सूत उवाच
विश्वास-प्रस्तुतिः
एषा पुण्यतमा देवी देवगन्धर्वसेविता ।
नर्मदा लोकविख्याता तीर्थानामुत्तमा नदी ॥ १ ॥
मूलम्

तस्याः शृणुध्वं माहात्म्यं मार्कण्डेयेन भाषितम् ।
युधिष्ठिराय तु शुभं सर्वपापप्रणाशनम् ॥ २ ॥

श्रुतास्तु विविधा धर्मास्त्वत्प्रसादान्महामुने ।
माहात्म्यं च प्रयागस्य तीर्थानि विविधानि च ॥ ३ ॥

नर्मदा सर्वतीर्थानां मुख्या हि भवतेरिता ।
तस्यास्त्विदानीं माहात्म्यं वक्तुमर्हसि सत्तम ॥ ४ ॥

नर्मदा सरितां श्रेष्ठा रुद्रदेहाद् विनिः सृता ।
तारयेत् सर्वभूतानि स्थावराणि चराणि च ॥ ५ ॥

नर्मदायास्तु माहात्म्यं पुराणे यन्मया श्रुतम् ।
इदानीं तत्प्रवक्ष्यामि शृणुष्वैकमनाः शुभम् ॥ ६ ॥

पुण्या कनखले गङ्गा कुरुक्षेत्रे सरस्वती ।
ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा ॥ ७ ॥

त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम् ।
सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्मदम् ॥ ८ ॥

कलिङ्गदेशपश्चार्धे पर्वते ऽमरकण्टके ।
पुण्या च त्रिषु लोकेषु रमणीया मनोरमा ॥ ९ ॥

सदेवासुरगन्धर्वा ऋषयश्च तपोधनाः ।
तपस्तप्त्वा तु राजेन्द्र सिद्धिं तु परमां गताः ॥ १० ॥

तत्र स्नात्वा नरो राजन् नियमस्थो जितेन्द्रियः ।
उपोष्य रजनीमेकां कुलानां तारयेच्छतम् ॥ ११ ॥

योजनानां शतं साग्रं श्रूयते सरिदुत्तमा ।
विस्तारेण तु राजेन्द्र योजनद्वयमायता ॥ १२ ॥

षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च ।
पर्वतस्य समन्तात् तु तिष्ठन्त्यमरकण्टके ॥ १३ ॥

ब्रह्मचारी शुचिर्भूत्वा जितक्रोधो जितेन्द्रियः ।
सर्वहिंसानिवृत्तस्तु सर्वभूतहिते रतः ॥ १४ ॥

एवं सर्वसमाचारो यस्तु प्राणान् समुत्सृजेत् ।
तस्य पुण्यफलं राजन् शृणुष्वावहितो नृप ॥ १५ ॥

शतवर्षसहस्राणि स्वर्गे मोदति पाण्डव ।
सप्सरोगणसङ्कीर्णो दिव्यस्त्रीपरिवारितः ॥ १६ ॥

दिव्यगन्धानुलिप्तश्च दिव्यपुष्पोपशोभितः ।
क्रीडते देवलोके तु दैवतैः सह मोदते ॥ १७ ॥

ततः स्वर्गात् परिभ्रष्टो राजा भवति धार्मिकः ।
गृहं तु लभते ऽसौ वै नानारत्नसमन्वितम् ॥ १८ ॥

स्तम्भैर्मणिमयैर्दिव्यैर्वज्रवैदूर्यभूषितम् ।
आलेख्यवाहनैः शुभ्रैर्दासीदाससमन्वितम् ॥ १९ ॥

राजराजेश्वरः श्रीमान् सर्वस्त्रीजनवल्लभः ।
जीवेद् वर्षशतं साग्रं तत्र भोगसमन्वितः ॥ २० ॥

अग्निप्रवेशे ऽथ जले अथवानशने कृते ।
अनिवर्तिका गतिस्तस्य पवनस्याम्बरे यथा ॥ २१ ॥

पश्चिमे पर्वततटे सर्वपापविनाशनः ।
ह्रदो जलेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥ २२ ॥

तत्र पिण्डप्रदानेन सन्ध्योपासनकर्मणा ।
दशवर्षाणि पितरस्तर्पिताः स्युर्न संशयः ॥ २३ ॥

दक्षिणे नर्मदाकूले कपिलाख्या महानदी ।
सरलार्जुनसञ्च्छन्ना नातिदूरे व्यवस्थिता ॥ २४ ॥

सा तु पुण्या महाभागा त्रिषु लोकेषु विश्रुता ।
तत्र कोटिशतं साग्रं तीर्थानां तु युधिष्ठिर ॥ २५ ॥

तस्मिंस्तीर्थे तु ये वृक्षाः पतिताः कालपर्ययात् ।
नर्मदातोयसंस्पृष्टास्ते यान्ति परमां गतिम् ॥ २६ ॥

द्वितीया तु महाभागा विशल्यकरणी शुभा ।
तत्र तीर्थे नरः स्नात्वा विशल्यो भवति क्षणात् ॥ २७ ॥

कपिला च विशल्या च श्रूयते राजसत्तम ।
ईश्वरेण पुरा प्रोक्ता लोकानां हितकाम्यया ॥ २८ ॥

अनाशकं तु यः कुर्यात् तस्मिंस्तीर्थे नराधिप ।
सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥ २९ ॥

तत्र स्नात्वा नरो राजन्नश्वमेधफलं लभेत् ।
ये वसन्त्युत्तरे कूले रुद्रलोके वसन्ति ते ॥ ३० ॥

सरस्वत्यां च गङ्गायां नर्मदायां युधिष्ठिर ।
समं स्नानं च दानं च यथा मे शङ्करो ऽब्रवीत् ॥ ३१ ॥

परित्यजति यः प्रणान् पर्वते ऽमरकण्टके ।
वर्षकोटिशतं साग्रं रुद्रलोके महीयते ॥ ३२ ॥

नर्मदायां जलं पुण्यं फेनोर्मिसमलङ्कृतम् ।
पवित्रं शिरसा वन्द्य सर्वपापैः प्रमुच्यते ॥ ३३ ॥

नर्मदा सर्वतः पुण्या ब्रह्महत्यापहारिणी ।
अहोरात्रोपवासेन मुच्यते ब्रह्महत्यया ॥ ३४ ॥

जालेश्वरं तीर्थवरं सर्वपापविनाशनम् ।
तत्र गत्वा नियमवान् सर्वकामांल्लभेन्नरः ॥ ३५ ॥

चन्द्रसूर्योपरागे तु गत्वा ह्यमरकण्टकम् ।
अश्वमेधाद् दशगुणं पुण्यमाप्नोति मानवः ॥ ३६ ॥

एष पुण्यो गिरिवरो देवगन्धर्वसेवितः ।
नानाद्रुमलताकीर्णो नानापुष्पोपशोभितः ॥ ३७ ॥

तत्र सन्निहितो राजन् देव्या सह महेश्वरः ।
ब्रह्मा विष्णुस्तथा चेन्द्रो विद्याधरगणैः सह ॥ ३८ ॥

प्रदक्षिणं तु यः कुर्यात् पर्वतं ह्यमरकण्टकम् ।
पौण्डरीकस्य यज्ञस्य फलं प्राप्नोति मानः ॥ ३९ ॥

तत्र स्नात्वा महादेवमर्चयेद् वृषभध्वजम् ।
सङ्गमे नर्मदायास्तु रुद्रलोके महीयते ॥ ४० ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे अष्टात्रिशो ऽध्यायः