्रशिरसे तुभ्यं सहस्राक्षाय ते नमः ।
नमः सहस्रहस्ताय सहस्रचरणाय च ॥ ५६ ॥
मूलम्
सहस्रशिरसे तुभ्यं सहस्राक्षाय ते नमः ।
नमः सहस्रहस्ताय सहस्रचरणाय च ॥ ५६ ॥
विश्वास-प्रस्तुतिः
ॐ नमो ज्ञानरूपाय परमात्मस्वरूपिणे ।
आनन्दाय नमस्तुभ्यं मायातीताय ते नमः ॥ ५७ ॥

नमो गूढशरीराय निर्गुणाय नमो ऽस्तु ते ।
पुरुषाय पुराणाय सत्तामात्रस्वरूपिणे ॥ ५८ ॥

नमः साङ्ख्याय योगाय केवलाय नमो ऽस्तु ते ।
धर्मज्ञानाधिगम्याय निष्कलाय नमो नमः ॥ ५९ ॥

नमोस्तु व्योमतत्त्वाय महायोगेश्वराय च ।
परावराणां प्रभवे वेदवेद्याय ते नमः ॥ ६० ॥

नमो बुद्धाय शुद्धाय नमो युक्ताय हेतवे ।
नमो नमो नमस्तुभ्यं मायिने वेधसे नमः ॥ ६१ ॥

नमो ऽस्तु ते वराहाय नारसिंहाय ते नमः ।
वामनाय नमस्तुभ्यं हृषीकेशाय ते नमः ॥ ६२ ॥

नमो ऽस्तु कालरुद्राय कालरूपाय ते नमः ।
स्वर्गापवर्गदात्रे च नमो ऽप्रतिहतात्मने ॥ ६३ ॥

नमो योगाधिगम्याय योगिने योगदायिने ।
देवानां पतये तुभ्यं देवार्तिशमनाय ते ॥ ६४ ॥

भगवंस्त्वत्प्रसादेन सर्वसंसारनाशनम् ।
अस्माभिर्विदितं ज्ञानं यज्ज्ञात्वामृतमश्नुते ॥ ६५ ॥

श्रुतास्तु विविधा धर्मा वंशा मन्वन्तराणि च ।
सर्गश्च प्रतिसर्गश्च ब्रह्माण्यस्यास्य विस्तरः ॥ ६६ ॥

त्वं हि सर्वजगत्साक्षी विश्वो नारायणः परः ।
त्रातुमर्हस्यनन्तात्मंस्त्वमेव शरणं गतिः ॥ ६७ ॥

एतद् वः कथितं विप्रा योगमोक्षप्रदायकम् ।
कौर्मं पुराणमखिलं यज्जगाद गदाधरः ॥ ६८ ॥

अस्मिन् पुराणे लक्ष्म्यास्तु सम्भवः कथितः पुरा ।
मोहायाशेषभूतानां वासुदेवेन योजनम् ॥ ६९ ॥

प्रजापतीनां सर्गस्तु वर्णधर्माश्च वृत्तयः ।
धर्मार्थकाममोक्षाणां यथावल्लक्षणं शुभम् ॥ ७० ॥

पितामहस्य विष्णोश्च महेशस्य च धीमतः ।
एकत्वं च पृथक्त्वं च विशेषश्चोपवर्णितः ॥ ७१ ॥

भक्तानां लक्षणं प्रोक्तं समाचारश्च शोभनः ।
वर्णाश्रमाणां कथितं यथावदिह लक्षणम् ॥ ७२ ॥

आदिसर्गस्ततः पश्चादण्डावरणसप्तकम् ।
हिरण्यगर्भसर्गश्च कीर्तितो मुनिपुङ्गवाः ॥ ७३ ॥

कालसङ्ख्याप्रकथनं माहात्म्यं चेश्वरस्य च ।
ब्रह्मणः शयनं चाप्सु नामनिर्वचनं तथा ॥ ७४ ॥

वराहवपुषा भूयो भूमेरुद्धरणं पुनः ।
मुख्यादिसर्गकथनं मुनिसर्गस्तथापरः ॥ ७५ ॥

व्याख्यतो रुद्रसर्गश्च ऋषिसर्गश्च तापसः ।
धर्मस्य च प्रजासर्गस्तामसात् पूर्वमेव तु ॥ ७६ ॥

ब्रह्मविष्णुविवादः स्यादन्तर्देहप्रवेशनम् ।
पद्मोद्भवत्वं देवस्य मोहस्तस्य च धीमतः ॥ ७७ ॥

दर्शनं च महेशस्य माहात्म्यं विष्णुनेरितम् ।
दिव्यदृष्टिप्रदानं च ब्रह्मणः परमेष्ठिनः ॥ ७८ ॥

संस्तवो देवदेवस्य ब्रह्मणा परमेष्ठिना ।
प्रसादो गिरिशस्याथ वरदानं तथैव च ॥ ७९ ॥
मूलम्
संस्तवो देवदेवस्य ब्रह्मणा परमेष्ठिना ।
प्रसादो गिरिशस्याथ वरदानं तथैव च ॥ ७९ ॥
विश्वास-प्रस्तुतिः
संवादो विष्णुना सार्धं शङ्करस्य महात्मनः ।
वरदानं तथापूर्वमन्तर्धानं पिनाकिनः ॥ ८० ॥

वधश्च कथितो विप्रा मधुकैटभयोः पुरा ।
अवतारो ऽथ देवस्य ब्रह्मणो नाभिपङ्कजात् ॥ ८१ ॥

एकीभावश्च देवस्य विष्णुना कथितस्ततः ।
विमोहो ब्रह्मणश्चाथ सञ्ज्ञालाभो हरेस्ततः ॥ ८२ ॥

तपश्चरणमाख्यातं देवदेवस्य धीमतः ।
प्रादुर्भावो महेशस्य ललाटात् कथितस्ततः ॥ ८३ ॥

रुद्राणां कथिता सृष्टिर्ब्रह्मणः प्रतिषेधनम् ।
भूतिश्च देवदेवस्य वरदानोपदेशकौ ॥ ८४ ॥

अन्तर्धानं च रुद्रस्य तपश्चर्याण्डजस्य च ।
दर्शनं देवदेवस्य नरनारीशरीरता ॥ ८५ ॥

देव्या विभागकथनं देवदेवात् पिनाकिनः ।
देव्यास्तु पश्चात् कथितं दक्षपुत्रीत्वमेव च ॥ ८६ ॥

हिमवद्दुहितृत्वं च देव्या माहात्म्यमेव च ।
दर्शनं दिव्यरूपस्य वैश्वरूपस्य दर्शनम् ॥ ८७ ॥

नाम्नां सहस्रं कथितं पित्रा हिमवता स्वयम् ।
उपदेशो महादेव्या वरदानं तथैव च ॥ ८८ ॥

भृग्वादीनां प्रजासर्गो राज्ञां वंशस्य विस्तरः ।
प्राचेतसत्वं दक्षस्य दक्षयज्ञविमर्दनम् ॥ ८९ ॥

दधीचस्य च दक्षस्य विवादः कथितस्तदा ।
ततश्च शापः कथितो मुनीनां मुनिपुङ्गवाः ॥ ९० ॥

रुद्रागतिः प्रसादश्च अन्तर्धानं पिनाकिनः ।
पितामहस्योपदेशः कीर्त्यते रक्षणाय तु ॥ ९१ ॥

दक्षस्य च प्रजासर्गः कश्यपस्य महात्मनः ।
हिरण्यकशिपोर्नाशो हिरण्याक्षवधस्तथा ॥ ९२ ॥

ततश्च शापः कथितो देवदारुवनौकसाम् ।
निग्रहश्चान्धकस्याथ गाणपत्यमनुत्तमम् ॥ ९३ ॥

प्रह्रादनिग्रहश्चाथ बलेः संयमनं ततः ।
बाणस्य निग्रहश्चाथ प्रसादस्तस्य शूलिनः ॥ ९४ ॥

ऋषीणां वंशविस्तारो राज्ञां वंशाः प्रकीर्तिताः ।
वसुदेवात् ततो विष्णोरुत्पत्तिः स्वेच्छया हरेः ॥ ९५ ॥

दर्शनं चोपमन्योर्वै तपश्चरणमेव च ।
वरलाभो महादेवं दृष्ट्वा साम्बं त्रिलोचनम् ॥ ९६ ॥

कैलासगमनं चाथ निवासस्तत्र शार्ङ्गिणः ।
ततश्च कथ्यते भीतिर्द्वारिवत्या निवासिनाम् ॥ ९७ ॥

रक्षणं गरुडेनाथ जित्वा शत्रून् महाबलान् ।
नारादागमनं चैव यात्रा चैव गरुत्मतः ॥ ९८ ॥

ततश्च कृष्णागमनं मुनीनामागतिस्ततः ।
नैत्यकं वासुदेवस्य शिवलिङ्गार्चनं तथा ॥ ९९ ॥

मार्कण्डेयस्य च मुनेः प्रश्नः प्रोक्तस्ततः परम् ।
लिङ्गार्चननिमित्तं च लिङ्गस्यापि सलिङ्गिनः ॥ १०० ॥

यथात्म्यकथनं चाथ लिङ्गाविर्भाव एव च ।
ब्रह्मविष्णोस्तथा मध्ये कीर्तितो मुनिपुङ्गवाः ॥ १०१ ॥

मोहस्तयोस्तु कथितो गमनं चोर्ध्वतो ऽप्यधः ।
संस्तवो देवदेवस्य प्रसादः परमेष्ठिनः ॥ १०२ ॥

अन्तर्धानं च लिङ्गस्य साम्बोत्पत्तिस्ततः परम् ।
कीर्तिता चानिरुद्धस्य समुत्पत्तिर्द्विजोत्तमाः ॥ १०३ ॥

कृष्णस्य गमने बुद्धिरृषीणामागतिस्तथा ।
अनुवशासितं च कृष्णेन वरदानं महात्मनः ॥ १०४ ॥

गमनं चैव कृष्णस्य पार्थस्यापि च दर्शनम् ।
कृष्णद्वैपायनस्योक्ता युगधर्माः सनातनाः ॥ १०५ ॥

अनुग्रहो ऽथ पार्थस्य वाराणसीगतिस्ततः ।
पाराशर्यस्य च मुनेर्व्यासस्याद्भुतकर्मणः ॥ १०६ ॥

तीर्थयात्रा च व्यासस्य देव्याश्चैवाथ दर्शनम् ।
उद्वासनं च कथितं वरदानं तथैव च ॥ १०७ ॥

प्रयागस्य च माहात्म्यं क्षेत्राणामथ कीर्तिनम् ।
फलं च विपुलं विप्रा मार्कण्डेयस्य निर्गमः ॥ १०८ ॥

भुवनानां स्वरूपं च ज्योतिषां च निवेशनम् ।
कीर्त्यन्ते चैव वर्षाणि नदीनां चैव निर्णयः ॥ १०९ ॥

पर्वतानां च कथनं स्थानानि च दिवौकसाम् ।
द्वीपानां प्रविभागश्च श्वेतद्वीपोपवर्णनम् ॥ ११० ॥

शयनं केशवस्याथ माहात्म्यं च महात्मनः ।
मन्वन्तराणां कथनं विष्णोर्माहात्म्यमेव च ॥ १११ ॥

वेदशाखाप्रणयनं व्यासानां कथनं ततः ।
अवेदस्य च वेदानां कथनं मुनिपुङ्गवाः ॥ ११२ ॥

योगेश्वराणां च कथा शिष्याणां चाथ कीर्तनम् ।
गीताश्च विविधागुह्या ईश्वरस्याथ कीर्तिताः ॥ ११३ ॥

वर्णाश्रमाणामाचाराः प्रायश्चित्तविधिस्ततः ।
कपालित्वं च रुद्रस्य भिक्षाचरणमेव च ॥ ११४ ॥

पतिव्रतायाश्चाख्यानं तीर्थानां च विनिर्णयः ।
तथा मङ्कणकस्याथ निग्रहः कीर्त्यते द्विजाः ॥ ११५ ॥

वधश्च कथितो विप्राः कालस्य च समासतः ।
देवदारुवने शम्भोः प्रवेशो माधवस्य च ॥ ११६ ॥

दर्शनं षट्कुलीयानां देवदेवस्य धीमतः ।
वरदानं च देवस्य नन्दिने तु प्रकीर्तितम् ॥ ११७ ॥

नैमित्तिकस्तु कथितः प्रतिसर्गस्ततः परम् ।
प्राकृतः प्रलयश्चोर्ध्वं सबीजो योग एव च ॥ ११८ ॥

एवं ज्ञात्वा पुराणस्य सङ्क्षेपं कीर्तयेत् तु यः ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ११९ ॥

एवमुक्त्वा श्रियं देवीमादाय पुरुषोत्तमः ।
सन्त्यज्य कूर्मसंस्थानं स्वस्थानं च जगाम ह ॥ १२० ॥

देवाश्च सर्वे मुनयः स्वानि स्थानानि भेजिरे ।
प्रणम्य पुरुषं विष्णुं गृहीत्वा ह्यमृतं द्विजाः ॥ १२१ ॥

एतत् पुराणं परमं भाषितं कूर्मरूपिणा ।
साक्षाद् देवादिदेनेन विष्णुना विश्वयोनिना ॥ १२२ ॥

यः पठेत् सततं मर्त्यो नियमेन समाहितः ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ १२३ ॥

लिखित्वा चैव यो दद्याद् वैशाखे मासि सुव्रतः ।
विप्राय वेदविदुषे तस्य पुण्यं निबोधत ॥ १२४ ॥

सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्वितः ।
भुक्त्वा च विपुलान्स्वर्गे भोगान्दिव्यान्सुशोभनान् ॥ १२५ ॥

ततः स्वर्गात् परिभ्रष्टो विप्राणां जायते कुले ।
पूर्वसंस्कारमाहात्म्याद् ब्रह्मविद्यामवाप्नुयात् ॥ १२६ ॥

पठित्वाध्यायमेवैकं सर्वपापैः प्रमुच्यते ।
योर्ऽथं विचारयेत् सम्यक् स प्राप्नोति परं पदम् ॥ १२७ ॥

अध्येतव्यमिदं नित्यं विप्रैः पर्वणि पर्वणि ।
श्रोतव्यं च द्विजश्रेष्ठा महापातकनाशनम् ॥ १२८ ॥

एकतस्तु पुराणानि सेतिहासानि कृत्स्नशः ।
एकत्र चेदं परममेतदेवातिरिच्यते ॥ १२९ ॥
मूलम्
एकतस्तु पुराणानि सेतिहासानि कृत्स्नशः ।
एकत्र चेदं परममेतदेवातिरिच्यते ॥ १२९ ॥
विश्वास-प्रस्तुतिः
धर्मनैपुण्यकामानां ज्ञाननैपुण्यकामिनाम् ।
इदं पुराणं मुक्त्वैकं नास्त्यन्यत् साधनं परम् ॥ १३० ॥

यथावदत्र भगवान् देवो नारायणो हरिः ।
कथ्यते हि यथा विष्णुर्न तथान्येषु सुव्रताः ॥ १३१ ॥

ब्राह्मी पौराणिकी चेयं संहिता पापनाशनी ।
अत्र तत् परमं ब्रह्म कीर्त्यते हि यथार्थतः ॥ १३२ ॥

तीर्थानां परमं तीर्थं तपसां च परं तपः ।
ज्ञानानां परमं ज्ञानं व्रतानां परमं व्रतम् ॥ १३३ ॥

नाध्येतव्यमिदं शास्त्रं वृषलस्य च सन्निधौ ।
यो ऽधीते स तु मोहात्मा स याति नरकान् बहून् ॥ १३४ ॥

श्राद्धे वा दैविके कार्ये श्रावणीयं द्विजातिभिः ।
यज्ञान्ते तु विशेषेण सर्वदोषविशोधनम् ॥ १३५ ॥

मुमुक्षूणामिदं शास्त्रमध्येतव्यं विशेषतः ।
श्रोतव्यं चाथ मन्तव्यं वेदार्थपरिबृंहणम् ॥ १३६ ॥

ज्ञात्वा यथावद् विप्रेन्द्रान् श्रावयेद् भक्तिसंयुतान् ।
सर्वपापविनिर्मुक्तो ब्रह्मसायुज्यमाप्नुयात् ॥ १३७ ॥

यो ऽश्रद्दधाने पुरुषे दद्याच्चाधार्मिके तथा ।
स प्रेत्य गत्वा निरयान् शुनां योनिं व्रजत्यधः ॥ १३८ ॥

नमस्कृत्वा हरिं विष्णुं जगद्योनिं सनातनम् ।
अध्येतव्यमिदं शास्त्रं कृष्णद्वैपायनं तथा ॥ १३९ ॥

इत्याज्ञा देवदेवस्य विष्णोरमिततेजसः ।
पाराशर्यस्य विप्रर्षेर्व्यासस्य च महात्मनः ॥ १४० ॥

श्रुत्वा नारायणाद् दिव्यां नारदो भगवानृषिः ।
गौतमाय ददौ पूर्वं तस्माच्चैव पराशरः ॥ १४१ ॥

पराशरो ऽपि भगवान गङ्गाद्वारे मुनीश्वराः ।
मुनिभ्यः कथयामास धर्मकामार्थमोक्षदम् ॥ १४२ ॥

ब्रह्मणा कथितं पूर्वं सनकाय च धीमते ।
सनत्कुमाराय तथा सर्वपापप्रणाशनम् ॥ १४३ ॥

सनकाद् भगवान् साक्षाद् देवलो योगवित्तमः ।
अवाप्तवान् पञ्चशिखो देवलादिदमुत्तमम् ॥ १४४ ॥

सनत्कुमाराद् भगवान् मुनिः सत्यवतीसुतः ।
लेभे पुराणं परमं व्यासः सर्वार्थसञ्चयम् ॥ १४५ ॥

तस्माद् व्यासादहं श्रुत्वा भवतां पापनाशनम् ।
ऊचिवान् वै भवद्भिश्च दातव्यं धार्मिके जने ॥ १४६ ॥

तस्मै व्यासाय गुरवे सर्वज्ञाय महर्षये ।
पाराशर्याय शान्ताय नमो नारायणात्मने ॥ १४७ ॥

यस्मात् सञ्जायते कृत्सनं यत्र चैव प्रलीयते ।
नमस्तस्मै सुरेशाय विष्णवे कूर्मरूपिणे ॥ १४८ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे चतुश्चत्वारिंशो ऽध्यायः
उपरिविभागः समाप्तः
इति श्रीकूर्मपुराणं समाप्तम्