३६

सूत उवाच

विश्वास-प्रस्तुतिः

इदनमन्यते परं स्थानं गुह्याद् गुह्यतमं महत् ।
महादेवस्य देवस्य महालयमिति श्रुतम् ॥ १ ॥

मूलम्

तत्र देवादिदेवेन रुद्रेण त्रिपुरारिणा ।
शिलातले पदं न्यस्तं नास्तिकानां निदर्शनम् ॥ २ ॥

तत्र पुशुपताः शान्ता भस्मोद्धूलितविग्रहाः ।
उपासते महादेवं वेदाध्ययनतत्पराः ॥ ३ ॥

स्नात्वा तत्र पदं शार्वं दृष्ट्वा भक्तिपुरः सरम् ।
नमस्कृत्वाथ शिरसा रुद्रसामीप्यमाप्नुयात् ॥ ४ ॥

अन्यच्च देवदेवस्य स्थानं शम्भोर्महात्मनः ।
केदारमिति विख्यातं सिद्धानामालयं शुभम् ॥ ५ ॥

तत्र स्नात्वा महादेवमभ्यर्च्य वृषकेतनम् ।
पीत्वा चैवोदकं शुद्धं गाणपत्यमवाप्नुयात् ॥ ६ ॥

श्राद्धदानादिकं कृत्वा ह्यक्ष्यं लभते फलम् ।
द्विजातिप्रवरैर्जुष्टं योगिभिर्यतमानसैः ॥ ७ ॥

तीर्थं प्लक्षावतरणं सर्वपापविनाशनम् ।
तत्राभ्यर्च्य श्रीनिवासं विष्णुलोके महीयते ॥ ८ ॥

अन्यं मगधराजस्य तीर्थं स्वर्गगतिप्रदम् ।
अक्षयं विन्दति स्वर्गं तत्र गत्वा द्विजोत्तमः ॥ ९ ॥

तीर्थं कनखलं पुण्यं महापातकनाशनम् ।
यत्र देवेन रुद्रेण यज्ञो दक्षस्य नाशितः ॥ १० ॥

तत्र गङ्गामुपस्पृश्य शुचिर्भावसमन्वितः ।
मुच्यते सर्वपापैस्तु ब्रह्मलोकं लभेन्मृतः ॥ ११ ॥

महातीर्थमिति ख्यातं पुण्यं नारायणप्रियम् ।
तत्राभ्यर्च्य हृषीकेशं श्वेतद्वीपं निगच्छति ॥ १२ ॥

अन्यच्च तीर्थप्रवरं नाम्ना श्रीपर्वतं शुभम् ।
तत्र प्राणान् परित्यज्य रुद्रस्य दयितो भवेत् ॥ १३ ॥

तत्र सन्निहितो रुद्रो देव्या सह महेश्वरः ।
स्नानपिण्डादिकं तत्र कृतमक्षय्यमुत्तमम् ॥ १४ ॥

गोदावरी नदी पुण्या सर्वपापविनाशनी ।
विश्वास-प्रस्तुतिः

तत्र स्नात्वा पितॄन् देवांस्तर्पयित्वा यथाविधि ।
सर्वपापविसुद्धात्मा गोसहस्रफलं लभेत् ॥ १५ ॥

पवित्रसलिला पुण्या कावेरी विपुला नदी ।
विश्वास-प्रस्तुतिः

तस्यां स्नात्वोदकं कृत्वा मुच्यते सर्वपातकैः ।
त्रिरात्रोपोषितेनाथ एकरात्रोषितेन वा ॥ १६ ॥

द्विजातीनां तु कथितं तीर्थानामिह सेवनम् ।
विश्वास-प्रस्तुतिः

यस्य वाङ्मनसो शुद्धे हस्तपादौ च संस्थितौ ।
अलोलुपो ब्रह्मचारो तीर्थानां फलमाप्नुयात् ॥ १७ ॥

स्वामितीर्थं महातीर्थं त्रिषु लोकेषु विश्रुतम् ।
तत्र सन्निहितो नित्यं स्कन्दो ऽमरनमस्कृतः ॥ १८ ॥

स्नात्वा कुमारधारायां कृत्वा देवादितर्पणम् ।
आराध्य षण्मुखं देवं स्कन्देन सह मोदते ॥ १९ ॥

नदी त्रैलोक्यविख्याता ताम्रपर्णोति नामतः ।
विश्वास-प्रस्तुतिः

तत्र स्नात्वा पितॄन् भक्त्या तर्पयित्वा यथाविधि ।
पापकर्तॄनपि पितॄस्तारयेन्नात्र संशयः ॥ २० ॥

चन्द्रतीर्थमिति ख्यातं कावेर्याः प्रभवे ऽक्षयम् ।
तीर्थं तत्र भवेद् वस्तुं मृतानां स्वर्गतिर्ध्रुवा ॥ २१ ॥

विन्ध्यपादे प्रपश्यन्ति देवदेवं सदाशिवम् ।
भक्त्या ये ते न पश्यन्ति यमस्य सदनं द्विजाः ॥ २२ ॥

देविकायां वृषो नाम तीर्थं सिद्धनिषेवितम् ।
तत्र स्नात्वोदकं दत्वा योगसिद्धिं च विन्दति ॥ २३ ॥

दशाश्वमेधिकं तीर्थं सर्वपापविनाशनम् ।
दशानामश्वमेधानां तत्राप्नोति फलं नरः ॥ २४ ॥

पुण्डरीकं महातीर्थं ब्राह्मणैरुपसेवितम् ।
तत्राभिगम्य युक्तात्मा पौण्डरीकफलं लभेत् ॥ २५ ॥

तीर्थेभ्यः परमं तीर्थं ब्रह्मतीर्थमिति श्रुतम् ।
ब्रह्माणमर्चयित्वा तु ब्रह्मलोके महीयते ॥ २६ ॥

सरस्वत्या विनशनं प्लक्षप्रस्त्रवणं शुभम् ।
विश्वास-प्रस्तुतिः

व्यासतीर्थं परं तीर्थं मैनाकं च नगोत्तमम् ।
यमुनाप्रभवं चैव सर्वपापविशोधनम् ॥ २७ ॥

पितॄणां दुहिता देवी गन्धकालीति विश्रुता ।
तस्यां स्नात्वा दिवं याति मृतो जातिस्मरो भवेत् ॥ २८ ॥

कुबेरतुङ्गं पापघ्नं सिद्धचारणसेवितम् ।
प्राणांस्तत्र परित्यज्य कुबेरानुचरो भवेत् ॥ २९ ॥

उमातुङ्गमिति ख्यातं यत्र सा रुद्रवल्लभा ।
तत्राभ्यर्च्य महादेवीं कोसहस्रफलं लभेत् ॥ ३० ॥

भृगुतुङ्गे तपस्तप्तं श्राद्धं दानं तथा कृतम् ।
कुलान्युभयतः सप्त पुनातीति श्रुतिर्मम ॥ ३१ ॥

काश्यपस्य महातीर्थं कालसर्पिरिति श्रुतम् ।
तत्र श्राद्धानि देयानि नित्यं पापक्षयेच्छया ॥ ३२ ॥

दशार्णायां तथा दानं श्राद्धं होमस्तथा जपः ।
अक्षयं चाव्ययं चैव कृतं भवति सर्वदा ॥ ३३ ॥

तीर्थं द्विजातिभिर्जुष्टं नाम्ना वै कुरुजाङ्गलम् ।
दत्त्वा तु दानं विधिवद् ब्रह्मलोके महीयते ॥ ३४ ॥

वैतरण्यां महातीर्थे स्वर्णवेद्यां तथैव च ।
धर्मपृष्ठे च सरसि ब्रह्मणः परमे शुभे ॥ ३५ ॥

भरतस्याश्रमे पुण्ये पुण्ये श्राद्धवटे शुभे ।
महाह्रदे च कौशिक्यां दत्तं भवति चाक्षयम् ॥ ३६ ॥

मुञ्जपृष्ठे पदं न्यस्तं महादेवेन धीमता ।
हिताय सर्वभूतानां नास्तिकानां निदर्शनम् ॥ ३७ ॥

अल्पेनापि तु कालेन नरो धर्मपरायणः ।
पाप्मानमुत्सृजत्याशु जीर्णां त्वचमिवोरगः ॥ ३८ ॥

नाम्ना कनकनन्देति तीर्थं त्रैलोक्यविश्रुतम् ।
उदीच्यां मुञ्जपृष्ठस्य ब्रह्मर्षिगणसेवितम् ॥ ३९ ॥

तत्र स्नात्वा दिवं यान्ति सशरीरा द्विजातयः ।
विश्वास-प्रस्तुतिः

दत्तं चापि सदा श्राद्धमक्षयं समुदाहृतम् ।
ऋणैस्त्रिभिर्नरः स्नात्वा मुच्यते क्षीणकल्मषः ॥ ४० ॥

मानसे सरसि स्नात्वा शक्रस्यार्धासनं लभेत् ।
उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमाम् ॥ ४१ ॥

तस्मान्निर्वर्तयेच्छ्राद्धं यथाशक्ति यथाबलम् ।
कामान् सलभते दिव्यान् मोक्षोपायं च विन्दति ॥ ४२ ॥

पर्वतो हिमवान्नाम नानाधातुविभूषितः ।
विश्वास-प्रस्तुतिः

योजनानां सहस्राणि सो ऽशीतिस्त्वायतो गिरिः ।
सिद्धचारणसङ्कीर्णो देवर्षिगणसेवितः ॥ ४३ ॥

तत्र पुष्करिणी रम्या सुषुम्ना नाम नामतः ।
तत्र गत्वा द्विजो विद्वान् ब्रह्महत्यां विमुञ्चति ॥ ४४ ॥

श्राद्धं भवति चाक्षय्यं तत्र दत्तं महोदयम् ।
तारयेच्च पितॄन् सम्यग् दश पूर्वान् दशापरान् ॥ ४५ ॥

सर्वत्र हिमवान् पुण्यो गङ्गा पुण्या समन्ततः ।
नद्यः समुद्रगाः पुण्याः समुद्रश्च विशेषतः ॥ ४६ ॥

बदर्याश्रममासाद्य मुच्यते कलिकल्मषात् ।
तत्र नारायणो देवो नरेणास्ते सनातनः ॥ ४७ ॥

अक्षयं तत्र दानं स्यात् जप्यं वापि तथाविधम् ।
विश्वास-प्रस्तुतिः

महादेवप्रियं तीर्थं पावनं तद् विशेषतः ।
तारयेच्च पितॄन् सर्वान् दत्त्वा श्राद्धं समाहितः ॥ ४८ ॥

देवदारुवनं पुण्यं सिद्धगन्धर्वसेवितम् ।
महादेवेन देवेन तत्र दत्तं महद् वरं ॥ ४९ ॥

मोहयित्वा मुनीन् सर्वान् पुनस्तैः सम्प्रपूजितः ।
प्रसन्नो भगवानीशो मुनीन्द्रान् प्राह भावितान् ॥ ५० ॥

इहाश्रमवरे रम्ये निवसिष्यथ सर्वदा ।
मद्भावनासमायुक्तास्ततः सिद्धिमवाप्स्यथ ॥ ५१ ॥

ये ऽत्र मामर्चयन्तीह लोके धर्मपरा जनाः ।
तेषां ददामि परमं गाणपत्यं हि शाश्वतम् ॥ ५२ ॥

अत्र नित्यं वसिष्यामि सह नारायणेन च ।
प्राणानिह नरस्त्यक्त्वा न भूयो जन्म विन्दति ॥ ५३ ॥

संस्मरन्ति च ये तीर्थं देशान्तरगता जनाः ।
तेषां च सर्वपापानि नाशयामि द्विजोत्तमाः ॥ ५४ ॥

श्राद्धं दानं तपो होमः पिण्डनिर्वपणं तथा ।
ध्यानं जपश्च नियमः सर्वमत्राक्षयं कृतम् ॥ ५५ ॥

तस्मात् सर्वप्रयत्नेन द्रष्टव्यं हि द्विजातिभिः ।
देवदारुवनं पुण्यं महादेवनिषेवितम् ॥ ५६ ॥

यत्रेस्वरो महादेवो विष्णुर्वा पुरुषोत्तमः ।
तत्र सन्निहिता गङ्गातीर्थान्यायतनानि च ॥ ५७ ॥

इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे षट्त्रिशो ऽध्यायः