मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
ततो गच्छेत राजेन्द्र भृगुतीर्थ मनुत्तमम् ।
तत्र देवो भृगुः पुर्वं रुद्रमाराधयत् पुरा ॥ १ ॥
मूलम्

दर्शनात् तस्य देवस्य सद्यः पापात् प्रमुच्यते ।
एतत् क्षेत्रं सुविपुलं सर्वपापप्रणाशनम् ॥ २ ॥

उपानहोस्तथा युग्मं देयमन्नं सकाञ्चनम् ।
भोजनं च यथाशक्ति तदस्याक्षयमुच्यते ॥ ३ ॥

क्षरन्ति सर्वदानानि यज्ञदानं तपः क्रिया ।
अक्षयं तत् तपस्तप्तं भृगुतीर्थे युधिष्ठिर ॥ ४ ॥

तस्यैव तपसोग्रेण तुष्टेन त्रिपुरारिणा ।
सान्निध्यं तत्र कथितं भृगुतीर्थे युधिष्ठिर ॥ ५ ॥

ततो गच्छेत राजेन्द्र गौतमेश्वरमुत्तमम् ।
यत्राराध्य त्रिशूलाङ्कं गौतमः सिद्धिमाप्नुयात् ॥ ६ ॥

तत्र स्नात्वा नरो राजन् उपवासपरायणः ।
काञ्चनेन विमानेन ब्रह्मलोके महीयते ॥ ७ ॥

वृषोत्सर्गं ततो गच्छेच्छाश्वतं पदमाप्नुयात् ।
न जानन्ति नरा मूढा विष्णोर्मायाविमोहिताः ॥ ८ ॥

नर्मदायां स्थितं राजन् सर्वपातकनाशनम् ।
तत्र तीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति ॥ ९ ॥

तत्र तीर्थे तु राजेन्द्र प्राणत्यागं करोति यः ।
चतुर्भुजस्त्रिनेत्रश्च हरतुल्यबलो भवेत् ॥ १० ॥

वसेत् कल्पायुतं साग्रं शिवतुल्यपराक्रमः ।
कालेन महता जातः पृथिव्यामेकराड् भवेत् ॥ ११ ॥

ततो गच्छेत राजेन्द्र हंसतीर्थ मनुत्तमम् ।
तत्र स्नात्वा नरो राजन् ब्रह्मलोके महीयते ॥ १२ ॥

ततो गच्छेत राजेन्द्र सिद्धो यत्र जनार्दनः ।
वराहतीर्थ माख्यातं विष्णुलोकगतिप्रदम् ॥ १३ ॥

पौर्णमास्यां विशेषेण स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र चन्द्रलोके महीयते ॥ १४ ॥

शुक्लपक्षे तृतीयायां स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र पृथिव्यामेकराड् भवेत् ॥ १५ ॥

देवतीर्थ ततो गच्छेत् सर्वदेवनमकृतम् ।
तत्र स्नात्वा च राजेन्द्र दैवतैः सह मोदते ॥ १६ ॥

ततो गच्छेत राजेन्द्र शिखितीर्थमनुत्तमम् ।
यत् तत्र दीयते दानं सर्वं कोटिगुणं भवेत् ॥ १७ ॥

ततो गच्छेत राजेन्द्र तीर्थं पैतामहं शुभम् ।
यत्तत्र क्रियते श्राद्धं सर्वं तदक्षयं भवेत् ॥ १८ ॥

सावित्रीतीर्थमासाद्य यस्तु प्राणान् परित्यजेत् ।
विधूय सर्वपापानि ब्रह्मलोके महीयते ॥ १९ ॥

मनोहरं तु तत्रैव तीर्थं परमशोभनम् ।
तत्र स्नात्वा नरो राजन् दैवतैः सह मोदते ॥ २० ॥

ततो गच्छेत राजेन्द्र मानसं तीर्थमुत्तमम् ।
स्नात्वा तत्र नरो राजन् रुद्रलोके महीयते ॥ २१ ॥

स्वर्गबिन्दुं ततो गच्छेत्तीर्थं देवनमस्कृतम् ।
तत्र स्नात्वा नरो राजन् दुर्गतिं नैव गच्छति ॥ २२ ॥

अप्सरेशं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
क्रीडते नाकलोकस्थो ह्यप्सरोभिः स मोदते ॥ २३ ॥

उपोषितोर्ऽचयेदीशं रुद्रलोके महीयते ।
अस्मिंस्तीर्थे मृतो राजन् गाणपत्यमवाप्नुयात् ॥ २४ ॥

कार्तिके मासि देवेशमर्चयेत् पार्वतीपतिम् ।
अश्वमेधाद् दशगुणं प्रवदन्ति मनीषिणः ॥ २५ ॥

वृषभं यः प्रयच्छेत तत्र कुन्देन्दुसप्रभम् ।
वृषयुक्तेन यानेन रुद्रलोकं स गच्छति ॥ २६ ॥

एतत् तीर्थं समासाद्य यस्तु प्राणान् परित्यजेत् ।
सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥ २७ ॥

जलप्रवेशं यः कुर्यात् तस्मिंस्तीर्थे नराधिप ।
हंसयुक्तेन यानेन स्वर्गलोकं स गच्छति ॥ २८ ॥

एरण्ड्या नर्मदायास्तु सङ्गमं लोकविश्रुतम् ।
तत्र तीर्थं महापुण्यं सर्वपापप्रणाशनम् ॥ २९ ॥

उपवासपरो भूत्वा नित्यं व्रतपरायणः ।
तत्र स्नात्वा तु राजेन्द्र मुच्यते ब्रह्महत्यया ॥ ३० ॥

ततो गच्छेत राजेन्द्र नर्मदोदधिसङ्गमम् ।
जमदग्निरिति ख्यातः सिद्धो यत्र जनार्दनः ॥ ३१ ॥

तत्र स्नात्वा नरो राजन् नर्मदोदधिसङ्गमे ।
त्रिगुणं चाश्वमेधस्य फलं प्राप्नोति मानवः ॥ ३२ ॥

ततो गच्छेत राजेन्द्र पिङ्गलेश्वरमुत्तमम् ।
तत्र स्नात्वा नरो राजन् रुद्रलोके महीयते ॥ ३३ ॥

तत्रोपवासं यः कृत्वा पश्येत विमलेश्वरम् ।
सप्तजन्मकृतं पापं हित्वा याति शिवालयम् ॥ ३४ ॥

उपोष्य रजनीमेकां नियतो नियताशनः ।
अस्य तीर्थस्य माहात्म्यान्मुच्यते ब्रह्महत्यया ॥ ३५ ॥

एतानि तव सङ्क्षेपात् प्राधान्यात् कथितानि तु ।
न शक्या विस्तराद् वक्तुं सङ्ख्या तीर्थेषुपाण्डव ॥ ३६ ॥

एषा पवित्रा विमला नदी त्रैलोक्यविश्रुता ।
नर्मदा सरितां श्रेष्ठा महादेवस्य वल्लभा ॥ ३७ ॥

मनसा संस्मरेद्यस्तु नर्मदां वै युधिष्ठिर ।
चान्द्रायणशतं साग्रं लभते नात्र संशयः ॥ ३८ ॥

अश्रद्दधानाः पुरुषा नास्तिक्यं घोरमाश्रिताः ।
पतन्ति नरके घोरे इत्याह परमेश्वरः ॥ ३९ ॥

नर्मदां सेवते नित्यं स्वयं देवो महेश्वरः ।
तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणी ॥ ४० ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे चत्वारिंशो ऽध्यायः