सूत उवाच
विश्वास-प्रस्तुतिः
एतदाकर्ण्य विज्ञानं नारायणमुखेरितम् ।
कूर्मरूपधरं देवं पप्रच्छुर्मुनयः प्रभुम् ॥ १ ॥
मूलम्

कथिता भवता धर्मा मोक्षज्ञानं सविस्तरम् ।
लोकानां सर्गविस्तारं वंशमन्वन्तराणि च ॥ २ ॥

प्रतिसर्गमिदानीं नो वक्तुमर्हसी माधव ।
भूतानां भूतभव्येश यथा पूर्वं त्वयोदितम् ॥ ३ ॥

श्रुत्वा तेषां तदा वाक्यं भगवान् कूर्मरूपधृक् ।
व्याजहार महायोगी भूतानां प्रतिसञ्चरम् ॥ ४ ॥

नित्यो नैमित्तिकश्चैव प्राकृतात्यन्तिकौ तथा ।
चतुर्धायं पुराणे ऽस्मिन् प्रोच्यते प्रतिसञ्चरः ॥ ५ ॥

यो ऽयं सन्दृश्यते नित्यं लोके भूतक्षयस्त्विह ।
नित्यः सङ्कीर्त्यते नाम्ना मुनिभिः प्रतिसञ्चरः ॥ ६ ॥

ब्राह्मो नैमित्तिको नाम कल्पान्ते यो भविष्यति ।
त्रैलोक्यस्यास्य कथितः प्रतिसर्गो मनीषिभिः ॥ ७ ॥

महादाद्यां विशेषान्तं यदा संयाति सङ्क्षयम् ।
प्राकृतः प्रतिसर्गो ऽयं प्रोच्यते कालचिन्तकैः ॥ ८ ॥

ज्ञानादात्यन्तिकः प्रोक्तो योगिनः परमात्मनि ।
प्रलयः प्रतिसर्गो ऽयं कालचिन्तापरैर्द्विजैः ॥ ९ ॥

आत्यन्तिकश्च कथितः प्रलयो ऽत्र ससाधनः ।
नैमित्तिकमिदानीं वः कथयिष्ये समासतः ॥ १० ॥

चतुर्युगसहस्रान्ते सम्प्राप्ते प्रतिसञ्चरे ।
स्वात्मसंस्थाः प्रजाः कर्तुं प्रतिपेदे प्रजापतिः ॥ ११ ॥

ततो भवत्यनावृष्टिस्तीव्रा सा शतवार्षिकी ।
भूतक्षयकरी घोरा सर्वभूतक्षयङ्करी ॥ १२ ॥

ततो यान्यल्पसाराणि सत्त्वानि पृथिवीतले ।
तानि चाग्रे प्रलीयन्ते भूमित्वमुपयान्ति च ॥ १३ ॥

सप्तरश्मिरथो भूत्वा समुत्तिष्ठन् दिवाकरः ।
असह्यरश्मिर्भवति पिबन्नम्भो गभस्तिभिः ॥ १४ ॥

तस्य ते रश्मयः सप्त पिबन्त्यम्बु महार्णवे ।
तेनाहारेण ता दीप्ताः सूर्याः सप्त भवन्त्युत ॥ १५ ॥

ततस्ते रश्मयः सप्त सूर्या भूत्वा चतुर्दिशम् ।
चतुर्लोकमिदं सर्वं दहन्ति शिखिनस्तथा ॥ १६ ॥

व्याप्नुवन्तश्च ते विप्रास्तूर्ध्वं चाधश्च रश्मिभिः ।
दीप्यन्ते भास्कराः सप्त युगान्ताग्निप्रतापिनः ॥ १७ ॥

ते सूर्या वारिणा दीप्ता बहुसाहस्त्ररश्मयः ।
खं समावृत्य तिष्ठन्ति निर्दहन्तो वसुन्धराम् ॥ १८ ॥

ततस्तेषां प्रतापेन दह्यमाना वसुन्धरा ।
साद्रिनद्यर्णवद्वीपा निस्नेहा समपद्यत ॥ १९ ॥

दीप्ताभिः सन्तताभिश्च रश्मिभिर्वै समन्ततः ।
अधश्चोर्ध्वं च लग्नाभिस्तिर्यक् चैव समावृतम् ॥ २० ॥

सूर्याग्निना प्रमृष्टानां संसृष्टानां परस्परम् ।
एकत्वमुपयातानामेकज्वालं भवत्युत ॥ २१ ॥

सर्वलोकप्रणाशश्च सो ऽग्निर्भूत्वा सुकुण्डली ।
चतुर्लोकमिदं सर्वं निर्दहत्यात्मतेजसा ॥ २२ ॥

ततः प्रलीने सर्वस्मिञ् जङ्गमे स्थावरे तथा ।
निर्वृक्षा निस्तृणा भूमिः कूर्मपृष्ठा प्रकाशते ॥ २३ ॥

अम्बरीषमिवाभाति सर्वमापूरितं जगत् ।
सर्वमेव तदर्चिर्भिः पूर्णं जाज्वल्यते पुनः ॥ २४ ॥

पाताले यानि सत्त्वानि महोदधिगतानि च ।
ततस्तानि प्रलीयन्ते भूमित्वमुपयान्ति च ॥ २५ ॥

द्वीपांश्च पर्वतांश्चैव वर्षाण्यथ महोदधीन् ।
तान् सर्वान् भस्मसात् कृत्वा सप्तात्मा पावकः प्रभुः ॥ २६ ॥

समुद्रेभ्यो नदीभ्यश्च पातालेभ्यश्च सर्वशः ।
पिबन्नपः समिद्धो ऽग्निः पृथिवीमाश्रितो ज्वलन् ॥ २७ ॥

ततः संवर्तकः शैलानतिक्रम्य महांस्तथा ।
लोकान् दहति दीप्तात्मा रुद्रतेजोविजॄम्भितः ॥ २८ ॥

स दग्ध्वा पृथिवीं देवो रसातलमशोषयत् ।
अधस्तात् पृथिवीं दग्ध्वा दिवमूर्ध्वं दहिष्यति ॥ २९ ॥

योजनानां शतानीह सहस्राण्ययुतानि च ।
उत्तिष्ठन्ति शिखास्तस्य वह्नेः संवर्तकस्य तु ॥ ३० ॥

गन्धर्वांश्च पिशाचांश्च सयक्षोरगराक्षसान् ।
तदा दहत्यसौ दीप्तः कालरुद्रप्रचोदितः ॥ ३१ ॥

भूर्लोकं च भुवर्लोकं स्वर्लोकं च तथा महः ।
दहेदशेषं कालाग्निः कालो विश्वतनुः स्वयम् ॥ ३२ ॥

तत् तेजः समनुप्राप्य कृत्स्नं जगदिदं शनैः ।
अयोगुडनिभं सर्वं तदा चैकं प्रकाशते ॥ ३३ ॥

ततो गजकुलोन्नादास्तडिद्भिः समलङ्कृताः ।
उत्तिष्ठन्ति तदा व्योम्नि घोराः संवर्तका घनाः ॥ ३४ ॥

केचिन्नीलोत्पलश्यामाः केचित् कुमुदसन्निभाः ।
धूम्रवर्णास्तथा केचित् केचित् पीताः पयोधराः ॥ ३५ ॥

केचिद् रासभवर्णास्तु लाक्षारसनिभास्तथा ।
शङ्खकुन्दनिभाश्चान्ये जात्यञ्जननिभाः परे ॥ ३६ ॥

इन्द्रगोपनिभाः केचिद्धरितालनिभास्तथा ।
इन्द्रचापनिभाः केचिदुत्तिष्ठन्ति घना दिवि ॥ ३७ ॥

कूटाङ्गारनिभाश्चान्ये केचिन्मीनकुलोद्वहाः ।
बहूरूपा घोरूपा घोरस्वरनिनादिनः ॥ ३८ ॥

ततस्ते जलदा घोरा राविणो भास्करात्मजाः ।
सप्तधा संवृतात्मानस्तमग्निं शमयन्त्युत ॥ ३९ ॥

ततस्ते जलदा वर्षं मुञ्चन्तीह महौघवत् ।
सुघोरमशिवं सर्वं नाशयन्ति च पावकम् ॥ ४० ॥

प्रवृष्टे च तदात्यर्थमम्भसा पूर्यते जगत् ।
अद्भिस्तेजोभिभूतत्वात् तदाग्निः प्रविशत्यपः ॥ ४१ ॥

नष्टे चाग्नौ वर्षशतैः पयोदाः क्षयसम्भवाः ।
प्लावयन्तो ऽथ भुवनं महाजलपरिस्त्रवैः ॥ ४२ ॥

धाराभिः पूरयन्तीदं चोद्यमानाः स्वयम्भुवा ।
अत्यन्तसलिलौघैश्च वेला इव महोदधिः ॥ ४३ ॥

आदित्यरश्मिभिः पीतं जलमभ्रेषु तिष्ठति ।
पुनः पतति तद् भूमौ पूर्यन्ते तेन चार्णवाः ॥ ४४ ॥

ततः समुद्राः स्वां वेलामतिक्रान्तास्तु कृत्स्नशः ।
पर्वताश्च विलीयन्ते मही चाप्सु निमज्जति ॥ ४५ ॥

तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे ।
योगनिन्द्रां समास्थाय शेते देवः प्रजापतिः ॥ ४६ ॥

चतुर्युगसहस्रान्तं कल्पमाहुर्महर्षयः ।
वाराहो वर्तते कल्पो यस्य विस्तार ईरितः ॥ ४७ ॥

असङ्ख्यातास्तथा कल्पा ब्रह्मविष्णुशिवात्मकाः ।
कथिता हि पुराणेषु मुनिभिः कालचिन्तकैः ॥ ४८ ॥

सात्त्विकेष्वथ कल्पेषु माहात्म्यमधिकं हरेः ।
तामसेषु हरस्योक्तं राजसेषु प्रजापतेः ॥ ४९ ॥

यो ऽयं प्रवर्तते कल्पो वाराहः सात्त्विको मतः ।
अन्ये च सात्त्विकाः कल्पा मम तेषु परिग्रहः ॥ ५० ॥

ध्यानं तपस्तथा ज्ञानं लब्ध्वा तेष्वेव योगिनः ।
आराध्य गिरिशं मां च यान्ति तत् परमं पदम् ॥ ५१ ॥

सो ऽहं सत्त्वं समास्थाय मायी मायामयीं स्वयम् ।
एकार्णवे जगत्यस्मिन् योगनिद्रां व्रजामि तु ॥ ५२ ॥

मां पश्यन्ति महात्मानः सुप्तं कालं महर्षयः ।
जनलोके वर्तमानास्तपसा योगचक्षुषा ॥ ५३ ॥

अहं पुराणपुरुषो भूर्भुवः प्रभवो विभुः ।
सहस्रचरणः श्रीमान् सहस्रांशुः सहस्रदृक् ॥ ५४ ॥

मन्त्रो ऽग्निर्ब्राह्मिणा गावः कुशाश्च समिधो ह्यहम् ।
प्रोक्षणी च श्रुवश्चैव सोमो घृतमथास्म्यहम् ॥ ५५ ॥

संवर्तको महानात्मा पवित्रं परमं यशः ।
वेदो वेद्यं प्रभुर्गोप्ता गोपतिर्ब्रह्मणो मुखम् ॥ ५६ ॥

अनन्तस्तारको योगी गतिर्गतिमतां वरः ।
हंसः प्राणो ऽथ कपिलो विश्वमूर्तिः सनातनः ॥ ५७ ॥

क्षेत्रज्ञः प्रकृतिः कालो जगद्बीजमथामृतम् ।
माता पिता महादेवो मत्तो ह्यन्यन्न विद्यते ॥ ५८ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे त्रिचत्वारिंशो ऽध्यायः