सूत उवाच
विश्वास-प्रस्तुतिः
अन्यच्च तीर्थप्रवरं जप्येश्वरसमीपतः ।
नाम्ना पञ्चनदं पुण्यं सर्वपापप्रणाशनम् ॥ १ ॥
मूलम्

त्रिरात्रोपोषितस्तत्र पूजयित्वा महेश्वरम् ।
सर्वपापविशुद्धात्मा रुद्रलोके महीयते ॥ २ ॥

अन्यच्च तीर्थप्रवरं शङ्करस्यामितौजसः ।
महाभैरवमित्युक्तं महापातकनाशनम् ॥ ३ ॥
मूलम्
अन्यच्च तीर्थप्रवरं शङ्करस्यामितौजसः ।
महाभैरवमित्युक्तं महापातकनाशनम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
तीर्थानां च परं तीर्थं वितस्ता परमा नदी ।
सर्वपापहरा पुण्या स्वयमेव गिरीन्द्रजा ॥ ४ ॥

तीर्थं पञ्चतपं नाम शम्भोरमिततेजसः ।
यत्र देवादिदेवेन चक्रार्थं पूजितो भवः ॥ ५ ॥

पिण्डदानादिकं तत्र प्रेत्यानन्तफलप्रदम् ।
मृतस्तत्रापि नियमाद् ब्रह्मलोके महीयते ॥ ६ ॥

कायावरोहणं नाम महादेवालयं शुभम् ।
यत्र माहेश्वरा धर्मा मुनिभिः सम्प्रवर्तिताः ॥ ७ ॥

श्राद्धं दानं तपो होम उपवासस्तथाक्षयः ।
परित्यजति यः प्राणान् रुद्रलोकं स गच्छति ॥ ८ ॥

अन्यच्च तीर्थप्रवरं कन्यातीर्थमिति श्रुतम् ।
तत्र गत्वा त्यजेत् प्राणांल्लोकान् प्राप्नोति शाश्वतान् ॥ ९ ॥

जामदग्न्यस्य तु शुभं रामस्याक्लिष्टकर्मणः ।
तत्र स्नात्वा तीर्थ वरे गोसहस्रफलं लभेत् ॥ १० ॥

महाकालमिति ख्यातं तीर्थं त्रैलोक्यविश्रुतम् ।
गत्वा प्राणान् परित्यज्य गाणपत्यमवाप्नुयात् ॥ ११ ॥

गुह्याद् गुह्यतमं तीर्थं नकुलीश्वरमुत्तमम् ।
तत्र सन्निहितः श्रीमान् भगवान् नकुलीश्वरः ॥ १२ ॥

हिमवच्छिखरे रम्ये गङ्गाद्वारे सुशोभने ।
देव्या सह महादेवो नित्यं शिष्यैश्च संवृतः ॥ १३ ॥

तत्र स्नात्वा महादेवं पूजयित्वा वृषध्वजम् ।
सर्वपापैर्विमुच्येत मृतस्तज्ज्ञानमाप्नुयात् ॥ १४ ॥

अन्यच्च देवदेवस्य स्थानं पुण्यतमं शुभम् ।
भीमेश्वरमिति ख्यातं गत्वा मुञ्चति पातकम् ॥ १५ ॥

तथान्यच्चण्डवेगायाः सम्भेदः पापनाशनः ।
तत्र स्नात्वा च पीत्वा च मुच्यते ब्रह्महत्यया ॥ १६ ॥

सर्वेषामपि चैतेषां तीर्थानां परमा पुरी ।
नाम्नावाराणसी दिव्या कोटिकोट्ययुताधिका ॥ १७ ॥

तस्याः पुरस्तान्माहात्म्यं भाषितं वो मया त्विह ।
नान्यत्र लभ्यते मुक्तिर्योगिनाप्येकजन्मना ॥ १८ ॥

एते प्राधान्यतः प्रोक्ता देशाः पापहरा नृणाम् ।
गत्वा सङ्क्षालयेत् पापं जन्मान्तरशतैः कृतम् ॥ १९ ॥

यः स्वधर्मान् परित्यज्य तीर्थसेवां करोति हि ।
न तस्य फलते तीर्थमहि लोके परत्र च ॥ २० ॥

प्रायश्चित्ती च विधुरस्तथा पापचरो गृही ।
प्रकुर्यात् तीर्थसंसेवां ये चान्ये तादृशा जनाः ॥ २१ ॥

सहाग्निर्वा सपत्नीको गच्छेत् तीर्थानि यत्नतः ।
सर्वपापविनिर्मुक्तो यथोक्तां गतिमाप्नुयात् ॥ २२ ॥

ऋणानि त्रीण्यपाकृत्य कुर्याद् वा तीर्थसेवनम् ।
विधाय वृत्तिं पुत्राणां भार्यां तेषु निधाय च ॥ २३ ॥

प्रायश्चित्तप्रसङ्गेन तीर्थमाहात्म्यमीरितम् ।
यः पठेच्छृणुयाद् वापि मुच्यते सर्वपातकैः ॥ २४ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे द्विचत्वारिंशो ऽध्यायः