ऋषय ऊचुः
विश्वास-प्रस्तुतिः
तीर्थानि यानि लोके ऽस्मिन् विश्रुतानि माहन्ति च ।
तानि त्वं कथयास्माकं रोमहर्षण साम्प्रतम् ॥ १ ॥
मूलम्

शृणुध्वं कथयिष्ये ऽहं तीर्थानि विविधानि च ।
कथितानि पुराणेषु मुनिभिर्ब्रह्मवादिभिः ॥ २ ॥

यत्र स्नानं जपो होमः श्राद्धदानादिकं कृतम् ।
एकैकशो मुनिश्रेष्ठाः पुनात्यासप्तमं कुलम् ॥ ३ ॥

पञ्चयोजनविस्तीर्णं ब्रह्मणः परमेष्ठिनः ।
प्रयागं प्रथितं तीर्थं तस्य माहात्म्यमीरितम् ॥ ४ ॥

अन्यच्च तीर्थप्रवरं कुरूणां देववन्दितम् ।
ऋषीणामाश्रमैर्जुष्टं सर्वपापविशोधनम् ॥ ५ ॥

तत्र स्नात्वा विशुद्धात्मा दम्भमात्सर्यवर्जितः ।
ददाति यत्किञ्चिदपि पुनात्युभयतः कुलम् ॥ ६ ॥

गयातीर्थं परं गुह्यं पितॄणां चाति वल्लभम् ।
कृत्वा पिण्डप्रदानं तु न भूयो जायते नरः ॥ ७ ॥

सकृद् गयाभिगमनं कृत्वा पिण्डं ददाति यः ।
तारिताः पितरस्तेन यास्यन्ति परमां गतिम् ॥ ८ ॥

तत्र लोकहितार्थाय रुद्रेण परमात्मना ।
शिलातले पदं न्यस्तं तत्र पितॄन् प्रसादयेत् ॥ ९ ॥

गयाभिगमनं कर्तुं यः शक्तो नाभिगच्छति ।
शोचन्ति पितरस्तं वै वृथा तस्य परिश्रमः ॥ १० ॥

गायन्ति पितरो गाथाः कीर्तयन्ति महर्षयः ।
गयांयास्यतियः कश्चित् सो ऽस्मान् सन्तारयिष्यति ॥ ११ ॥

यदि स्यात् पातकोपेतः स्वधर्मरतिवर्जितः ।
गयां यास्यति वंश्यो यः सो ऽस्मान् सन्तारयिष्यति ॥ १२ ॥

एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः ।
तेषां तु समवेतानां यद्येको ऽपि गयां व्रजेत् ॥ १३ ॥

तस्मात् सर्वप्रयत्नेन ब्राह्मणस्तु विशेषतः ।
प्रदद्याद् विधिवत् पिण्डान् गयां गत्वा समाहितः ॥ १४ ॥

धन्यास्तु खलु ते मर्त्या गयायां पिण्डदायिनः ।
कुलान्युभयतः सप्त समुद्धृत्याप्नुयात् परम् ॥ १५ ॥

अन्यच्च तीर्थप्रवरं सिद्धावासमुदाहृतम् ।
प्रभासमिति विख्यातं यत्रास्ते भगवान् भवः ॥ १६ ॥

तत्र स्नानं तपः श्राद्धं ब्राह्मणानां च पूजनम् ।
कृत्वा लोकमवाप्नोति ब्रह्मणो ऽक्षय्यमुत्तमम् ॥ १७ ॥

तीर्थं त्रैयम्बकं नाम सर्वदेवनमस्कृतम् ।
पूजयित्वा तत्र रुद्रं ज्योतिष्टोमफलं लभेत् ॥ १८ ॥

सुवर्णाक्षं महादेवं समभ्यर्च्य कपर्दिनम् ।
ब्राह्मणान् पूजयित्वा तु गाणपत्यं लभेद् ध्रुवम् ॥ १९ ॥

सोमेश्वरं तीर्थवरं रुद्रस्य परमेष्ठिनः ।
सर्वव्याधिहरं पुण्यं रुद्रसालोक्यकारणम् ॥ २० ॥

तीर्थानां परमं तीर्थं विजयं नाम शोभनम् ।
तत्र लिङ्गं महेशस्य विजयं नाम विश्रुतम् ॥ २१ ॥

षण्मासान् नियताहारो ब्रह्मचारी समाहितः ।
उषित्वा तत्र विप्रेन्द्रा यास्यन्ति परमं पदम् ॥ २२ ॥

अन्यच्च तीर्थप्रवरं पूर्वदेशे सुशोभनम् ।
एकाम्रं देवदेवस्य गाणपत्यफलप्रदम् ॥ २३ ॥

दत्त्वात्र शिवभक्तानां किञ्चिच्छश्वन्महीं शुभाम् ।
सार्वभौमो भवेद् राजा मुमुक्षुर्मोक्षमाप्नुयात् ॥ २४ ॥

महानदीजलं पुण्यं सर्वपापविनाशनम् ।
ग्रहणे समुपस्पृश्य मुच्यते सर्वपातकैः ॥ २५ ॥

अन्या च विरजा नाम नदी त्रैलोक्यविश्रुता ।
तस्यां स्नात्वा नरो विप्रा ब्रह्मलोके महीयते ॥ २६ ॥

तीर्थं नारायणस्यान्यन्नाम्ना तु पुरुषोत्तमम् ।
तत्र नारायणः श्रीमानास्ते परमपूरुषः ॥ २७ ॥

पूजयित्वा परं विष्णुं स्नात्वा तत्र द्विजोत्तमः ।
ब्राह्मणान् पूजयित्वा तु विष्णुलोकमवाप्नुयात् ॥ २८ ॥

तीर्थानां परमं तीर्थं गोकर्णं नाम विश्रुतम् ।
सर्वपापहरं शम्भोर्निवासः परमेष्ठिनः ॥ २९ ॥

दृष्ट्वा लिङ्ङ्गं तु देवस्य गोकर्णेश्वरमुत्तमम् ।
ईप्सितांल्लभते कामान् रुद्रस्य दयितो भवेत् ॥ ३० ॥

उत्तरं चापि गोकर्णं लिङ्गं देवस्य शूलिनः ।
महादेवस्यार्चयित्वा शिवसायुज्यमाप्नुयात् ॥ ३१ ॥

तत्र देवो महादेवः स्थाणुरित्यभिविश्रुतः ।
तं दृष्ट्वा सर्वपापेभ्यो मुच्यते तत्क्षणान्नरः ॥ ३२ ॥

अन्यत् कुब्जाम्रमतुलं स्थानं विष्णोर्महात्मनः ।
सम्पूज्य पुरुषं विष्णुं श्वेतद्वीपे महीयते ॥ ३३ ॥

यत्र नारायणो देवो रुद्रेण त्रिपुरारिणा ।
कृत्वा यज्ञस्य मथनं दक्षस्य तु विसर्जितः ॥ ३४ ॥

समन्ताद् योजनं क्षेत्रं सिद्धर्षिगणवन्दितम् ।
पुण्यमायतनं विष्णोस्तत्रास्ते पुरुषोत्तमः ॥ ३५ ॥

अन्यत् कोकामुखं विष्णोस्तीर्थमद्भुतकर्मणः ।
मृतो ऽत्र पातकैर्मुक्तो विष्णुसारूप्यमाप्नुयात् ॥ ३६ ॥

शालग्रामं महातीर्थं विष्णोः प्रीतिविवर्धनम् ।
प्राणांस्तत्र नरस्त्यक्त्वा हृषीकेषं प्रपश्यति ॥ ३७ ॥

अश्वतीर्थमिति ख्यातं सिद्धावासं सुपावनम् ।
आस्ते हयशिरा नित्यं तत्र नारायणः स्वयम् ॥ ३८ ॥

तीर्थं त्रैलोक्यविख्यातं ब्रह्मणः परमेष्ठिनः ।
पुष्करं सर्वपापघ्नं मृतानां ब्रह्मलोकदम् ॥ ३९ ॥

मनसा संस्मरेद् यस्तु पुष्करं वै द्विजोत्तमः ।
पूयते पातकैः सर्वैः शक्रेण सह मोदते ॥ ४० ॥

तत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ।
उपासते सिद्धसङ्घा ब्रह्मणं पद्मसम्भवम् ॥ ४१ ॥

तत्र स्त्रात्वा भवेच्छुद्धो ब्रह्माणं परमेष्ठिनम् ।
पूजयित्वा द्विजवरान् ब्रह्माणं सम्प्रपष्यति ॥ ४२ ॥

तत्राभिगम्य देवेशं पुरुहूतमनिन्दितम् ।
सुरूपो जायते मर्त्यः सर्वान् कामानवाप्नुयात् ॥ ४३ ॥

सप्तसारस्वतं तीर्थं ब्रह्माद्यैः सेवितं परम् ।
पूजयित्वा तत्र रुद्रमश्वमेधफलं लभेत् ॥ ४४ ॥

यत्र मङ्कणको रुद्रं प्रपन्नः परमेश्वरम् ।
आराधयामास हरं पञ्चक्षरपरायणः ॥ ४५ ॥

नमः शिवायेति मुनिः जपन् पञ्चाक्षरं परम् ।
आराधयामास शिवं तपसा गोवृषध्वजम् ॥ ४६ ॥

प्रजज्वालाथ तपसा मुनिर्मङ्कणकस्तदा ।
ननर्त हर्षवेगेन ज्ञात्वा रुद्रं समागतम् ॥ ४७ ॥

तं प्राह भगवान् रुद्रः किमर्थं नर्तितं त्वया ।
दृष्ट्वापि देवमीशानं नृत्यति स्म पुनः पुनः ॥ ४८ ॥

सो ऽन्वीक्ष्य भगवानीशः सगर्वं गर्वशान्तये ।
स्वकं देहं विदार्यास्मै भस्मराशिमदर्शयत् ॥ ४९ ॥

पश्येमं मच्छरीरोत्थं भस्मराशिं द्विजोत्तम ।
माहात्म्यमेतत् तपसस्त्वादृशो ऽन्यो ऽपि विद्यते ॥ ५० ॥

यत् सगर्वं हि भवता नर्तितं मुनिपुङ्गव ।
न युक्तं तापसस्यैतत् त्वत्तोप्यत्राधिको ह्यहम् ॥ ५१ ॥

इत्याभाष्य मुनिश्रेष्ठं स रुद्रः किल विश्वदृक् ।
आस्थाय परमं भावं ननर्त जगतो हरः ॥ ५२ ॥

सहस्रशीर्षा भूत्वा सहस्राक्षः सहस्रपात् ।
दंष्ट्राकरालवदनो ज्वालामाली भयङ्करः ॥ ५३ ॥

विशाललोचनमेकां देवीं चारुविलासिनीम् ।
सूर्यायुतसमप्रख्यां प्रसन्नवदनां शिवाम् ॥ ५४ ॥

दृष्ट्वा सन्त्रस्तहृदयो वेपमानो मुनीश्वरः ।
ननाम शिरसा रुद्रं रुद्राध्यायं जपन् वशी ॥ ५५ ॥

प्रसन्नो भगवानीशस्त्र्यम्बको भक्तवत्सलः ।
पूर्ववेषं स जग्राह देवी चान्तर्हिताभवत् ॥ ५६ ॥

आलिङ्ग्य भक्तं प्रणतं देवदेवः स्वयंशिवः ।
न भेतव्यं त्वया वत्स प्राह किं ते ददाम्यहम् ॥ ५७ ॥

प्रणम्य मूर्ध्ना गिरिशं हरं त्रिपुरसूदनम् ।
विज्ञापयामास तदा हृष्टः प्रष्टुमना मुनिः ॥ ५८ ॥

नमो ऽस्तु ते महादेव महेश्वर नमो ऽस्तु ते ।
किमेतद् भगवद्रूपं सुघोरं विश्वतोमुखम् ॥ ५९ ॥

का च सा भगवत्पार्श्वे राजमाना व्यवस्थिता ।
अन्तर्हितेव सहसा सर्वमिच्छामि वेदितुम् ॥ ६० ॥

इत्युक्ते व्याजहारमं तथा मङ्कणकं हरः ।
महेशः स्वात्मनो योगं देवीं च त्रिपुरानलः ॥ ६१ ॥

अहं सहस्रनयनः सर्वात्मा सर्वतोमुखः ।
दाहकः सर्वपापानां कालः कालकरो हरः ॥ ६२ ॥

मयैव प्रेर्यते कृत्स्नं चेतनाचेतनात्मकम् ।
सो ऽन्तर्यामी स पुरुषो ह्यहं वै पुरुषोत्तमः ॥ ६३ ॥

तस्य सा परमा माया प्रकृतिस्त्रिगुणात्मिका ।
प्रोच्यते मुनिर्भिशक्तिर्जगद्योनिः सनातनी ॥ ६४ ॥

स एष मायया विश्वं व्यामोहयति विश्ववित् ।
नारायणः परो ऽव्यक्तो मायारूप इति श्रुतिः ॥ ६५ ॥

एवमेतज्जगत् सर्वं सर्वदा स्थापयाम्यहम् ।
योजयामि प्रकृत्याहं पुरुषं पञ्चविंशकम् ॥ ६६ ॥

तथा वै सङ्गतो देवः कूटस्थः सर्वगो ऽमलः ।
सृजत्यशेषमेवेदं स्वमूर्तेः प्रकृतेरजः ॥ ६७ ॥

स देवो भगवान् ब्रह्मा विश्वरूपः पितामहः ।
तवैतत् कथितं सम्यक् स्त्रष्ट्वत्वं परमात्मनः ॥ ६८ ॥

एको ऽहं भगवान् कलो ह्यनादिश्चान्तकृद् विभुः ।
समास्थाय परं भावं प्रोक्तो रुद्रो मनीषिभिः ॥ ६९ ॥

मम वै सापरा शक्तिर्देवी विद्येति विश्रुता ।
दृष्टा हि भवता नूनं विद्यादेहस्त्वहं ततः ॥ ७० ॥

एवमेतानि तत्त्वानि प्रधानपुरुषेश्वराः ।
विष्णुर्ब्रह्मा च भगवान् रुद्रः काल इति श्रुतिः ॥ ७१ ॥

त्रयमेतदनाद्यन्तं ब्रह्मण्येव व्यवस्थितम् ।
तदात्मकं तदव्यक्तं तदक्षरमिति श्रुतिः ॥ ७२ ॥

आत्मानन्दपरं तत्त्वं चिन्मात्रं परमं पदम् ।
आकाशं निष्कलं ब्रह्म तस्मादन्यन्न विद्यते ॥ ७३ ॥

एवं विज्ञाय भवता भक्तियोगाश्रयेण तु ।
सम्पूज्यो वन्दनीयो ऽहं ततस्तं पश्य शाश्वतम् ॥ ७४ ॥

एतावदुक्त्वा भगवाञ्जगामादर्शनं हरः ।
तत्रैव भक्तियोगेन रुद्रामाराधयन्मुनिः ॥ ७५ ॥

एतत् पवित्रमतुलं तीर्थं ब्रह्मर्षिसेवितम् ।
संसेव्य ब्राह्मणो विद्वान् मुच्यते सर्वपातकैः ॥ ७६ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे चतुस्त्रिंशो ऽध्यायः