मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
नर्मदा सरितां श्रेष्ठा सर्वपापविनाशिनी ।
मुनिभिः कथिता पूर्वमीश्वरेण स्वयम्भुवा ॥ १ ॥
मूलम्

मुनिभिः संस्तुता ह्येषा नर्मदा प्रवरा नदी ।
रुद्रगात्राद् विनिष्क्रान्ता लोकानां हितकाम्यया ॥ २ ॥

सर्वपापहरा नित्यं सर्वदेवनमस्कृता ।
संस्तुता देवगन्धर्वैरप्यरोभिस्तथैव च ॥ ३ ॥

नाम्ना भद्रेश्वरं पुण्यं सर्वपापहरं शुभम् ।
तत्र स्नात्वा नरो राजन् दैवतैः सह मोहते ॥ ४ ॥

ततो गच्छेत राजेन्द्र तीर्थमाम्रातकेश्वरम् ।
तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् ॥ ५ ॥

ततो ऽङ्गारेश्वरं गच्छेन्नियतो नियताशनः ।
सर्वपापविशुद्धात्मा रुद्रलोके महीयते ॥ ६ ॥

ततो गच्छेत राजेन्द्र केदारं नाम पुण्यदम् ।
तत्र स्नात्वोदकं कृत्वा सर्वान् कामानवाप्नुयात् ॥ ७ ॥

पिप्पलेशं ततो गच्छेत् सर्वपापविनाशनम् ।
तत्र स्नात्वा महाराज रुद्रलोके महीयते ॥ ८ ॥

ततो गच्छेत राजेन्द्र विमलेश्वरमुत्तमम् ।
तत्र प्राणान् परित्यज्य रुद्रलोकमवाप्नुयात् ॥ ९ ॥

ततः पुष्करिणीं गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र इन्द्रस्यार्धासनं लभेत् ॥ १० ॥

ततो गच्छेत राजेन्द्र शूलभेदमिति श्रुतम् ।
तत्र स्नात्वार्चयेद् देवं गोसहस्रफलं लभेत् ॥ ११ ॥

ततो गच्छेत राजेन्द्र बलितीर्थमनुत्तम् ।
तत्र स्नात्वा नरो राजन् सिहासनपतिर्भवेत् ॥ १२ ॥

शक्रतीर्थं ततो गच्छेत् कूले चैव तु दक्षिणे ।
उपोष्य रजनीमेकां स्नानं कृत्वा यथाविधि ॥ १३ ॥

आराधयेन्महायोगं देवं नारायणं हरिम् ।
गोसहस्रफलं प्राप्य विष्णुलोकं स गच्छति ॥ १४ ॥

ऋषितीर्थं ततो गत्वा सर्वपापहरं नृणाम् ।
स्नातमात्रो नरस्तत्र शिवलोके महीयते ॥ १५ ॥

नारदस्य तु तत्रैव तीर्थं परमशोभनम् ।
स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ॥ १६ ॥

यत्र तप्तं तपः पूर्वं नारदेन सुरर्षिणा ।
प्रतीस्तस्य ददौ योगं देवदेवो महेश्वरः ॥ १७ ॥

ब्रह्मणा निर्मितं लिङ्गं ब्रह्मेश्वरमिति श्रुतम् ।
यत्र स्नात्वा नरो राजन् ब्रह्मलोके महीयते ॥ १८ ॥

ऋणतीर्थं ततो गच्छेत् स ऋणान्मुच्यते ध्रुवम् ।
महेश्वरं ततो गच्छेत् पर्याप्तं जन्मनः फलम् ॥ १९ ॥

भीमेश्वरं ततो गच्छेत् सर्वव्याधिविनाशनम् ।
स्नातमात्रो नरस्तत्र सर्वदुःखैः प्रमुच्यते ॥ २० ॥

ततो गच्छेत राजेन्द्र पिङ्गलेश्वरमुत्तमम् ।
अहोरात्रोपवासेन त्रिरात्रफलमाप्नुयात् ॥ २१ ॥

यावन्ति तस्या रोमाणि तत्प्रसूतिकुलेषु च ।
तावद् वर्षसहस्राणि रुद्रलोके महीयते ॥ २२ ॥

यस्तु प्राणपरित्यागं कुर्यात् तत्र नराधिप ।
अक्षयं मोदते कालं यावच्चन्द्रदिवाकरौ ॥ २३ ॥

नर्मदातटमाश्रित्य तिष्ठन्ते ये तु मानवाः ।
ते मृताः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ २४ ॥

निवर्तिता पुरा तत्र व्यासभीता महानदी ।
हुङ्कारिता तु व्यासेन दक्षिणेन ततो गता ॥ २५ ॥

प्रदक्षिणं तु यः कुर्यात् तस्मिंस्तीर्थे युधिष्ठिर ।
प्रीतस्तस्य भवेद् व्यासो वाञ्छितं लभते फलम् ॥ २६ ॥

त्रैलोक्यविश्रुतं पुण्यं तत्र सन्निहितः शिवः ।
तत्र स्तनात्वा नरो राजन् गाणपत्यमवाप्नुयात् ॥ २७ ॥

स्कन्दतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ।
आजन्मनः कृतं पापं स्नातस्तीव्रं व्यपोहति ॥ २८ ॥

तत्र देवाः सगन्धर्वा भवात्मजमनुत्तमम् ।
उपासते महात्मानं स्कन्दं शक्तिधिरं प्रभुम् ॥ २९ ॥

ततो गच्छेदाङ्गिरसं स्नानं तत्र समाचरेत् ।
गोसहस्रफलं प्राप्य रुद्रलोकं स गच्छति ॥ ३० ॥

अङ्गिरा यत्र देवेशं ब्रह्मपुत्रो वृषध्वजम् ।
तपसाराध्य विश्वेशं लब्धवान् योगमुत्तमम् ॥ ३१ ॥

कुशतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ।
स्नानं तत्र प्रकुर्वोत अश्वमेधफलं लभेत् ॥ ३२ ॥

कोटितीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ।
तत्र स्त्रात्वा नरो राज्यं लभते नात्र संशयः ॥ ३३ ॥

चन्द्रभागां ततो गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र सोमलोके महीयते ॥ ३४ ॥

नर्मदादक्षिणे कूले सङ्गमेश्वरमुत्तमम् ।
तत्र स्नात्वा नरो राजन् सर्वयज्ञफलं लभेत् ॥ ३५ ॥

नर्मदायोत्तरे कूले तीर्थं परमशोभनम् ।
आदित्यायतनं रम्यमीश्वरेण तु भाषितम् ॥ ३६ ॥

तत्र स्नात्वा तु राजेन्द्र दत्त्वा दानं तु शक्तितः ।
तस्य तीर्थप्रभावेण लभते चाक्षयं फलम् ॥ ३७ ॥

दरिद्रा व्याधिता ये तु ये च दुष्कृतकारिणः ।
मुच्यन्ते सर्वपापेभ्यः सूर्यलोकं प्रयान्ति च ॥ ३८ ॥

मार्गेश्वरं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र स्वर्गलोकमवाप्नुयात् ॥ ३९ ॥

ततः पश्चिमतो गच्छेन्मरुदालयमुत्तमम् ।
तत्र स्नात्वा तु राजेन्द्र शुचिर्भूत्वा प्रयत्नतः ॥ ४० ॥

काञ्चनं तु द्विजो दद्याद् यथाविभवविस्तरम् ।
पुष्पकेण विमानेन वायुलोकं स गच्छति ॥ ४१ ॥

ततो गच्छेत राजेन्द्र अहल्यातीर्थमुत्तमम् ।
स्नानमात्रादप्सरोभिर्मोदते कालमक्षयम् ॥ ४२ ॥

चैत्रमासे तु सम्प्राप्ते शुक्लपक्षे त्रयोदशी ।
कामदेवदिने तस्मिन्नहल्यां यस्तु पूजयेत् ॥ ४३ ॥

यत्र तत्र नरोत्पन्नो वरस्तत्र प्रियो भवेत् ।
स्त्रीवल्लभो भवेच्छ्रीमान् कामदेव इवापरः ॥ ४४ ॥

अयोध्यां तु समासाद्य तीर्थं शक्रस्य विश्रुतम् ।
स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ॥ ४५ ॥

सोमतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते ॥ ४६ ॥

सोमग्रहे तु राजेन्द्र पापक्षयकरं भवेत् ।
त्रैलोक्यविश्रुतं राजन् सोमतीर्थं महाफलम् ॥ ४७ ॥

यस्तु चान्द्रायणं कुर्यात् तत्र तीर्थे समाहितः ।
सर्वपापविशुद्धात्मा सोमलोकं स गच्छति ॥ ४८ ॥

अग्निप्रवेशं यः कुर्यात् सोमतीर्थे नराधिप ।
जले चानशनं वापि नासौ मर्त्यो ऽभिजायते ॥ ४९ ॥

स्तम्भतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र सोमलोके महीयते ॥ ५० ॥

ततो गच्छेत राजेन्द्र विष्णुतीर्थमनुत्तमम् ।
योधनीपुरमाख्यातं विष्णोः स्थानमनुत्तमम् ॥ ५१ ॥

तत्र तीर्थं समुत्पन्नं विष्णुश्रीको भवेदिह ।
अहोरात्रोपवासेन ब्रह्महत्यां व्यपोहति ॥ ५२ ॥

नर्मदादक्षिणे कूले तीर्थं परमशोभनम् ।
कामतीर्थमिति ख्यातं यत्र कामोर्ऽचयद् भवम् ॥ ५३ ॥

तस्मिंस्तीर्थे नरः स्नात्वा उपवासपरायणः ।
कुसुमायुधरूपेण रुद्रोलोके महीयते ॥ ५४ ॥

ततो गच्छेत राजेन्द्र ब्रह्मतीर्थमनुत्तमम् ।
उमाहकमिति ख्यातं तत्र सन्तर्पयेत् पितॄन् ॥ ५५ ॥

पौर्णमास्याममावास्यां श्र्धं कुर्याद् यथाविधि ।
गजरूपा शिला तत्र तोयमध्ये व्यवस्थिता ॥ ५६ ॥

स्नात्वा समाहितमना दम्भमात्सर्यवर्जितः ।
तृप्यन्ति पितरस्तस्य यावत् तिष्ठति मेदिनी ॥ ५७ ॥

सिद्धेश्वरं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र गाणपत्यपदं लभेत् ॥ ५८ ॥

ततो गच्छेत राजेन्द्र लिङ्गो यत्र जनार्दनः ।
तत्र स्नात्वा तु राजेन्द्र विष्णुलोके महीयते ॥ ५९ ॥

यत्र नारायणो देवो मुनोनां भावितात्मनाम् ।
स्वात्मानं दर्शयामास लिङ्गं तत् परमं पदम् ॥ ६० ॥

स्नानं दानं च तत्रैव ब्राह्मणानां च भोजनम् ।
पिण्डप्रिदानं च कृतं प्रेत्यानन्तफलप्रदम् ॥ ६१ ॥

अङ्कोलमूले दद्याच्च पिण्डांश्चैव यथाविधि ।
तारिताः पितरस्तेन तृप्यन्त्याचन्द्रतारकम् ॥ ६२ ॥

ततो गच्छेत राजेन्द्र तापसेश्वरमुत्तमम् ।
तत्र स्नात्वा तु राजेन्द्र प्राप्नुयात् तपसः फलम् ॥ ६३ ॥

शुक्लतीर्थं ततो गच्छेत् सर्वपापविनाशनम् ।
नास्ति तेन सम तीर्थं नर्मदायां युधिष्ठिर ॥ ६४ ॥

दर्शनात् स्पर्शनात् तस्य स्नानदानतपोजपात् ।
होमाच्चैवोपवासाच्च शुक्लतीर्थे महत् फलम् ॥ ६५ ॥

योजनं तत् स्मृतं क्षेत्रं देवगन्धर्वसेवितम् ।
शुक्लतीर्थमिति ख्यातं सर्वपापविनाशनम् ॥ ६६ ॥

पादपाग्रेण दृष्टेन ब्रह्महत्यां व्यपोहति ।
देव्या सह सदा भर्गस्तत्र तिष्ठति शङ्करः ॥ ६७ ॥

कृष्णपक्षे चतुर्दश्यां वैशाखे मासि सुव्रत ।
कैलासाच्चाभिनिष्क्रम्य तत्र सन्निहितो हरः ॥ ६८ ॥

देवदानवगन्धर्वाः सिद्धविद्याधरास्तथा ।
गणाश्चाप्सरसां नागास्तत्र तिष्ठन्ति पुङ्गव ॥ ६९ ॥

आजन्मनि कृतं पापं शुक्लतीर्थे व्यपोहति ।
स्नानं दानं तपः श्राद्धमनन्तं तत्र दृश्यते ॥ ७० ॥

पूर्वे वयसि कर्माणि कृत्वा पापानि मानवः ।
अहोरात्रोपवासेन शुक्लतीर्थे व्यपोहति ॥ ७१ ॥

घृतेन स्नापयेद् देवमुपोष्य परमेश्वरम् ।
एकविंशत्कुलोपेतो न च्यवेदैश्वरात् पदात् ॥ ७२ ॥

तपसा ब्रह्मचर्येण यज्ञदानेन वा पुनः ।
न तां गतिमवाप्नोति शुक्लतीर्थे तु यां लभेत् ॥ ७३ ॥

शुक्लतीर्थं महातीर्थमृषिसिद्धनिषेवितम् ।
तत्र स्नात्वा नरो राजन् पुनर्जन्म न विन्दति ॥ ७४ ॥

अयने वा चतुर्दश्यां सङ्क्रान्तौ विषुवे तथा ।
स्नात्वा तु सोपवासः सन् विजितात्मा समाहितः ॥ ७५ ॥

दानं दद्याद् यथाशक्ति प्रीयेतां हरिशङ्करौ ।
एतत् तीर्थप्रभावेण सर्वं भवति चाक्षयम् ॥ ७६ ॥

अनाथं दुर्गतं विप्रं नाथवन्तमथापि वा ।
उद्वादयति यस्तीर्थे तस्य पुण्यफलं शृणु ॥ ७७ ॥

यावत् तद्रोमसङ्ख्या तु तत्प्रसूतिकुलेषु च ।
तावद् वर्षसहस्राणि रुद्रलोके महीयते ॥ ७८ ॥

कृष्णपक्षे चतुर्दश्यां माघमासे युधिष्ठिर ।
स्नानं कृत्वा नक्तभीजी न पश्येद् योनिसङ्कटम् ॥ ७९ ॥

सङ्गमे तु नरः स्नायादुपवासपरायणः ।
ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिताः ॥ ८० ॥

मृत्तिकां शिरसि स्थाप्य अवगाह्य च तज्जलम् ।
नर्मदोदकसम्मिश्रं मुच्यते सर्वकिल्बिषैः ॥ ८१ ॥

ततो गच्छेत राजेन्द्र तीर्थं कार्णाटिकेश्वरम् ।
गङ्गावतरते तत्र दिने पुण्ये न संशयः ॥ ८२ ॥

तत्र स्नात्वा च पीत्वा च दत्त्वा चैव यथाविधि ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ८३ ॥

नन्दितीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
प्रीयते तस्य नन्दीशः सोमलोके महीयते ॥ ८४ ॥

ततो गच्छेत राजेन्द्र तीर्थं त्वनरकं शुभम् ।
तत्र स्नात्वा नरो राजन् नरकं नैव पश्यति ॥ ८५ ॥

तस्मिंस्तीर्थे तु राजेन्द्र स्वान्यस्थीनि विनिक्षिपेत् ।
रूपवान् जायते लोके धनभोगसमन्वितः ॥ ८६ ॥

ततो गच्छेत राजेन्द्र कपिलातीर्थ मुत्तमम् ।
तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् ॥ ८७ ॥

ज्येष्ठमासे तु सम्प्राप्ते चतुर्दश्यां विशेषतः ।
तत्रोपोष्य नरो भक्त्या दद्याद् दीपं घृतेन तु ॥ ८८ ॥

घृतेन स्नापयेद् रुद्रं सघृतं श्रीफलं दहेत् ।
घण्टाभरणसंयुक्तां कपिलां वै प्रदापयेत् ॥ ८९ ॥

सर्वाभरणसंयुक्तः सर्वदेवनमस्कृतः ।
शिवतुल्यबलो भूत्वा शिववत् क्रीडते चिरम् ॥ ९० ॥

अङ्गारकदिने प्राप्ते चतुर्थ्यां तु विशेषतः ।
स्नापयित्वा शिवं दद्याद् ब्राह्मणेभ्यस्तु भोजनम् ॥ ९१ ॥

सर्वभोगसमायुक्तो विमानैः सार्वकामिकैः ।
गत्वा शक्रस्य भवनं शक्रेण सह मोदते ॥ ९२ ॥

अङ्गारकनवम्यां तु अमावास्यां तथैव च ।
स्नापयेत् तत्र यत्नेन रूपवान् सुभगो भवेत् ॥ ९३ ॥

ततो गच्छेत राजेन्द्र गणेश्वरमनुत्तमम् ।
श्रावणे मासी सम्प्राप्ते कृष्णपक्षे चतुर्दशी ॥ ९४ ॥

स्नातमात्रो नरस्तत्र रुद्रलोके महीयते ।
पितॄणां तर्पणं कृत्वा मुच्यते ऽसावॄणत्रयात् ॥ ९५ ॥

अकामो वा सकामो वा तत्र स्नात्वा तु मानवः ।
आजन्मजनितैः पापैर्मुच्यते नात्र संशयः ॥ ९६ ॥

तस्य वै पश्चिमे देशे समीपे नातिदूरतः ।
दशाश्वमेधिकं तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ ९७ ॥

उपोष्य रजनीमेकां मासि भाद्रपदे शुभे ।
अमावस्यां नरः स्नात्वा पूजयेद् वृषभध्वजम् ॥ ९८ ॥

काञ्चनेन विमानेन किङ्किणीजालमालिना ।
गत्वा रुद्रपुरं रम्यं रुद्रेण सह मोदते ॥ ९९ ॥

सर्वत्र सर्वदिवसे स्नानं तत्र समाचरेत् ।
पितॄणां तर्पणं कुर्यादश्वमेधफलं लभेत् ॥ १०० ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे एकोनचत्वारिशो ऽध्यायः