सूत उवाच
विश्वास-प्रस्तुतिः
अन्यत् पवित्रं विपुलं तीर्थं त्रैलोक्यविश्रुतम् ।
रुद्रकोटिरिति ख्यातं रुद्रस्य परमेष्ठिनः ॥ १ ॥
मूलम्
अन्यत् पवित्रं विपुलं तीर्थं त्रैलोक्यविश्रुतम् ।
रुद्रकोटिरिति ख्यातं रुद्रस्य परमेष्ठिनः ॥ १ ॥
विश्वास-प्रस्तुतिः
पुरा पुण्यतमे काले देवदर्शनतत्पराः ।
कोटिब्रह्मर्षयो दान्तास्तं देशमगमन् परम् ॥ २ ॥
मूलम्
पुरा पुण्यतमे काले देवदर्शनतत्पराः ।
कोटिब्रह्मर्षयो दान्तास्तं देशमगमन् परम् ॥ २ ॥
विश्वास-प्रस्तुतिः
अहं द्रक्ष्यामि गिरिशं पूर्वमेव पिनाकिनम् ।
अन्यो ऽन्यं भक्तियुक्तानां व्याघातो जायते किल ॥ ३ ॥
मूलम्
अहं द्रक्ष्यामि गिरिशं पूर्वमेव पिनाकिनम् ।
अन्यो ऽन्यं भक्तियुक्तानां व्याघातो जायते किल ॥ ३ ॥
विश्वास-प्रस्तुतिः
तेषां भक्तिं तदा दृष्ट्वा गिरिशो योगिनां गुरुः ।
कोटिरूपो ऽभवद् रुद्रो रुद्रकोटिस्ततः स्मृतः ॥ ४ ॥
मूलम्
तेषां भक्तिं तदा दृष्ट्वा गिरिशो योगिनां गुरुः ।
कोटिरूपो ऽभवद् रुद्रो रुद्रकोटिस्ततः स्मृतः ॥ ४ ॥
विश्वास-प्रस्तुतिः
ते स्म सर्वे महादेवं हरं गिरिगुहाशयम् ।
पश्यन्तः पार्वतीनाथं हृष्टपुष्टधियो ऽभवन् ॥ ५ ॥
मूलम्
ते स्म सर्वे महादेवं हरं गिरिगुहाशयम् ।
पश्यन्तः पार्वतीनाथं हृष्टपुष्टधियो ऽभवन् ॥ ५ ॥
विश्वास-प्रस्तुतिः
अनाद्यन्तं महादेवं पूर्वमेवाहमीश्वरम् ।
दृष्टवानिति भक्त्या ते रुद्रन्यस्तधियो ऽभवन् ॥ ६ ॥
मूलम्
अनाद्यन्तं महादेवं पूर्वमेवाहमीश्वरम् ।
दृष्टवानिति भक्त्या ते रुद्रन्यस्तधियो ऽभवन् ॥ ६ ॥
विश्वास-प्रस्तुतिः
अथान्तरिक्षे विमलं पश्यन्ति स्म महत्तरम् ।
ज्योतिस्तत्रैव ते सर्वे ऽभिलषन्तः परं पदम् ॥ ७ ॥
मूलम्
अथान्तरिक्षे विमलं पश्यन्ति स्म महत्तरम् ।
ज्योतिस्तत्रैव ते सर्वे ऽभिलषन्तः परं पदम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
एतत् सदेशाध्युषितं तीर्थं पुण्यतमं शुभम् ।
दृष्ट्वा रुद्रं समभ्यर्च्य रुद्रसामीप्यमाप्नुयात् ॥ ८ ॥
मूलम्
एतत् सदेशाध्युषितं तीर्थं पुण्यतमं शुभम् ।
दृष्ट्वा रुद्रं समभ्यर्च्य रुद्रसामीप्यमाप्नुयात् ॥ ८ ॥
विश्वास-प्रस्तुतिः
अन्यच्च तीर्थप्रवरं नाम्ना मधुवनं स्मृतम् ।
तत्र गत्वा नियमवानिन्द्रस्यार्धासनं लभेत् ॥ ९ ॥
मूलम्
अन्यच्च तीर्थप्रवरं नाम्ना मधुवनं स्मृतम् ।
तत्र गत्वा नियमवानिन्द्रस्यार्धासनं लभेत् ॥ ९ ॥
विश्वास-प्रस्तुतिः
अथान्यत्पुष्पनगरी देशः पुण्यतमः शुभः ।
तत्र गत्वा पितॄन् पूज्य कुलानां तारयेच्छतम् ॥ १० ॥
मूलम्
अथान्यत्पुष्पनगरी देशः पुण्यतमः शुभः ।
तत्र गत्वा पितॄन् पूज्य कुलानां तारयेच्छतम् ॥ १० ॥
विश्वास-प्रस्तुतिः
कालञ्जरं महातीर्थं लोके रुद्रो महेश्वरः ।
कालं जरितवान् देवो यत्र भक्तिप्रियो हरः ॥ ११ ॥
मूलम्
कालञ्जरं महातीर्थं लोके रुद्रो महेश्वरः ।
कालं जरितवान् देवो यत्र भक्तिप्रियो हरः ॥ ११ ॥
विश्वास-प्रस्तुतिः
श्वेतो नाम शिवे भक्तो राजर्षिप्रवरः पुरा ।
तदाशीस्तन्नमस्कारः पूजयामास शूलिनम् ॥ १२ ॥
मूलम्
श्वेतो नाम शिवे भक्तो राजर्षिप्रवरः पुरा ।
तदाशीस्तन्नमस्कारः पूजयामास शूलिनम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
संस्थाप्य विधिना लिङ्गं भक्तियोगपुरः सरः ।
जजाप रुद्रमनिशं तत्र सन्न्यस्तमानसः ॥ १३ ॥
मूलम्
संस्थाप्य विधिना लिङ्गं भक्तियोगपुरः सरः ।
जजाप रुद्रमनिशं तत्र सन्न्यस्तमानसः ॥ १३ ॥
विश्वास-प्रस्तुतिः
स तं कालो ऽथ दीप्तात्मा शूलमादाय भीषणम् ।
नेतुमभ्यागतो देशं स राजा यत्र तिष्ठति ॥ १४ ॥
मूलम्
स तं कालो ऽथ दीप्तात्मा शूलमादाय भीषणम् ।
नेतुमभ्यागतो देशं स राजा यत्र तिष्ठति ॥ १४ ॥
विश्वास-प्रस्तुतिः
वीक्ष्य राजा भयाविष्टः शूलहस्तं समागतम् ।
कालं कालकरं घोरं भीषणं चण्डदीधितिम् ॥ १५ ॥
मूलम्
वीक्ष्य राजा भयाविष्टः शूलहस्तं समागतम् ।
कालं कालकरं घोरं भीषणं चण्डदीधितिम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
उबाभ्यामथ हस्ताभ्यां स्पृट्वासौ लिङ्गमैश्वरम् ।
ननाम शिरसा रुद्रं जजाप शतरुद्रियम् ॥ १६ ॥
मूलम्
उबाभ्यामथ हस्ताभ्यां स्पृट्वासौ लिङ्गमैश्वरम् ।
ननाम शिरसा रुद्रं जजाप शतरुद्रियम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
जपन्तमाह राजानं नमन्तमसकृद् भवम् ।
एह्येहीति पुरः स्थित्वा कृतान्तः प्रहसन्निव ॥ १७ ॥
मूलम्
जपन्तमाह राजानं नमन्तमसकृद् भवम् ।
एह्येहीति पुरः स्थित्वा कृतान्तः प्रहसन्निव ॥ १७ ॥
विश्वास-प्रस्तुतिः
तमुवाच भयाविष्टो राजा रुद्रपरायणः ।
एकमीशार्चनरतं विहायान्यं निषूदय ॥ १८ ॥
मूलम्
तमुवाच भयाविष्टो राजा रुद्रपरायणः ।
एकमीशार्चनरतं विहायान्यं निषूदय ॥ १८ ॥
विश्वास-प्रस्तुतिः
इत्युक्तवन्तं भगवानब्रवीद् भीतमानसम् ।
रुद्रार्चनरतो वान्यो मद्वशे को न तिष्ठति ॥ १९ ॥
मूलम्
इत्युक्तवन्तं भगवानब्रवीद् भीतमानसम् ।
रुद्रार्चनरतो वान्यो मद्वशे को न तिष्ठति ॥ १९ ॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा स राजानं कालो लोकप्रकालनः ।
बबन्ध पाशै राजापि जजाप शतरुद्रियम् ॥ २० ॥
मूलम्
एवमुक्त्वा स राजानं कालो लोकप्रकालनः ।
बबन्ध पाशै राजापि जजाप शतरुद्रियम् ॥ २० ॥
विश्वास-प्रस्तुतिः
ममार सो ऽतिभीषणो महेशपादघातितः ।
रराज देवतापतिः सहोमया पिनाकधृक् ॥ २७ ॥
मूलम्
ममार सो ऽतिभीषणो महेशपादघातितः ।
रराज देवतापतिः सहोमया पिनाकधृक् ॥ २७ ॥
विश्वास-प्रस्तुतिः
निरीक्ष्य देवमीश्वरं प्रहृष्टमानसो हरम् ।
ननाम साम्बमव्ययं स राजपुङ्गवस्तदा ॥ २८ ॥
मूलम्
निरीक्ष्य देवमीश्वरं प्रहृष्टमानसो हरम् ।
ननाम साम्बमव्ययं स राजपुङ्गवस्तदा ॥ २८ ॥
विश्वास-प्रस्तुतिः
नमो भवाय हेतवे हराय विश्वसम्भवे ।
नमः शिवाय धीमते नमो ऽपवर्गदायिने ॥ २९ ॥
मूलम्
नमो भवाय हेतवे हराय विश्वसम्भवे ।
नमः शिवाय धीमते नमो ऽपवर्गदायिने ॥ २९ ॥
विश्वास-प्रस्तुतिः
नमो नमो नमो ऽस्तु ते महाविभूतये नमः ।
विभागहीनरूपिणे नमो नराधिपाय ते ॥ ३० ॥
मूलम्
नमो नमो नमो ऽस्तु ते महाविभूतये नमः ।
विभागहीनरूपिणे नमो नराधिपाय ते ॥ ३० ॥
विश्वास-प्रस्तुतिः
नमो ऽस्तु ते गणेश्वर प्रपन्नदुः खनाशन ।
अनादिनित्यभूतये वराहशृङ्गधारिणे ॥ ३१ ॥
मूलम्
नमो ऽस्तु ते गणेश्वर प्रपन्नदुः खनाशन ।
अनादिनित्यभूतये वराहशृङ्गधारिणे ॥ ३१ ॥
विश्वास-प्रस्तुतिः
नमो वृषध्वजाय ते कपालमालिने नमः ।
नमो महानटाय ते नमो वृषध्वजाय ते ॥ ३२ ॥
मूलम्
नमो वृषध्वजाय ते कपालमालिने नमः ।
नमो महानटाय ते नमो वृषध्वजाय ते ॥ ३२ ॥
विश्वास-प्रस्तुतिः
अथानुगृह्य शङ्करः प्रणामतत्परं नृपम् ।
स्वगाणपत्यमव्ययं सरूपतामथो ददौ ॥ ३३ ॥
मूलम्
अथानुगृह्य शङ्करः प्रणामतत्परं नृपम् ।
स्वगाणपत्यमव्ययं सरूपतामथो ददौ ॥ ३३ ॥
विश्वास-प्रस्तुतिः
सहोमया सपार्षदः सराजपुङ्गवो हरः ।
मुनीशसिद्धवन्दितः क्षणाददृश्यतामगात् ॥ ३४ ॥
मूलम्
सहोमया सपार्षदः सराजपुङ्गवो हरः ।
मुनीशसिद्धवन्दितः क्षणाददृश्यतामगात् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
काले महेशाभिहते लोकनाथः पितामहः ।
अयाचत वरं रुद्रं सजीवो ऽयं भवत्विति ॥ ३५ ॥
मूलम्
काले महेशाभिहते लोकनाथः पितामहः ।
अयाचत वरं रुद्रं सजीवो ऽयं भवत्विति ॥ ३५ ॥
विश्वास-प्रस्तुतिः
नास्ति कश्चिदपीशान दोषलेशो वृषध्वज ।
कृतान्तस्यैव भवता तत्कार्ये विनियोजितः ॥ ३६ ॥
मूलम्
नास्ति कश्चिदपीशान दोषलेशो वृषध्वज ।
कृतान्तस्यैव भवता तत्कार्ये विनियोजितः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
स देवदेववचनाद् देवदेवेश्वरो हरः ।
तथास्त्वित्याह विश्वात्मा सो ऽपि तादृग्विधो ऽभवत् ॥ ३७ ॥
मूलम्
स देवदेववचनाद् देवदेवेश्वरो हरः ।
तथास्त्वित्याह विश्वात्मा सो ऽपि तादृग्विधो ऽभवत् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
इत्येतत् परमं तीर्थं कालञ्जरमिति श्रुतम् ।
गत्वाभ्यर्च्य महादेवं गाणपत्यं स विन्दति ॥ ३८ ॥
मूलम्
इत्येतत् परमं तीर्थं कालञ्जरमिति श्रुतम् ।
गत्वाभ्यर्च्य महादेवं गाणपत्यं स विन्दति ॥ ३८ ॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे पञ्चत्रिंशो ऽध्यायः