३७

ऋषय ऊचुः

विश्वास-प्रस्तुतिः

कथं दारुवनं प्राप्तो भगवान् गोवृषध्वजः ।
मोहयामास विप्रेन्द्रान् सूत वक्तुमिहार्हसि ॥ १ ॥

मूलम्

सूत उवाच
विश्वास-प्रस्तुतिः

पुरा दारुवन् रम्ये देवसिद्धनिषेविते ।
सपुत्रदारा मुनयस्तपश्चेरुः सहस्रशः ॥ २ ॥

प्रवृत्तं विविधं कर्म प्रकुर्वाणा यथाविधि ।
यजन्ति विविधैर्यज्ञैस्तपन्ति च महर्षयः ॥ ३ ॥

तेषां प्रवृत्तिविन्यस्तचेतसामथ शूलधृक् ।
ख्यापयन् स महादोषं ययौ दारुवनं हरः ॥ ४ ॥

कृत्वा विश्वगुरुं विष्णुं पार्श्वे देवो महेश्वरः ।
ययौ निवृत्तविज्ञानस्थापनार्थं च शङ्करः ॥ ५ ॥

आस्थाय विपुलं वेशमूनविंशतिवत्सरः ।
लीलालसो महाबाहुः पीनाङ्गश्चारुलोचनः ॥ ६ ॥

चामीकरवपुः श्रीमान् पूर्णचन्द्रनिभाननः ।
मत्तमातङ्गगामनो दिग्वासा जगदीश्वरः ॥ ७ ॥

कुशेशयमयीं मालं सर्वरत्नैरलङ्कृताम् ।
दधानो भगवानीशः समागच्छति सस्मितः ॥ ८ ॥

मूलम्

कुशेशयमयीं मालं सर्वरत्नैरलङ्कृताम् ।
दधानो भगवानीशः समागच्छति सस्मितः ॥ ८ ॥

विश्वास-प्रस्तुतिः

यो ऽनन्तः पुरुषो योनिर्लोकानामव्ययो हरिः ।
स्त्रीवेषं विष्णुरास्थाय सो ऽनुगच्छति शूलिनम् ॥ ९ ॥

सम्पूर्णचन्द्रवदनं पीनोन्नतपयोधरम् ।
शुचिस्मितं सुप्रसन्नं रणन्नुपुरकद्वयम् ॥ १० ॥

सुपीतवसनं दिव्यं श्यामलं चारुलोचनम् ।
उदारहंसचलनं विलासि सुमनोहरम् ॥ ११ ॥

मूलम्

सुपीतवसनं दिव्यं श्यामलं चारुलोचनम् ।
उदारहंसचलनं विलासि सुमनोहरम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

एवं स भगवानीशो देवदारुवने हरः ।
चचार हरिणा भिक्षां मायया मोहयन् जगत् ॥ १२ ॥

दृष्ट्वा चरन्तं विश्वेशं तत्र तत्र पिनाकिनम् ।
मायया मोहिता नार्यो देवदेवं समन्वयुः ॥ १३ ॥

विस्त्रस्तवस्त्राभरणास्त्यक्त्वा लज्जां पतिव्रताः ।
सहैव तेन कामार्ता विलासिन्यश्चरन्तिहि ॥ १४ ॥

ऋषीणां पुत्रका ये स्युर्युवानो जितमानसाः ।
अन्वगच्छन् हृषीकेशं सर्वे कामप्रपीडिताः ॥ १५ ॥

गायन्ति नृत्यन्ति विलासबाह्या नारीगणा मायिनमेकमीशम् । दृष्ट्वा सपत्नीकमतीवकान्त- मिच्छन्त्यथालिङ्गनमाचरन्ति ॥ १६ ॥ पदे निपेतुः स्मितमाचरन्ति गायन्ति गीतानि मुनीशपुत्राः । आलोक्य पद्मापतिमादिदेवं भ्रूभङ्गमन्ये विचरन्ति तेन ॥ १७ ॥ आसामथैषामपि वासुदेवो मायी मुरारिर्मनसि प्रविष्टः । करोति भोगान् मनसि प्रवृत्तिं मायानुभूयन्त इतिव सम्यक् ॥ १८ ॥ विभाति विश्वामरभूतभर्ता स माधवः स्त्रीगणमध्यविष्टः । अशेषशक्त्यासनसन्निविष्टो यथैकशक्त्या सह देवदेवः ॥ १९ ॥ करोति नृत्यं परमप्रभावं तदा विरूढः पुनरेव भूयः । ययौ समारुह्य हरिः स्वभावं तदीशवृत्तामृतमादिदेवः ॥ २० ॥
विश्वास-प्रस्तुतिः

दृष्ट्वा नारीकुलं रुद्रं पुत्राणामपि केशवम् ।
मोहयन्तं मुनिश्रेष्ठाः कोपं सन्दधिरे भृशम् ॥ २१ ॥

अतीव परुषं वाक्यं प्रोचुर्देवं कपर्दिनम् ।
शेषुश्च शापैर्विविधैर्मायया तस्य मोहिताः ॥ २२ ॥

तपांसि तेषां सर्वेषां प्रत्याहन्यन्त शङ्करे ।
यथादित्यप्रकाशेन तारका नभसि स्थिताः ॥ २३ ॥

ते भग्नतपसो विप्राः समेत्य वृषभध्वजम् ।
को भवानिति देवेशं पृच्छन्ति स्म विमोहिताः ॥ २४ ॥

सो ऽब्रवीद् भगवानीशस्तपश्चर्तुमिहागतः ।
इदानीं भार्यया देशे भवद्भिरिह सुव्रताः ॥ २५ ॥

तस्य ते वाक्यमाकर्ण्य भृग्वाद्या मुनिपुङ्गवाः ।
ऊचुर्गृहीत्वा वसनं त्यक्त्वा भार्यां तपश्चर ॥ २६ ॥

अथोवाच विहस्येशः पिनाकी नीललोहितः ।
सम्प्रेक्ष्य जगतो योनिं पार्श्वस्थं च जनार्दनम् ॥ २७ ॥

कथं भवद्भिरुदितं स्वभार्यापोषणोत्सुकैः ।
त्यक्तव्या मम भार्येति धर्मज्ञैः शान्तमानसैः ॥ २८ ॥

व्यभिचाररता नार्यः सन्त्याज्याः पतिनेरिताः ।
अस्माभिरेषा सुभगा तादृशी त्यागमर्हति ॥ २९ ॥

महादेव उवाच
विश्वास-प्रस्तुतिः

न कदाचिदियं विप्रा मनसाप्यन्यमिच्छति ।
नाहमेनामपि तथा विमुञ्चामि कदाचन ॥ ३० ॥

मूलम्

न कदाचिदियं विप्रा मनसाप्यन्यमिच्छति ।
नाहमेनामपि तथा विमुञ्चामि कदाचन ॥ ३० ॥

ऋषय ऊचुः
विश्वास-प्रस्तुतिः

दृष्ट्वा व्यभिचरन्तीह ह्यस्माभिः पुरुषाधम ।
उक्तं ह्यसत्यं भवता गम्यतां क्षिप्रमेव हि ॥ ३१ ॥

एवमुक्ते महादेवः सत्यमेव मयेरितम् ।
भवतां प्रतिभात्येषेत्युक्त्वासौ विचचार ह ॥ ३२ ॥

सो ऽगच्छद्धरिणा सार्धं मुनिन्द्रस्य महात्मनः ।
वसिष्ठस्याश्रमं पुण्यं भिक्षार्थो परमेश्वरः ॥ ३३ ॥

दृष्ट्वा समागतं देवं भिक्षमाणमरुन्धती ।
वसिष्ठस्य प्रिया भार्या प्रत्युद्गम्य ननाम नम् ॥ ३४ ॥

प्रक्षाल्य पादौ विमलं दत्त्वा चासनमुत्तमम् ।
विश्वास-प्रस्तुतिः

सम्प्रेक्ष्य शिथिलं गात्रमभिघातहतं द्विजैः ।
सन्धयामास भैषज्यैर्विष्णा वदना सती ॥ ३५ ॥

चकार महतीं पूजां प्रार्थयामास भार्यया ।
विश्वास-प्रस्तुतिः

को भवान् कुत आयातः किमाचारो भवानिति ।
उवाच तां महादेवः सिद्धानां प्रवरो ऽस्म्यहम् ॥ ३६ ॥

यदेतन्मण्डलं शुद्धं भाति ब्रह्ममयं सदा ।
एषैव देवता मह्यं धारयामि सदैव तत् ॥ ३७ ॥

हत्युक्त्वा प्रययौ श्रीमाननुगृह्य पतिव्रताम् ।
ताडयाञ्चक्रिरे दण्डैर्लोष्टिभिर्मुष्टिभिद्विजाः ॥ ३८ ॥

दृष्ट्वा चरन्तं गिरिशं नग्नं विकृतलक्षणम् ।
प्रोचुरेतद् भवांल्लिङ्गमुत्पाटयतु दुर्मते ॥ ३९ ॥

तानब्रवीन्महायोगी करिष्यामीति शङ्करः ।
युष्माकं मामके लिङ्गे यदि द्वेषो ऽभिजायते ॥ ४० ॥

इत्युक्त्वोत्पाटयामास भगवान् भगनेत्रहा ।
नापश्यंस्तत्क्षणेनेशं केशवं लिङ्गमेव च ॥ ४१ ॥

तदोत्पाता बभूवुर्हि लोकानां भयशंसिनः ।
विश्वास-प्रस्तुतिः

न राजते सहस्रांशुश्चचाल पृथिवी पुनः ।
निष्प्रभाश्च ग्रहाः सर्वे चुक्षुभे च महोदधिः ॥ ४२ ॥

अपश्यच्चानुसूयात्रेः स्वप्नं भार्या पतिव्रता ।
कथयामास विप्राणां भयादाकुलितेक्षणा ॥ ४३ ॥

तेजसा भासयन् कृत्स्नं नारायणसहायवान् ।
भिक्षमाणः शिवो नूनं दृष्टो ऽस्माकं गृहेष्विति ॥ ४४ ॥

तस्या वचनमाकर्ण्य शङ्कमाना महर्षयः ।
सर्वे जग्मुर्महायोगं ब्रह्माणं विश्वसम्भवम् ॥ ४५ ॥

उपास्यमानममलैर्योगिभिर्ब्रह्मवित्तमैः ।
चतुर्वेदैर्मूर्तिमद्भिः सावित्र्या सहितं प्रभुम् ॥ ४६ ॥

आसीनमासने रम्ये नानाश्चर्यसमन्विते ।
प्रभासहस्रकलिले ज्ञानैश्वर्यादिसंयुते ॥ ४७ ॥

विभ्राजमानं वपुषा सस्तितं शुभ्रलोचनम् ।
चतुर्मुखं महाबाहुं छन्दोमयमजं परम् ॥ ४८ ॥

विलोक्य वेदपुरुषं प्रसन्नवदनं शुभम् ।
शिरोभिर्धरणीं गत्वा तोषयामासुरीश्वरम् ॥ ४९ ॥

तान् प्रसन्नमना देवश्चतुर्मूर्तिश्चतुर्मुखः ।
व्याजहार मुनिश्रेष्ठाः किमागमनकारणम् ॥ ५० ॥

तस्य ते वृत्तमखिलं ब्रह्मणः परमात्मनः ।
ज्ञापयाञ्चक्रिरे सर्वे कृत्वा शिरसि चाञ्जलिम् ॥ ५१ ॥

कश्चिद् दारुवनं पुण्यं पुरुषो ऽतीवशोभनः ।
भार्यया चारुसर्वाङ्ग्या प्रविष्टो नग्न एव हि ॥ ५२ ॥

मोहयामास वपुषा नारीणां कुलमीश्वरः ।
कन्यकानां प्रिया चास्य दूषयामास पुत्रकान् ॥ ५३ ॥

अस्माभिर्विविधाः शापाः प्रदत्ताश्च पराहताः ।
ताडितो ऽस्माभिरत्यर्थं लिङ्गन्तु विनिपातितम् ॥ ५४ ॥

अन्तर्हितश्च भगवान् सभार्यो लिङ्गमेव च ।
उत्पाताश्चाभवन् घोराः सर्वभूतभयङ्कराः ॥ ५५ ॥

क एष पुरुषो देव भीताः स्म पुरुषोत्तम ।
भवन्तमेव शरणं प्रपन्ना वयमच्युत ॥ ५६ ॥

मूलम्

क एष पुरुषो देव भीताः स्म पुरुषोत्तम ।
भवन्तमेव शरणं प्रपन्ना वयमच्युत ॥ ५६ ॥

विश्वास-प्रस्तुतिः

त्वं हि वेत्सि जगत्यस्मिन् यत्किञ्चिदपि चेष्टितम् ।
अनुग्रहेण विश्वेश तदस्माननुपालय ॥ ५७ ॥

विज्ञापितो मुनिगणैर्विश्वात्मा कमलोद्भवः ।
ध्यात्वा देवं त्रिशूलाङ्कं कृताञ्जलिरभाषत ॥ ५८ ॥

ब्रह्मोवाच
विश्वास-प्रस्तुतिः

हा कष्टं भवतामद्य जातं सर्वार्थनाशनम् ।
धिग्बलं धिक् तपश्चर्या मिथ्यैव भवतामिह ॥ ५९ ॥

सम्प्राप्य पुण्यसंस्कारान्निधीनां परमं निधिम् ।
उपेक्षितं वृथाचारैर्भवद्भिरिह मोहितैः ॥ ६० ॥

काङ्क्षन्ते योगिनो नित्यं यतन्तो यतयो निधिम् ।
यमेव तं समासाद्य हा भवद्भिरुपेक्षितम् ॥ ६१ ॥

यजन्ति यज्ञैर्विविधैर्यत्प्राप्त्यैर्वेदवादिनः ।
महानिधिं समासाद्य हा भवद्भिरुपेक्षितम् ॥ ६२ ॥

यं समासाद्य देवानैमैश्वर्यमखिलं जगत् ।
तमासाद्याक्षयनिधिं हा भवद्भिरुपेक्षितम् ॥ ६३ ॥

यत्समापत्तिजनितं विश्वेशत्वमिदं मम ।
तदेवोपेक्षितं दृष्ट्वा निधानं भाग्यवर्जितैः ॥ ६४ ॥

यस्मिन् समाहितं दिव्यमैश्वर्यं यत् तदव्ययम् ।
तमासाद्य निधिं ब्राह्म हा भवद्भिर्वृथाकृतम् ॥ ६५ ॥

एष देवो महादेवो विज्ञेयस्तु महेश्वरः ।
न तस्य परमं किञ्चित् पदं समधिगम्यते ॥ ६६ ॥

देवतानामृषीणां च पितॄणां चापि शाश्वतः ।
विश्वास-प्रस्तुतिः

सहस्रयुगपर्यन्ते प्रलये सर्वदेहिनाम् ।
संहरत्येष भगवान् कालो भूत्वा महेश्वरः ॥ ६७ ॥

एष चैव प्रजाः सर्वाः सृजत्येकः स्वतेजसा ।
एष चक्री च वज्री च श्रीवत्सकृतलक्षणः ॥ ६८ ॥

योगी कृतयुगे देवस्त्रेतायां यज्ञ उच्यते ।
द्वापरे भगवान् कालो धर्मकेतुः कलौ युगे ॥ ६९ ॥

रुद्रस्य मूर्तयस्तिस्त्रो याभिर्विश्वमिदं ततम् ।
तमो ह्यग्नी रजो ब्रह्मा सत्त्वं विष्णुरिति प्रभुः ॥ ७० ॥

मूर्तिरन्या स्मृता चास्य दिग्वासा वै शिवा ध्रुवा ।
यत्र तिष्ठति तद् ब्रह्म योगेन तु समन्वितम् ॥ ७१ ॥

या चास्य पार्श्वगा भार्या भवद्भिरभिवीक्षिता ।
सा हि नारायणो देवः परमात्मा सनातनः ॥ ७२ ॥

तस्मात् सर्वमिदं जातं तत्रैव च लयं व्रजेत् ।
स एव मोहयेत् कृत्स्नं स एव परमा गतिः ॥ ७३ ॥

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
एकशृङ्गो महानात्मा पुराणो ऽष्टाक्षरो हरिः ॥ ७४ ॥

चतुर्वेदश्चतुर्मूर्तिस्त्रिमूर्तिस्त्रिगुणः परः ।
एकमूर्तिरमेयात्मा नारायण इति श्रुतिः ॥ ७५ ॥

ऋतस्य गर्भो भगवानापो मायातनुः प्रभुः ।
स्तूयते विविधैर्मन्त्रैर्ब्राह्मणैर्धर्ममोक्षिभिः ॥ ७६ ॥

संहृत्य सकलं विश्वं कल्पान्ते पुरुषोत्तमः ।
शेते योगामृतं पीत्वा यत् तद् विष्णोः परं पदम् ॥ ७७ ॥

न जायते न म्रियते वर्धते न च विश्वसृक् ।
मूलप्रकृतिरव्यक्ता गीयते वैदिकैरजः ॥ ७८ ॥

ततो निशायां वृत्तायां सिसृक्षुरखिलञ्जगत् ।
अजस्य नाभौ तद् बीजं क्षिपत्येष महेश्वरः ॥ ७९ ॥

तं मां वित्त महात्मानं ब्रह्माणं विश्वतो मुखम् ।
महान्तं पुरुषं विश्वमपां गर्भमनुत्तमम् ॥ ८० ॥

न तं विदाथ जनकं मोहितास्तस्य मायया ।
देवदेवं महादेवं भूतानामीश्वरं हरम् ॥ ८१ ॥

एष देवो महादेवो ह्यनादिर्भगवान् हरः ।
विष्णुना सह संयुक्तः करोति विकरोति च ॥ ८२ ॥

न तस्य विद्यते कार्यं न तस्माद् विद्यते परम् ।
स वेदान् प्रददौ पूर्वं योगमायातनुर्मम ॥ ८३ ॥

स मायी मायया सर्वं करोति विकरोति च ।
तमेव मुक्तये ज्ञात्वा व्रजेत शरणं भवम् ॥ ८४ ॥

इतीरिता भगवता मरीचिप्रमुखा विभुम् ।
प्रणम्य देवं ब्रह्माणं पृच्छन्ति स्म सुदुः खिताः ॥ ८५ ॥

मुनय ऊचुः
विश्वास-प्रस्तुतिः

कथं पश्येम तं देवं पुनरेव पिनाकिनम् ।
ब्रूहि विश्वामरेशान त्राता त्वं शरणैषिणाम् ॥ ८६ ॥

पितामह उवाच
विश्वास-प्रस्तुतिः

यद् दृष्टं भवता तस्य लिङ्गं भुवि निपातितम् ।
तल्लिङ्गानुकृतीशस्य कृत्वा लिङ्गमनुत्तमम् ॥ ८७ ॥

पूजयध्वं सपत्नीकाः सादरं पुत्रसंयुताः ।
वैदिकैरेव नियमैर्विविधैर्ब्रह्मचारिणः ॥ ८८ ॥

संस्थाप्य शाङ्करैर्मन्त्रैरृग्यजुः सामसम्भवैः ।
तपः परं समास्थाय गृणन्तः शतरुद्रियम् ॥ ८९ ॥

समाहिताः पूजयध्वं सपुत्राः सह बन्धुभिः ।
सर्वे प्राञ्जलयो भूत्वा शूलपाणिं प्रपद्यथ ॥ ९० ॥

ततो द्रक्ष्यथ देवेशं दुर्दर्शमकृतात्मभिः ।
यं दृष्ट्वा सर्वमज्ञानमधर्मश्च प्रणश्यति ॥ ९१ ॥

ततः प्रणम्य वरदं ब्रह्माणममितौजसम् ।
जग्मुः संहृष्टमनसो देवदारुवनं पुनः ॥ ९२ ॥

आराधयितुमारब्धा ब्रह्मणा कथितं यथा ।
अजानन्तः परं देवं वीतरागा विमत्सराः ॥ ९३ ॥

स्थण्डिलेषु विचित्रेषु पर्वतानां गुहासु च ।
नदीनां च विविक्तेषु पुलिनेषु शुभेषु च ॥ ९४ ॥

शैवालभोजनाः केचित् केचिदन्तर्जलेशयाः ।
केचिदभ्रावकाशास्तु पादाङ्गुष्ठाग्रविष्ठिताः ॥ ९५ ॥

दन्तो ऽलूखलिनस्त्वन्ये ह्यश्मकुट्टास्तथा परे ।
शाकपर्णाशिनः केचित् सम्प्रक्षाला मरीचिपाः ॥ ९६ ॥

वृक्षमूलनिकेताश्च शिलाशय्यास्तथा परे ।
कालं नयन्ति तपसा पूजयन्तो महेश्वरम् ॥ ९७ ॥

ततस्तेषां प्रसादार्थं प्रपन्नार्तिहरो हरः ।
चका भगवान् बुद्धिं प्रबोधाय वृषध्वजः ॥ ९८ ॥

देवः कृतयुगे ह्यस्मिन् शृङ्गे हिमवतः शुभे ।
देवदारुवनं प्राप्तः प्रसन्नः परमेश्वरः ॥ ९९ ॥

भस्मपाण्डुरदिग्धाङ्गो नग्नो विकृतलक्षणः ।
उल्मुकव्यग्रहस्तश्च रक्तपिङ्गललोचनः ॥ १०० ॥

क्वचिच्च हसते रौद्रं क्वचिद् गायति विस्मितः ।
क्वचिन्नृत्यति शृङ्गारी क्वचिद्रौति मुहुर्मुहुः ॥ १०१ ॥

आश्रमे ऽभ्यागतो भिक्षां याचते च पुनः पुनः ।
मायां कृत्वात्मनो रूपं देवस्तद् वनमागतः ॥ १०२ ॥

कृत्वा गिरिसुतां गौरीं पार्श्वेदेवः पिनाकधृक् ।
सा च पूर्ववद् देवेशी देवदारुवनं गता ॥ १०३ ॥

दृष्ट्वा समागतं देवं देव्या सह कपर्दिनम् ।
प्रणेमुः शिरसा भूमौ तोषयामासुरीश्वरम् ॥ १०४ ॥

वैदिकैर्विविधैर्मन्त्रैः सूक्तैर्माहेश्वरैः शुभैः ।
अथर्वशिरसा चान्ये रुद्राद्यैर्ब्रह्मभिर्भवम् ॥ १०५ ॥

नमो देवादिदेवाय महादेवाय ते नमः ।
त्र्यम्बकाय नमस्तुभ्यं त्रिशूलवरधारिणे ॥ १०६ ॥

नमो दिग्वाससे तुभ्यं विकृताय पिनाकिने ।
सर्वप्रणतदेहाय स्वयमप्रणतात्मने ॥ १०७ ॥

मूलम्

नमो दिग्वाससे तुभ्यं विकृताय पिनाकिने ।
सर्वप्रणतदेहाय स्वयमप्रणतात्मने ॥ १०७ ॥

विश्वास-प्रस्तुतिः

अन्तकान्तकृते तुभ्यं सर्वसंहरणाय च ।
नमो ऽस्तु नृत्यशीलाय नमो भैरवरूपिणे ॥ १०८ ॥

नरनारीशरीराय योगिनां गुरवे नमः ।
नमो दान्ताय शान्ताय तापसाय हराय च ॥ १०९ ॥

विभीषणाय रुद्राय नमस्ते कृत्तिवाससे ।
नमस्ते लेलिहानाय शितिकण्ठाय ते नमः ॥ ११० ॥

अघोरघोररूपाय वामदेवाय वै नमः ।
नमः कनकमालाय देव्याः प्रियकराय च ॥ १११ ॥

गङ्गासलिलधाराय शम्भवे परमेष्ठिने ।
नमो योगाधिपतये ब्रह्माधिपतये नमः ॥ ११२ ॥

प्राणाय च नमस्तुभ्यं नमो भस्माङ्गरागिने ।
नमस्ते घनवाहाय दंष्ट्रिणे वह्निरेतसे ॥ ११३ ॥

ब्रह्मणश्च शिरो हर्त्रे नमस्ते कालरूपिणे ।
विश्वास-प्रस्तुतिः

आगतिं ते न जनीमो गतिं नैव च नैव च ।
विश्वेश्वर महादेव यो ऽसि सो ऽसि नमो ऽस्तु ते ॥ ११४ ॥

नमः प्रमथनाथाय दात्रे च शुभसम्पदाम् ।
विश्वास-प्रस्तुतिः

कपालपाणये तुभ्यं नमो मीढुष्टमाय ते ।
नमः कनकलिङ्गाय वारिलिङ्गाय ते नमः ॥ ११५ ॥

नमो वह्न्यर्कलिङ्गाय ज्ञानलिङ्गाय ते नमः ।
विश्वास-प्रस्तुतिः

नमो भुजङ्गहाराय कर्णिकारप्रियाय च ।
किरीटिने कुण्डलिने कालकालाय ते नमः ॥ ११६ ॥

वामदेव महेशान देवदेव त्रिलोचन ।
क्षम्यतां यत्कृतं मोहात् त्वमेव शरणं हि नः ॥ ११७ ॥

चरितानि विचित्राणि गुह्यानि गहनानि च ।
ब्रह्मादीनां च सर्वेषां दुर्विज्ञेयो ऽसि शङ्कर ॥ ११८ ॥

अज्ञानाद् यदि वा ज्ञानाद् यत्किञ्चित्कुरुते नरः ।
तत्सर्वं भगवानेन कुरुते योगमायया ॥ ११९ ॥

एवं स्तुत्वा महादेवं प्रहृष्टेनान्तरात्मना ।
ऊचुः प्रणम्य गिरिशं पश्यामस्त्वां यथा पुरा ॥ १२० ॥

तेषां संस्तवमाकर्ण्य सोमः मोमविभूषणः ।
स्वमेव परमं रूपं दर्शयामास शङ्करः ॥ १२१ ॥

तं ते दृष्ट्वाथ गिरिशं देव्या सह पिनाकिनम् ।
यथा पूर्वं स्थिता विप्राः प्रणेमुर्हृष्टमानसाः ॥ १२२ ॥

ततस्ते मुनयः सर्वे संस्तूय च महेश्वरम् ।
भृग्वङ्गिरोवसिष्ठास्तु विश्वामित्रस्तथैव च ॥ १२३ ॥

गौतमो ऽत्रिः सुकेशश्च पुलस्त्यः पुलहः क्रतुः ।
विश्वास-प्रस्तुतिः

मरीचिः कश्यपश्चापि संवर्तश्च महातपाः ।
प्रणम्य देवदेवेशमिदं वचनमब्रुवन् ॥ १२४ ॥

कथं त्वां देवदेवेश कर्मयोगेन वा प्रभो ।
ज्ञानेन वाथ योगेन पूजयामः सदैव हि ॥ १२५ ॥

केन वा देवमार्गेण सम्पूज्यो भगवानिह ।
किं तत् सेव्यमसेव्यं वा सर्वमेतद् ब्रवीहि नः ॥ १२६ ॥

देवदेव उवाच
विश्वास-प्रस्तुतिः

एतद् वः सम्प्रवक्ष्यामि गूढं गहनमुत्तमम् ।
ब्रह्मणे कथितं पूर्वमादावेव महर्षयः ॥ १२७ ॥

साङ्ख्ययोगो द्विधा ज्ञेयः पुरुषाणां हि साधनम् ।
योगेन सहितं साङ्ख्यं पुरुषाणां विमुक्तिदम् ॥ १२८ ॥

न केवलेन योगेन दृश्यते पुरुषः परः ।
ज्ञानं तु केवलं सम्यगपवर्गफलप्रदम् ॥ १२९ ॥

भवन्तः केवलं योगं समाश्रित्य विमुक्तये ।
विहाय साङ्ख्यं विमलमकुर्वन्त परिश्रमम् ॥ १३० ॥

एतस्मात् कारणाद् विप्रानृणां केवलधर्मिणाम् ।
आगतो ऽहमिमं देशं ज्ञापयन् मोहसम्भवम् ॥ १३१ ॥

तस्माद् भवद्भिर्विमलं ज्ञानं कैवल्यसाधनम् ।
ज्ञातव्यं हि प्रयत्नेन श्रोतव्यं दृश्यमेव च ॥ १३२ ॥

एकः सर्वत्रगो ह्यात्मा केवलश्चितिमात्रकः ।
आनन्दो निर्मलो नित्यं स्यादेतत् साङ्ख्यदर्शनम् ॥ १३३ ॥

एतदेव परं ज्ञानमेष मोक्षो ऽत्र गीयते ।
एतत् कैवल्यममलं ब्रह्मभावश्च वर्णितः ॥ १३४ ॥

आश्रित्य चैतत् परमं तन्निष्ठास्तत्परायणाः ।
पश्यन्ति मां महात्मानो यतयो विश्वमीश्वरम् ॥ १३५ ॥

एतत् तत् परमं ज्ञानं केवलं सन्निरञ्जनम् ।
अहं हि वेद्यो भगवान् मम मूर्तिरियं शिवा ॥ १३६ ॥

बहूनि साधनानीह सिद्धये कथितानि तु ।
तेषामभ्यधिकं ज्ञानं मामकं द्विजपुङ्गवाः ॥ १३७ ॥

ज्ञानयोगरताः शान्ता मामेव शरणं गताः ।
ये हि मां भस्मनिरता ध्यायन्ति सततं हृदि ॥ १३८ ॥

मद्भक्तिपरमा नित्यं यतयः क्षीणकल्मषाः ।
नाशयाम्यचिरात् तेषां घोरं संसारसागरम् ॥ १३९ ॥

प्रशान्तः संयतमना भस्मोद्धूलितविग्रहः ।
ब्रह्मचर्यरतो नग्नो व्रतं पाशुपतं चरेत् ॥ १४० ॥

निर्मितं हि मया पूर्वं व्रतं पाशुपतं परम् ।
गुह्याद् गुह्यतमं सूक्ष्मं वेदसारं विमुक्तये ॥ १४१ ॥

यद् वा कौपीनवसनः स्याद् वैकवसनो मुनिः ।
वेदाभ्यासरतो विद्वान् ध्यायेत् पशुपतिं शिवम् ॥ १४२ ॥

एष पाशुपतो योगः सेवनीयो मुमुक्षुभिः ।
भस्मच्छन्नैर्हि सततं निष्कामैरिति विश्रुतिः ॥ १४३ ॥

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।
बहवो ऽनेन योगेन पूता मद्भावमागताः ॥ १४४ ॥

अन्यानि चैव शास्त्राणि लोके ऽस्मिन् मोहनानितु ।
वेदवादविरुद्धानि मयैव कथितानि तु ॥ १४५ ॥

वामं पाशुपतं सोमं लाकुलं चैव भैरवम् ।
असेव्यमेतत् कथितं वेदवाह्यं तथेतरम् ॥ १४६ ॥

वेदमुर्तिरहं विप्रा नान्यशास्त्रार्थवेदिभिः ।
ज्ञायते मत्स्वरूपं तु मुक्त्वा वेदं सनातनम् ॥ १४७ ॥

स्थापयध्वमिदं मार्गं पूजयध्वं महेश्वरम् ।
अचिरादैश्वरं ज्ञानमुत्पत्स्यति न संशयः ॥ १४८ ॥

मयि भक्तिश्च विपुला भवतामस्तु सत्तमाः ।
ध्यातमात्रो हि सान्निध्यं दास्यामि मुनिसत्तमाः ॥ १४९ ॥

इत्युक्त्वा भगवान् सोमस्तत्रैवान्तरधीयत ।
विश्वास-प्रस्तुतिः

तो ऽपि दारुवने तस्मिन् पूजयन्ति स्म शङ्करम् ।
ब्रह्मचर्यरताः शान्ता ज्ञानयोगपरायणाः ॥ १५० ॥

समेत्य ते महात्मानो मुनयो ब्रह्मवादिनः ।
वितेनिरे बहून् वादान्नध्यात्मज्ञानसंश्रयान् ॥ १५१ ॥

किमस्य जगतो मूलमात्मा चास्माकमेव हि ।
को ऽपि स्यात् सर्वभावानां हेतुरीश्वर एव च ॥ १५२ ॥

इत्येवं मन्यमानानां ध्यानमार्गावलम्बिनाम् ।
आविरासीन्महादेवी देवी गिरिवरात्मजा ॥ १५३ ॥

कोटिसूर्यप्रतीकाशा ज्वालामालासमावृता ।
स्वभाभिर्विमलाभिस्तु पूरयन्ती नभस्तलम् ॥ १५४ ॥

तामन्वपश्यन् गिरिजाममेयां ज्वालासहस्रान्तरसन्निविष्टाम् । प्रणेमुरेकामखिलेशपत्नीं जानन्ति ते तत् परमस्य बीजम् ॥ १५५ ॥ असमाकमेषा परमेशपत्नी गतिस्तथात्मा गगनाभिधाना । पश्यन्त्यथात्मानमिदं च कृत्स्नं तस्यामथैते मुनयश्च विप्राः ॥ १५६ ॥ निरीक्षितास्ते परमेशपत्न्या तदन्तरे देवमशेषहेतुम् । पश्यन्ति शम्भुं कविमीशितारं रुद्रं बृहन्तं पुरुषं पुराणम् ॥ १५७ ॥ आलोक्य देवीमथ देवमीशं प्रणेमुरानन्दमवापुरग्र्यम् । ज्ञानं तदैशं भगवत्प्रसादा- दाविर्बभौ जन्मविनाशहेतु ॥ १५८ ॥ इयं हि सा जगतो योनिरेका सर्वात्मिका सर्वनियामिका च । माहेश्वरीशक्तिरनादिसिद्धा व्योमाभिधाना दिवि राजतीव ॥ १५९ ॥ अस्या महत्परमेष्ठी परस्ता- न्महेश्वरः शिव एको ऽथ रुद्रः । चकार विश्वं परशक्तिनिष्ठां मायामथारुह्य स देवदेवः ॥ १६० ॥ एको देवः सर्वभूतेषु गूढो मायी रुद्रः सकलो निष्कलश्च । स एव देवी न च तद्विभिन्न- मेतज्ज्ञात्वा ह्यमृतत्वं व्रजन्ति ॥ १६१ ॥ अन्तर्हितो ऽभूद् भगवानथेशो देव्या भर्गः सह देवादिदेवः । आराधयन्ति स्म तमेव देवं वनौकसस्ते पुनरेव रुद्रम् ॥ १६२ ॥
विश्वास-प्रस्तुतिः

एतद् वः कथितं सर्वं देवदेवविचेष्टितम् ।
देवदारुवने पूर्वं पुराणे यन्मया श्रुतम् ॥ १६३ ॥

यः पठेच्छृणुयान्नित्यं मुच्यते सर्वपातकैः ।
श्रावयेद् वा द्विजान् शान्तान् स याति परमां गतिम् ॥ १६४ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे सप्तत्रिंशो ऽध्यायः