व्यास उवाच
विश्वास-प्रस्तुतिः
मनुष्याणां तु हरणं कृत्वा स्त्रीणां गृहस्य च ।
वापीकूपजलानां च शुध्येच्चान्द्रायणेन तु ॥ १ ॥
मूलम्

द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मतः ।
चरेत् सान्तपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये ॥ २ ॥

धान्यान्नधनचौर्यं तु कृत्वा कामाद् द्विजोत्तमः ।
स्वजातीयगृहादेव कृच्छ्रार्धेन विशुद्ध्यति ॥ ३ ॥

भक्षभोज्यापहरणे यानशय्यासनस्य च ।
पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥ ४ ॥

तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च ।
चैलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ॥ ५ ॥

मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ।
अयः कांस्योपलानां च द्वादशाहं कणाशनम् ॥ ६ ॥

कार्पासकीटजोर्णानां द्विशफैकशफस्य च ।
पक्षिगन्धौषधीनां च रज्वाश्चैव त्र्यहं पयः ॥ ७ ॥

काकं चैव तथा श्वानं जग्ध्वा हस्तिनमेव च ।
वराहं कुक्कुटं चाथ तप्तकृच्छ्रेण शुध्यति ॥ ८ ॥

गोगोमायुकपीनां च तदेव व्रतमाचरेत् ।
उपोष्य द्वादशाहं तु कूष्माण्डैर्जुहुयाद् घृतम् ॥ ९ ॥

श्वापदोष्ट्रखराञ्जग्ध्वा तप्तकृच्छ्रेण शुद्ध्यति ।
व्रतवच्चैव संस्कारं पूर्वेण विधिनैव तु ॥ १० ॥

बकं चैव बलाकं च हंसं कारण्डवं तथा ।
चक्रवाकं प्लवं जग्घ्वा द्वादशाहमभोजनम् ॥ ११ ॥

कपोतं टिट्टिभं चैव शुकं सारसमेव च ।
उलूकं जालपादं च जग्ध्वाप्येतद् व्रतं चरेत् ॥ १२ ॥

शिशुमारं तथा चाषं मत्स्यमांसं तथैव च ।
जग्ध्वा चैव कटाहारमेतदेव चरेद् व्रतम् ॥ १३ ॥

कोकिलं चैव मत्स्यांश्च मण्डुकं भुजगं तथा ।
गोमूत्रयावकाहारो मासेनैकेन शुद्ध्यति ॥ १४ ॥

जलेचरांश्च जलजान् प्रत्तुदान्नखविष्किरान् ।
रक्तपादांस्तथा जग्ध्वा सप्ताहं चैतदाचरेत् ॥ १५ ॥

शुनो मांसं शुष्कमांसमात्मार्थं च तथा कृतम् ।
भुक्त्वा मासं चरेदेतत् तत्पापस्यापनुत्तये ॥ १६ ॥

वार्ताकं भुस्तृणं शिग्रुं खुखुण्डं करकं तथा ।
प्राजापत्यं चरेज्जग्ध्वा शङ्खं कुम्भीकमेव च ॥ १७ ॥

पलाण्डुं लशुनं चैव भुक्त्वा चान्द्रायणं चरेत् ।
नालिकां तण्डुलीयं च प्राजापत्येन शुद्ध्यति ॥ १८ ॥

अश्मान्तकं तथा पोतं तप्तकृच्छ्रेण शुद्ध्यति ।
प्राजापत्येन शुद्धिः स्यात् कक्कुभाण्डस्य भक्षणे ॥ १९ ॥

अलाबुं किंशुकं चैव भुक्त्वा चैतद् व्रतं चरेत् ।
उदुम्बरं च कामेन तप्तकृच्छ्रेण शुद्ध्यति ॥ २० ॥

वृथा कृसरसंयावं पायसापूपसङ्कुलम् ।
भुक्त्वा चैवं विधं त्वन्नं त्रिरात्रेण विशुद्ध्यति ॥ २१ ॥

पीत्वा क्षीराण्यपेयानि ब्रह्मचारी समाहितः ।
गोमूत्रयावकाहारो मासेनैकेन शुद्ध्यति ॥ २२ ॥

अनिर्दशाहं गोक्षीरं माहिषं चाजमेव च ।
सन्धिन्याश्च विवत्सायाः पिबन् क्षीरमिदं चरेत् ॥ २३ ॥

एतेषां च विकाराणि पीत्वा मोहेन मानवः ।
गोमूत्रयावकाहारः सप्तरात्रेण शुद्ध्यति ॥ २४ ॥

भुक्त्वा चैव नवश्राद्धे मृतके सूतके तथा ।
चान्द्रायणेन शुद्ध्येत ब्राह्मणस्तु समाहितः ॥ २५ ॥

यस्याग्नौ हूयते नित्यं न यस्याग्रं न दीयते ।
चान्द्रायणं चरेत् सम्यक् तस्यान्नप्राशने द्विजः ॥ २६ ॥

अभोज्यानां तु सर्वेषां भुक्त्वा चान्नमुपस्कृतम् ।
अन्तावसायिनां चैव तप्तकृच्छ्रेण शुद्ध्यति ॥ २७ ॥

चाण्डालान्नं द्विजो भुक्त्वा सम्यक् चान्द्रायणं चरेत् ।
बुद्धिपूर्वं तु कृच्छ्राब्दं पुनः संस्कारमेव च ॥ २८ ॥

असुरामद्यपानेन कुर्याच्चान्द्रायणव्रतम् ।
अभोज्यान्नं तु भुक्त्वा च प्राजापत्येन शुद्ध्यति ॥ २९ ॥

विण्मूत्रपाशनं कृत्वा रेतसश्चैतदाचरेत् ।
अनादिष्टेषु चैकाहं सर्वत्र तु यथार्थतः ॥ ३० ॥

विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः ।
प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ॥ ३१ ॥

अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च ।
पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥ ३२ ॥

महासान्तपनं मोहात् तथा कुर्याद् द्विजोत्तमः ।
भासमण्डूककुररे विष्किरे कृच्छ्रमाचरेत् ॥ ३३ ॥

क्षत्रिये तप्तकृच्छ्रं स्याद् वैश्ये चैवातिकृच्छ्रकम् ।
शूद्रोच्छिष्टं द्विजो भुक्त्वा कुर्याच्चान्द्रायणव्रतम् ॥ ३४ ॥

शुनोच्छिष्टं द्विजो भुक्त्वा त्रिरात्रेण विशुद्ध्यति ।
गोमूत्रयावकाहारः पीतशेषं च रागवान् ॥ ३५ ॥

अपो मूत्रपुरीषाद्यैर्दूषिताः प्राशयेद् यदा ।
तदा सान्तपनं प्रोक्तं व्रतं पापविशोधनम् ॥ ३६ ॥

चाण्डालकूपभाण्डेषु यदि ज्ञानात् पिबेज्जलम् ।
चरेत् सान्तपनं कृच्छ्रं ब्राह्मणः पापशोधनम् ॥ ३७ ॥

चाण्डालेन तु संस्पृष्टं पीत्वा वारि द्विजोत्तमः ।
त्रिरात्रेण विशुद्ध्येत पञ्चगव्येन चैव हि ॥ ३८ ॥

महापातकिसंस्पर्शे भुङ्क्ते ऽस्नात्वा द्विजो यदि ।
बुद्धिपूर्वं तु मूढात्मा तप्तकृच्छ्रं समाचरेत् ॥ ३९ ॥

स्पृष्ट्वा महापातकिनं चाण्डालं वा रजस्वलाम् ।
प्रमादाद् भोजनं कृत्वा त्रिरात्रेण विशुद्ध्यति ॥ ४० ॥

स्नानार्हे यदि भुञ्जीत अहोरात्रेण शुद्ध्यति ।
बुद्धिपूर्वं तु कृच्छ्रेण भगवानाह पद्मजः ॥ ४१ ॥

शुष्कपर्युषितादीनि गवादिप्रतिदूषितम् ।
भुक्त्वोपवासं कुर्वोत कृच्छ्रपादमथापि वा ॥ ४२ ॥

संवत्सरान्ते कृच्छ्रं तु चरेद् विप्रः पुनः पुनः ।
अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥ ४३ ॥

व्रात्यानां यजनं कृत्वा परेषामन्त्यकर्म च ।
अभिचारमहीनं च त्रिभिः कृच्छ्रैर्विशुद्ध्यति ॥ ४४ ॥

ब्राह्मणादिहतानां तु कृत्वा दाहादिकाः क्रियाः ।
गोमूत्रयावकाहारः प्राजापत्येन शुद्ध्यति ॥ ४५ ॥

तैलाभ्यक्तो ऽथवा कुर्याद् यदि मूत्रपुरीषके ।
अहोरात्रेण शुद्ध्येत श्मश्रुकर्म च मैथुनम् ॥ ४६ ॥

एकाहेन विवाहाग्निं परिहार्य द्विजोत्तमः ।
त्रिरात्रेण विशद्ध्येत त्रिरात्रात् षडहं पुनः ॥ ४७ ॥

दशाहं द्वादशाहं वा परिहार्य प्रमादतः ।
कृच्छ्रं चान्द्रायणं कुर्यात् तत्पापस्यापनुत्तये ॥ ४८ ॥

पतिताद् द्रव्यमादाय तदुत्सर्गेण शुद्ध्यति ।
चरेत् सान्तपनं कृच्छ्रमित्याह भगवान् प्रभुः ॥ ४९ ॥

अनाशकनिवृत्तास्तु प्रव्रज्यावसितास्तथा ।
चरेयुस्त्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च ॥ ५० ॥

पुनश्च जातकर्मादिसङ्कारैः संस्कृता द्विजाः ।
शुद्ध्येयुस्तद् व्रतं सम्यक् चरेयुर्धर्मवर्धनाः ॥ ५१ ॥

अनुपासितसन्ध्यस्तु तदहर्यापको वसेत् ।
अनश्नन् संयतमना रात्रौ चेद् रात्रिमेव हि ॥ ५२ ॥

अकृत्वा समिदाधानं शुचिः स्नात्वा समाहितः ।
गायत्र्यष्टसहस्रस्य जप्यं कुर्याद् विशुद्धये ॥ ५३ ॥

उपासीत न चेत् सन्ध्यां गृहस्थो ऽपि प्रमादतः ।
स्नात्वा विशुद्ध्यते सद्यः परिश्रान्तस्तु संयमात् ॥ ५४ ॥

वेदोदितानि नित्यानि कर्माणि च विलोप्य तु ।
स्नातकव्रतलोपं तु कृत्वा चोपवसेद् दिनम् ॥ ५५ ॥

संवत्सरं चरेत् कृच्छ्रमग्न्युत्सादी द्विजोत्तमः ।
चान्द्रायणं चरेद् व्रात्यो गोप्रदानेन शुद्ध्यति ॥ ५६ ॥

नास्तिक्यं यदि कुर्वोत प्राजापत्यं चरेद् द्विजः ।
देवद्रोहं गुरुद्रोहं तप्तकृच्छ्रेण शुद्ध्यति ॥ ५७ ॥

उष्ट्रयानं समारुह्य खरयानं च कामतः ।
त्रिरात्रेण विशुद्ध्येत् तु नग्नो वा प्रविशेज्जलम् ॥ ५८ ॥

षष्ठान्नकालतामासं संहिताजप एव च ।
होमाश्च शाकला नित्यमपाङ्क्तानां विशोधनम् ॥ ५९ ॥

नीलं रक्तं वसित्वा च ब्राह्मणो वस्त्रमेव हि ।
अहोरात्रोषितः स्नातः पञ्चगव्येन शुद्ध्यति ॥ ६० ॥

वेदधर्मपुराणानां चण्डालस्य तु भाषणे ।
चान्द्रायणेन शुद्धिः स्यान्न ह्यन्या तस्य निष्कृतिः ॥ ६१ ॥

उद्बन्धनादिनिहतं संस्पृश्य ब्राह्मणः क्वचित् ।
चान्द्रायणेन शुद्धिः स्यात् प्राजापत्येन वा पुनः ॥ ६२ ॥

उच्छिष्टो यद्यनाचान्तश्चाण्डालादीन् स्पृशेद् द्विजः ।
प्रमादाद् वै जपेत् स्नात्वा गायत्र्यष्टसहस्रकम् ॥ ६३ ॥

द्रुपदानां शतं वापि ब्रह्मचारी समाहितः ।
त्रिरात्रोपोषितः सम्यक् पञ्चगव्येन शुद्ध्यति ॥ ६४ ॥

चण्डालपतितादींस्तु कामाद् यः संस्पृशेद् द्विजः ।
उच्छिष्टस्तत्र कुर्वोत प्राजापत्यं विशुद्धये ॥ ६५ ॥

चाण्डालसूतकशवांस्तथा नारीं रजस्वलाम् ।
स्पृष्ट्वा स्नायाद् विशुद्ध्यर्थं तत्स्पृष्टं पतितिं तथा ॥ ६६ ॥

चाण्डालसूतकशवैः संस्पृष्टं संस्पृशेद् यदि ।
प्रमादात् तत आचम्य जपं कुर्यात् समाहितः ॥ ६७ ॥

तत् स्पृष्टस्पर्शिनं स्पृष्ट्वा बुद्धिपूर्वं द्विजोत्तमः ।
आचमेत् तद् विशुद्ध्यर्थं प्राह देवः पितामहः ॥ ६८ ॥

भुञ्जानस्य तु विप्रस्य कदाचित् संस्त्रवेद् गुदम् ।
कृत्वा शौचं ततः स्नायादुपोष्य जुहुयाद् घृतम् ॥ ६९ ॥

चाण्डालान्त्यशवं स्पृष्ट्वा कृच्छ्रं कुर्याद् विशुद्धये ।
स्पृष्ट्वाभ्यक्तस्त्वसंस्पृश्यमहोरात्रेण शुद्ध्यति ॥ ७० ॥

सुरां स्पृष्ट्वा द्विजः कुर्यात् प्राणायामत्रयं शुचिः ।
पलाण्डुं लशुनं चैव घृतं प्राश्य ततः शुचिः ॥ ७१ ॥

ब्राह्मणस्तु शुना दष्टस्त्र्यहं सायं पयः पिबेत् ।
नाभेरूर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत् ॥ ७२ ॥

स्यादेतत् त्रिगुणं बाह्वोर्मूर्ध्नि च स्याच्चतुर्गुणम् ।
स्नात्वा जपेद् वा सावित्रीं श्वभिर्दष्टो द्विजोत्तमः ॥ ७३ ॥

अनिर्वर्त्य महायज्ञान् यो भुङ्क्ते तु द्विजोत्तमः ।
अनातुरः सति धने कृच्छ्रार्धेन स शुद्ध्यति ॥ ७४ ॥

आहिताग्निरुपस्थानं न कुर्याद् यस्तु पर्वणि ।
ऋतौ न गच्छेद् भार्यां वा सो ऽपि कृच्छ्रार्धमाचरेत् ॥ ७५ ॥

विनाद्भिरप्सु नाप्यार्तः शरीरं सन्निवेश्य च ।
सचैलो जलमाप्लुत्य गामालभ्य विशुद्ध्यति ॥ ७६ ॥

बुद्धिपूर्वं त्वभ्युदितो जपेदन्तर्जले द्विजः ।
गायत्र्यष्टसहस्रं तु त्र्यहं चोपवसेद् व्रती ॥ ७७ ॥

अनुगम्येच्छया शूद्रं प्रेतीभूतं द्विजोत्तमः ।
गायत्र्यष्टसहस्रं च जप्यं कुर्यान्नदीषु च ॥ ७८ ॥

कृत्वा तु शपथं विप्रो विप्रस्य वधसंयुतम् ।
मृषैव यावकान्नेन कुर्याच्चान्द्रायणं व्रतम् ॥ ७९ ॥

पङ्क्त्यां विषमदानं तु कृत्वा कृच्छ्रेण शुद्ध्यति ।
छायां श्वपाकस्यारुह्य स्नात्वा सम्प्राशयेद् घृतम् ॥ ८० ॥

ईक्षेदादित्यमशुचिर्दृष्ट्वाग्निं चन्द्रमेव वा ।
मानुषं चास्थि संस्पृश्य स्नानं कृत्वा विशुद्ध्यति ॥ ८१ ॥

कृत्वा तु मिथ्याध्ययनं चरेद् भैक्षं तु वत्सरम् ।
कृतघ्नो ब्राह्मणगृहे पञ्च संवत्सरं व्रती ॥ ८२ ॥

हुङ्कारं ब्राह्मणस्योक्त्वा त्वङ्कारं च गरीयसः ।
स्नात्वानश्नन्नहः शेषं प्रणिपत्य प्रसादयेत् ॥ ८३ ॥

ताडयित्वा तृणेनापि कण्ठं बद्ध्वापि वाससा ।
विवादे वापि निर्जित्य प्रणिपत्य प्रसादयेत् ॥ ८४ ॥

अवगूर्य चरेत् कृच्छ्रमतिकृच्छ्रं निपातने ।
कृच्छ्रातिकृच्छ्रौ कुर्वोत विप्रस्योत्पाद्य शोणितम् ॥ ८५ ॥

गुरोराक्रोशमनृतं कृत्वा कुर्याद् विशोधनम् ।
एकरात्रं त्रिरात्रं वा तत्पापस्यापनुत्तये ॥ ८६ ॥

देवर्षोणामभिमुखं ष्ठीवनाक्रोशने कृते ।
उल्मुकेन दहेज्जिह्वां दातव्यं च हिरण्यकम् ॥ ८७ ॥

देवोद्याने तु यः कुर्यान्मूत्रोच्चारं सकृद् द्विजः ।
छिन्द्याच्छिश्नं तु शुद्ध्यर्थं चरेच्चान्द्रायणं तु वा ॥ ८८ ॥

देवतायतने मूत्रं कृत्वा मोहाद् द्विजोत्तमः ।
शिश्नस्योत्कर्तनं कृत्वा चान्द्रायणमथाचरेत् ॥ ८९ ॥

देवतानामृषीणां च देवानां चैव कुत्सनम् ।
कृत्वा सम्यक् प्रकुर्वोत प्राजापत्यं द्विजोत्तमः ॥ ९० ॥

तैस्तु सम्भाषणं कृत्वा स्नात्वा देवान् समर्चयेत् ।
दृष्ट्वा वीक्षेत भास्वन्तं स्म्वत्वा विशेश्वरं स्मरेत् ॥ ९१ ॥

यः सर्वभूताधिपतिं विश्वेशानं विनिन्दति ।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥ ९२ ॥

चान्द्रायणं चरेत् पूर्वं कृच्छ्रं चैवातिकृच्छ्रकम् ।
प्रपन्नः शरणं देवं तस्मात् पापाद् विमुच्यते ॥ ९३ ॥

सर्वस्वदानं विधिवत् सर्वपापविशोधनम् ।
चान्द्रायणं चविधिना कृच्छ्रं चैवातिकृच्छ्रकम् ॥ ९४ ॥

पुण्यक्षेत्राभिगमनं सर्वपापविनाशनम् ।
देवताभ्यर्चनं नॄणामशेषाघविनाशनम् ॥ ९५ ॥
मूलम्
पुण्यक्षेत्राभिगमनं सर्वपापविनाशनम् ।
देवताभ्यर्चनं नॄणामशेषाघविनाशनम् ॥ ९५ ॥
विश्वास-प्रस्तुतिः
अमावस्यां तिथिं प्राप्य यः समाराधयेच्छिवम् ।
ब्राह्मणान् भोजयित्वा तु सर्वपापैः प्रमुच्यते ॥ ९६ ॥

कृष्णाष्टम्यां महादेवं तथा कृष्णचतुर्दशीम् ।
सम्पूज्य ब्राह्मणमुखे सर्वपापैः प्रमुच्यते ॥ ९७ ॥

त्रयोदश्यां तथा रात्रौ सोपहारं त्रिलोचनम् ।
दृष्ट्वेशं प्रथमे यामे मुच्यते सर्वपातकैः ॥ ९८ ॥

उपोषितश्चतुर्दश्यां कृष्णपक्षे समाहितः ।
यमाच धर्मराजाय मृत्यवे चान्तकाय च ॥ ९९ ॥

प्रत्येकं तिलसंयुक्तान् दद्यात् सप्तोदकाञ्जलीन् ।
स्नात्वा नद्यां तु पूर्वाह्ने मुच्यते सर्वपातकैः ॥ १०० ॥

ब्रह्मचर्यमधः शय्यामुपवासं द्विजार्चनम् ।
व्रतेष्वेतेषु कुर्वोत शान्तः संयतमानसः ॥ १०१ ॥

अमावस्यायां ब्रह्माणं समुद्दिश्य पितामहम् ।
ब्राह्मणांस्त्रीन् समभ्यर्च्य मुच्यते सर्वपातकैः ॥ १०२ ॥

षष्ठ्यामुपोषितो देवं शुक्लपक्षे समाहितः ।
सप्तम्यामर्चयेद् भानुं मुच्यते सर्वपातकैः ॥ १०३ ॥

भरण्यां च चतुर्थ्यां च शनैश्चरदिने यमम् ।
पूजयेत् सप्तजन्मोत्थैर्मुच्यते पातकैर्नरः ॥ १०४ ॥

एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् ।
द्वादश्यां शुक्लपक्षस्य महापापैः प्रमुच्यते ॥ १०५ ॥

तपो जपस्तीर्थसेवा देवब्राह्मणपूजनम् ।
ग्रहणादिषु कालेषु महापातकशोधनम् ॥ १०६ ॥
मूलम्
तपो जपस्तीर्थसेवा देवब्राह्मणपूजनम् ।
ग्रहणादिषु कालेषु महापातकशोधनम् ॥ १०६ ॥
विश्वास-प्रस्तुतिः
यः सर्वपापयुक्तो ऽपि पुण्यतीर्थेषु मानवः ।
नियमेन त्यजेत् प्राणान् स मुच्येत् सर्वपातकैः ॥ १०७ ॥

ब्रह्मघ्नं वा कृतघ्नं वा महापातकदूषितम् ।
भर्तारमुद्धरेन्नारी प्रविष्टा सह पावकम् ॥ १०८ ॥

एतदेव परं स्त्रीणां प्रायश्चित्तं विदुर्बुधाः ।
सर्वपापसमुद्भूतौ नात्र कार्या विचारणा ॥ १०९ ॥

पतिव्रता तु या नारी भर्तृशुश्रूषणोत्सुका ।
न तस्या विद्यते पापमिह लोके परत्र च ॥ ११० ॥

पतिव्रता धर्मरता रुद्राण्येव न संशयः ।
नास्याः पराभवं कर्तुं शक्नोतीह जनः क्वचित् ॥ १११ ॥

यथा रामस्य सुभगा सीता त्रैलोक्यविश्रुता ।
पत्नी दाशरथेर्देवी विजिग्ये राक्षसेश्वरम् ॥ ११२ ॥

रामस्य भार्यां विमलां रावणो राक्षसेश्वरः ।
सीतां विशालनयनां चकमे कालचोदितः ॥ ११३ ॥

गृहीत्वा मायया वेषं चरन्तीं विजने वने ।
समाहर्तुं मतिं चक्रे तापसः किल कामिनीम् ॥ ११४ ॥

विज्ञाय सा च तद्भावं स्मृत्वा दाशरथिं पतिम् ।
जगाम शरणं वह्निमावसथ्यं शुचिस्मिता ॥ ११५ ॥

उपतस्थे महायोगं सर्वदोषविनाशनम् ।
कृताञ्जली रामपत्नी शाक्षात् पतिमिवाच्युतम् ॥ ११६ ॥

नमस्यामि महायोगं कृतान्तं गहनं परम् ।
दाहकं सर्वभूतानामीशानं कालरूपिणम् ॥ ११७ ॥

नमस्ये पावकं देवं साक्षिणं विश्वतोमुखम् ।
आत्मानं दीप्तवपुषं सर्वभूतहृदी स्थितम् ॥ ११८ ॥

प्रपद्ये शरणं वह्निं ब्रह्मण्यं ब्रह्मरूपिणम् ।
भूतेशं कृत्तिवसनं शरण्यं परमं पदम् ॥ ११९ ॥

ॐ प्रपद्ये जगन्मूर्तिं प्रभवं सर्वतेजसाम् ।
महायोगेश्वरं वह्निमादित्यं परमेष्ठिनम् ॥ १२० ॥

प्रपद्ये शरणं रुद्रं महाग्रासं त्रिशूलिनम् ।
कालाग्निं योगिनामीशं भोगमोक्षफलप्रदम् ॥ १२१ ॥

प्रपद्ये त्वां विरूपाक्षं भुर्भुवः स्वः स्वरूपिणम् ।
हिरण्यमये गृहे गुप्तं महान्तममितौजसम् ॥ १२२ ॥

वैश्वानरं प्रपद्ये ऽहं सर्वभूतेष्ववस्थितम् ।
हव्यकव्यवहं देवं प्रपद्ये वह्निमीश्वरम् ॥ १२३ ॥

प्रपद्ये तत्परं तत्त्वं वरेण्यं सवितुः स्वयम् ।
भर्गमग्निपरं ज्योती रक्ष मां हव्यवाहन ॥ १२४ ॥

इति वह्न्यष्टकं जप्त्वा रामपत्नी यशस्विनी ।
ध्यायन्ती मनसा तस्थौ राममुन्मीलितेक्षणा ॥ १२५ ॥

अथावसथ्याद् भगवान् हव्यवाहो महेश्वरः ।
आविरासीत् सुदीप्तात्मा तेजसा प्रदहन्निव ॥ १२६ ॥

स्वष्ट्वा मायामयीं सीतां स रावणवधेप्सया ।
सीतामादाय धर्मिष्ठां पावको ऽन्तरधीयत ॥ १२७ ॥

तां दृष्ट्वा तादृशीं सीतां रावणो राक्षसेश्वरः ।
समादाय ययौ लङ्कां सागरान्तरसंस्थिताम् ॥ १२८ ॥

कृत्वाथ रावणवधं रामो लक्ष्मणसंयुतः ।
मसादायाभवत् सीतां शङ्काकुलितमानसः ॥ १२९ ॥

सा प्रत्ययाय भूतानां सीता मायामीय पुनः ।
विवेश पावकं दीप्तं ददाह ज्वलनो ऽपि ताम् ॥ १३० ॥

दग्ध्वा मायामयीं सीतां भगवानुग्रदीधितिः ।
रामायादर्शयत् सीतां पावको ऽभूत् सुरप्रियः ॥ १३१ ॥

प्रगृह्य भर्तुश्चरणौ कराभ्यां सा सुमध्यमा ।
चकार प्रणतिं भूमौ रामाय जनकात्मजा ॥ १३२ ॥

दृष्ट्वा हृष्टमना रामो विस्मयाकुललोचनः ।
ननाम वह्निं सिरसा तोषयामास राघवः ॥ १३३ ॥

उवाच वह्नेर्भगवान् किमेषा वरवर्णिनी ।
दग्धा भगवता पूर्वं दृष्टा मत्पार्श्वमागता ॥ १३४ ॥

तमाह देवो लोकानां दाहको हव्यवाहनः ।
यथावृत्तं दाशरथिं भूतानामेव सन्निधौ ॥ १३५ ॥

इयं सा मिथिलेशेन पार्वतीं रुद्रवल्लभाम् ।
आराध्य लब्धा तपसा देव्याश्चात्यन्तवल्लभा ॥ १३६ ॥

भर्तुः शुश्रूषणोपेता सुशीलेयं पतिव्रता ।
भवानीपार्श्वमानीता मया रावणकामिता ॥ १३७ ॥

या नीता राक्षसेशेन सीता भगवताहृता ।
मया मायामयी सृष्टा रावणस्य वधाय सा ॥ १३८ ॥

तदर्थं भवता दुष्टो रावणो राक्षसेश्वरः ।
मयोपसंहृता चैव हतो लोकविनाशनः ॥ १३९ ॥
मूलम्
तदर्थं भवता दुष्टो रावणो राक्षसेश्वरः ।
मयोपसंहृता चैव हतो लोकविनाशनः ॥ १३९ ॥
विश्वास-प्रस्तुतिः
गृहाण विमलामेनां जानकीं वचनान्मम ।
पश्य नारायणं देवं स्वात्मानं प्रभवाव्ययम् ॥ १४० ॥

इत्युक्त्वा भगवांश्चण्डो विश्चार्चिर्विश्वतोमुखः ।
मानितो राघवेणाग्निर्भूतैश्चान्तरधीयत ॥ १४१ ॥

एतते पतिव्रतानां वैं माहात्म्यं कथितं मया ।
स्त्रीणां सर्वाघशमनं प्रायश्चित्तमिदं स्मृतम् ॥ १४२ ॥

अशेषपापयुक्तस्तु पुरुषो ऽपि सुसंयतः ।
स्वदेहं पुण्यतीर्थेषु त्यक्त्वा मुच्येत किल्बिषात् ॥ १४३ ॥

पृथिव्यां सर्वतीर्थेषु स्नात्वा पुण्येषु वा द्विजः ।
मुच्यते पातकैः सर्वैः समस्तैरपि पूरुषः ॥ १४४ ॥

इत्येष मानवो धर्मो युष्माकं कथितो मया ।
महेशाराधनार्थाय ज्ञानयोगं च शाश्वतम् ॥ १४५ ॥

यो ऽनेन विधिना युक्तं ज्ञानयोगं समाचरेत् ।
स पश्यति महादेवं नान्यः कल्पशतैरपि ॥ १४६ ॥

स्थापयेद् यः परं धर्मं ज्ञानं तत्पारमेश्वरम् ।
न तस्मादधिको लोके स योगी परमो मतः ॥ १४७ ॥

य संस्थापयितुं शक्तो न कुर्यान्मोहितो जनः ।
स योगयुक्तो ऽपि मुनिर्नात्यर्थं भगवत्प्रियः ॥ १४८ ॥

तस्मात् सदैव दातव्यं ब्राह्मणेषु विशेषतः ।
धर्मयुक्तेषु शान्तेषु श्रद्धया चान्वितेषु वै ॥ १४९ ॥

यः पठेद् भवतां नित्यं संवादं मम चैव हि ।
सर्वपापविनिर्मुक्तो गच्छेत परमां गतिम् ॥ १५० ॥

श्राद्धे वा दैविके कार्ये ब्राह्मणानां च सन्निधौ ।
पठेत नित्यं सुमनाः श्रोतव्यं च द्विजातिभिः ॥ १५१ ॥

योर्ऽथं विचार्य युक्तात्मा श्रावयेद् ब्राह्मणान् शुचीन् ।
स दोषकञ्चुकं त्यक्त्वा याति देवं महेश्वरम् ॥ १५२ ॥

एतावदुक्त्वा भगवान् व्यासः सत्यवतीसुतः ।
समाश्वास्य मुनीन् सूतं जगाम च यथागतम् ॥ १५३ ॥

इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे त्रयस्त्रिशो ऽध्यायः