सूत उवाच
विश्वास-प्रस्तुतिः
इदं त्रैलोक्यविख्यातं तीर्थं नैमिशमुत्तमम् ।
महादेवप्रियकरं महापातकनाशनम् ॥ १ ॥
मूलम्

महादेवं दिदृक्षूणामृषीणणां परमेष्ठिनाम् ।
ब्रहामणा निर्मितं स्थानं तपस्तप्तुं द्विजोत्तमाः ॥ २ ॥

मरीचयो ऽत्रयो विप्रा वसिष्ठाः क्रतवस्तथा ।
भृगवो ऽङ्गिरसः पूर्वा ब्रह्माणं कमलोद्भवम् ॥ ३ ॥

समेत्य सर्ववरदं चतुर्मूर्ति चतुर्मुखम् ।
पृच्छन्ति प्रणिपत्यैनं विश्वकर्माणमच्युतम् ॥ ४ ॥

भगवन् देवमीशानं भर्गमेकं कपर्दिनम् ।
केनोपायेन पश्यामो ब्रूहि देवनमस्कृतम् ॥ ५ ॥

सत्रं सहस्रमासध्वं वाङ्मनोदोषवर्जिताः ।
देशं च वः प्रवक्ष्यामि यस्मिन् देशे चरिष्यथ ॥ ६ ॥

क्षिप्तमेतन्मया चक्रमनुव्रजत मा चिरम् ।
यत्रास्य नेमिः शीर्येत स देशः पुरुषर्षभाः ॥ ७ ॥

तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्यत ।
नैमिसं तत्स्मृतं नाम्ना पुण्यं सर्वत्र पूजितम् ॥ ८ ॥

सिद्धचारणसङ्कीर्णं यक्षगन्धर्वसेवितम् ।
स्थानं भगवतः शम्भोरेतन्नैमिशमुत्तमम् ॥ ९ ॥

अत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ।
तपस्तप्त्वा पुरा देवा लेभिरे प्रवरान् वरान् ॥ १० ॥

इमं देशं समाश्रित्य षट्कुलीयाः समाहिताः ।
सत्रेणाराध्य देवेशं दृष्टवन्तो महेश्वरम् ॥ ११ ॥

अत्र दानं तपस्तप्तं स्नानं जप्यादिकं च यत् ।
एकैकं पावयेत् पापं सप्तजन्मकृतं द्विजाः ॥ १२ ॥

अत्र पूर्वं स भगवानृषीणां सत्रमासताम् ।
प्रोवाच वायुर्ब्रह्माण्डं पुराणं ब्रह्मभाषितम् ॥ १३ ॥

अत्र देवो महादेवो रुद्राण्या किल विश्वकृत् ।
रमते ऽध्यापि भगवान् प्रमथैः परिवारितः ॥ १४ ॥

अत्र प्राणान् परित्यज्य नियमेन द्विजातयः ।
ब्रह्मलोकं गमिष्यन्ति यत्र गत्वा न जायते ॥ १५ ॥

अन्यच्च तीर्थप्रवरं जाप्येश्वरमितिश्रुतम् ।
जजाप रुद्रमनिशं यत्र नन्दी महागणः ॥ १६ ॥

प्रीतस्तस्य महादेवो देव्या सह पिनाकधृक् ।
ददावात्मसमानत्वं मृत्युवञ्चनमेव च ॥ १७ ॥

अभूदृषिः स धर्मात्मा शिलादो नाम धर्मवित् ।
आराधयन्महादेवं पुत्रार्थं वृषभध्वजम् ॥ १८ ॥

तस्य वर्षसहस्रान्ते तप्यमानस्य विश्वकृत् ।
शर्वः सोमो गणवृतो वरदो ऽस्मीत्यभाषत ॥ १९ ॥

स वव्रे वरमीशानं वरेण्यं गिरिजापतिम् ।
अयोनिजं मृत्युहीनं देहि पुत्रं त्वया समम् ॥ २० ॥

तथास्त्वित्याह भगवान् देव्या सह महेश्वरः ।
पश्यतस्तस्य विप्रर्षेरन्तर्धानं गतो हरः ॥ २१ ॥

ततो यियक्षुः स्वां भूमिं शिलादो धर्मवित्तमः ।
चकर्ष लाङ्गलेनोर्वों भित्त्वादृश्यत शोभनः ॥ २२ ॥

संवर्तकानलप्रख्यः कुमारः प्रहसन्निव ।
रूपलावण्यसम्पन्नस्तेजसा भासयन् दिशः ॥ २३ ॥

कुमारतुल्यो ऽप्रतिमो मेघगम्भीरया गिरा ।
शिलादं तात तातेति प्राह नन्दी पुनः पुनः ॥ २४ ॥

तं दृष्ट्वा नन्दनं जातं शिलादः परिषस्वजे ।
मुनिभ्यो दर्शयामास ये तदाश्रमवासिनः ॥ २५ ॥

जातकर्मादिकाः सर्वाः क्रियास्तस्य चकार ह ।
उपनीय यथाशास्त्रं वेदमध्यापयत् सुतम् ॥ २६ ॥

अधीतवेदो भगवान् नन्दी मतिमनुत्तमाम् ।
चक्रे महेश्वरं द्रष्टुं जेष्ये मृत्युमिति प्रभुम् ॥ २७ ॥

स गत्वा सरितं पुण्यामेकाग्रश्रद्धयान्वितः ।
जजाप रुद्रमनिशं महेशासक्तमानसः ॥ २८ ॥

तस्य कोट्यां तु पूर्णायां शङ्करो भक्तवत्सलः ।
आगत्य साम्बः सगणो वरदो ऽस्मीत्युवाच ह ॥ २९ ॥

स वव्रे पुनरेवाहं जपेयं कोटिमीश्वरम् ।
तावदायुर्महादेव देहीति वरमीश्वर ॥ ३० ॥
मूलम्
स वव्रे पुनरेवाहं जपेयं कोटिमीश्वरम् ।
तावदायुर्महादेव देहीति वरमीश्वर ॥ ३० ॥
विश्वास-प्रस्तुतिः
एवमस्त्विति सम्प्रोच्य देवो ऽप्यन्तरधीयत ।
जजाप कोटिं भगवान् भूयस्तद्गतमानसः ॥ ३१ ॥

द्वितीयायां च कोट्यां वै सम्पूर्णायां वृषध्वजः ।
आगत्य वरदो ऽस्मीति प्राह भूतगणैर्वृतः ॥ ३२ ॥

तृतीयां जप्तुमिच्छामि कोटिं भूयो ऽपि शङ्कर ।
तथास्त्वित्याह विश्वात्मा देवो ऽप्यन्तरधीयत ॥ ३३ ॥

कोटित्रये ऽथ सम्पूर्णे देवः प्रीतमना भृशम् ।
आगत्य वरदो ऽस्मीति प्राह भूतगणैर्वृतः ॥ ३४ ॥

जपेयं कोटिमन्यां वै भूयो ऽपि तव तेजसा ।
इत्युक्ते भगवानाह न जप्तव्यं त्वया पुनः ॥ ३५ ॥

अमरो जरया त्यक्तो मम पार्श्वगतः सदा ।
महागणपतिर्देव्याः पुत्रो भव महेश्वरः ॥ ३६ ॥

योगीश्वरो योगनेता गणानामीश्वरेश्वरः ।
सर्वलोकाधिपः श्रीमान् सर्वज्ञो मद्बलान्वितः ॥ ३७ ॥

ज्ञानं तन्मामकं दिव्यं हस्तामलकवत् तव ।
आभूतसम्प्लवस्थायी ततो यास्यसि मत्पदम् ॥ ३८ ॥

एतदुक्त्वा महादेवो गणानाहूय शङ्करः ।
अभिषेकेण युक्तेन नन्दीश्वरमयोजयत् ॥ ३९ ॥

उद्वाहयामास च तं स्वयमेव पिनाकधृक् ।
मरुतां च शुभां कन्यां सुयशेति च विश्रुताम् ॥ ४० ॥

एतज्जप्येश्वरं स्थानं देवदेवस्य शूलिनः ।
यत्र तत्र मृतो मर्त्यो रुद्रलोके महीयते ॥ ४१ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे एकचत्वारिंशो ऽध्यायः