३२

व्यास उवाच

विश्वास-प्रस्तुतिः

सुरापस्तु सुरां तप्तामग्निवर्णां स्वयं पिबेत् ।
तया स काये निर्दग्धे मुच्यते तु द्विजोत्तमः ॥ १ ॥

मूलम्

गोमूत्रमग्निवर्णं वा गोशकृद्रसमेव वा ।
पयो घृतं जलं वाथ मुच्यते पातकात् ततः ॥ २ ॥

जलार्द्रवासाः प्रयतो ध्यात्वा नारायणं हरिम् ।
ब्रह्महत्याव्रतं चाथ चरेत् तत्पापशान्तये ॥ ३ ॥

सुवर्णस्तेयकृद् विप्रो राजानमभिगम्य तु ।
स्वकर्म ख्यापयन् ब्रूयान्मां भवाननुशास्त्विति ॥ ४ ॥

गृहीत्वा मुसलं राजा सकृद् हन्यात् ततः स्वयम् ।
वधे तु शुद्ध्यते स्तेनो ब्राह्मणस्तपसैव वा ॥ ५ ॥

स्कन्धेनादाय मुसलं लकुटं वापि खादिरम् ।
शक्तिं चोभयतस्तीक्ष्णामायसं दण्डमेव वा ॥ ६ ॥

राजा तेन च गन्तव्यो मुक्तकेशेन धावता ।
आचक्षाणेन तत्पापमेवङ्कर्मास्मि शाधि माम् ॥ ७ ॥

शासनाद् वा विमोक्षाद् वा स्तेनः स्तेयाद् विमुच्यते ।
अशासित्वा तु तं राजास्तेनस्याप्नोति किल्बिषम् ॥ ८ ॥

तपसापनुनुत्सुस्तु सुवर्णस्तेयजं मलम् ।
चीरवासा द्विजो ऽरण्ये चरेद् ब्रह्महणो व्रतम् ॥ ९ ॥

स्नात्वाश्वमेधावभृथे पूतः स्यादथवा द्विजः ।
प्रदद्याद् वाथ विप्रेभ्यः स्वात्मतुल्यं हिरण्यकम् ॥ १० ॥

चरेद् वा वत्सरं कृच्छ्रं ब्रह्मचर्यपरायणः ।
ब्राह्मणः स्वर्णहारी तु तत्पापस्यापनुत्तये ॥ ११ ॥

गुरोर्भार्यां समारुह्य ब्राह्मणः काममोहितः ।
अवगूहेत् स्त्रियं तप्तां दीप्तां कार्ष्णायसीं कृताम् ॥ १२ ॥

स्वयं वा शिश्नवृषणावुत्कृत्याधाय चाञ्चलौ ।
आतिष्ठेद् दक्षिणामाशामानिपातादजिह्मगः ॥ १३ ॥

गुर्वर्थं वा हतः शुद्ध्येच्चरेद् वा ब्रह्महा व्रतम् ।
विश्वास-प्रस्तुतिः

शाखां वा कण्टकोपेतां परिष्वज्याथ वत्सरम् ।
अधः शयीत नियतो मुच्यते गुरुतल्पगः ॥ १४ ॥

कृच्छ्रं वाब्दं चरेद् विप्रश्चीरवासाः समाहितः ।
अश्वमेधावभृथके स्नात्वा वा शुद्ध्यते नरः ॥ १५ ॥

काले ऽष्टमे वा भुञ्जानो ब्रह्मचारी सदाव्रती ।
स्थानासनाभ्यां विहरंस्त्रिरह्नो ऽभ्युपयन्नपः ॥ १६ ॥

अधः शायी त्रिभिर्वर्षैस्तद् व्यपोहति पातकम् ।
चान्द्रायणानि वा कुर्यात् पञ्च चत्वारि वा पुनः ॥ १७ ॥

पतितैः सम्प्रयुक्तानामथ वक्ष्यामि निष्कृतिम् ।
विश्वास-प्रस्तुतिः

पतितेन तु संसर्गं यो येन कुरुते द्विजः ।
स तत्पापापनोदार्थं तस्यैव व्रतमाचरेत् ॥ १८ ॥

तप्तकृच्छ्रं चरेद् वाथ संवत्सरमतन्द्रितः ।
षाण्मासिके तु संसर्गे प्रायश्चित्तार्धमर्हति ॥ १९ ॥

एभिर्व्रतैरपोहन्ति महापातकिनो मलम् ।
पुण्यतीर्थाभिगमनात् पृथिव्यां वाथ निष्कृतिः ॥ २० ॥

ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।
कृत्वा तैश्चापि संसर्गं ब्राह्मणः कामकारतः ॥ २१ ॥

कुर्यादनशनं विप्रः पुण्यतीर्थे समाहितः ।
ज्वलन्तं वा विशेदग्निं ध्यात्वा देवं कपर्दिनम् ॥ २२ ॥

न ह्यन्या निष्कृतिर्दृष्टा मुनिभिर्धर्मवादिभिः ।
तस्मात् पुण्येषु तीर्थेषु दहेद् वापि स्वदेहकम् ॥ २३ ॥

गत्वा दुहितरं विप्रः स्वसारं वा स्नुषामपि ।
प्रविशेज्ज्वलनं दीप्तं मतिपूर्वमिति स्थितिः ॥ २४ ॥

मातृष्वसां मातुलानीं तथैव च पितृष्वसाम् ।
भागिनेयीं समारुह्य कुर्यात् कृच्छ्रातिकृच्छ्रकौ ॥ २५ ॥

चान्द्रायणं च कुर्वोत तस्य पापस्य शान्तये ।
ध्यायन् देवं जगद्योनिमनादिनिधनं परम् ॥ २६ ॥

भ्रातृभार्यां समारुह्य कुर्यात् तत्पापशान्तये ।
चान्द्रायणानि चत्वारि पञ्च वा सुसमाहितः ॥ २७ ॥

पैतृष्वस्त्रेयीं गत्वा तु स्वस्त्रेयां मातुरेव च ।
मातुलस्य सुतां वापि गत्वा चान्द्रायणं चरेत् ॥ २८ ॥

सखिभार्यां समारुह्य गत्वा श्यालीं तथैव च ।
अहोरात्रोषितो भूत्वा तप्तकृच्छ्रं समाचरेत् ॥ २९ ॥

उदक्यागमने विप्रस्त्रिरात्रेण विशुध्यति ।
विश्वास-प्रस्तुतिः

चाण्डालीगमने चैव तप्तकृच्छ्रत्रयं विदुः ।
सह सान्तपनेनास्य नान्यथा निष्कृतिः स्मृता ॥ ३० ॥

मातृगोत्रां समासाद्य समानप्रवरां तथा ।
चाद्रायणेन शुध्येत प्रयतात्मा समाहितः ॥ ३१ ॥

ब्राह्मणो ब्राह्मणीं गत्वा गृच्छ्रमेकं समाचरेत् ।
कन्यकां दूषयित्वा तु चरेच्चान्द्रायणव्रतम् ॥ ३२ ॥

अमानुषीषु पुरुष उदक्यायामयोनिषु ।
रेतः सिक्त्वा जले चैव कृच्छ्रं सान्तपनं चरेत् ॥ ३३ ॥

बन्धकीगमने विप्रस्त्रिरात्रेण विशुद्ध्यति ।
गवि भथुनमासेव्य चरेच्चान्द्रायणव्रतम् ॥ ३४ ॥

अजावी मैथुनं कृत्वा प्राजापत्यं चरेद् द्विजः ।
पतितां च स्त्रियं गत्वा त्रिभिः कृच्छ्रै र्विशुद्ध्यति ॥ ३५ ॥

पुल्कसीगमने चैव क्रच्छ्रं चान्द्रायणं चरेत् ।
विश्वास-प्रस्तुतिः

नटीं शैलूषकीं चैव रजकीं वेणुजीविनीम् ।
गत्वा चान्द्रायणं कुर्यात् तथा चर्मोपजीविनीम् ॥ ३६ ॥

ब्रहामचारी स्त्रियं गच्छेत् कथञ्चित्काममोहितः ।
सप्तगारं चरेद् भैक्षं वसित्वा गर्दभाजिनम् ॥ ३७ ॥

उपस्पृशेत् त्रिषवणं स्वपापं परिकीर्तयन् ।
संवत्सरेण चैकेन तस्मात् पापात् प्रमुच्यते ॥ ३८ ॥

ब्रह्महत्याव्रतं वापि षण्मासानाचरेद् यमी ।
मुच्यते ह्यवकीर्णो तु ब्राह्मणानुमते स्थितः ॥ ३९ ॥

सप्तरात्रमकृत्वा तु भैक्षचर्याग्निपूजनम् ।
रेतसश्च समुत्सर्गे प्रायश्चित्तं समाचरेत् ॥ ४० ॥

ओङ्कारपूर्विकाभिस्तु महाव्याहृतिभिः सदा ।
संवत्सरं तु भुञ्जानो नक्तं भिक्षाशनः शुचिः ॥ ४१ ॥

सावित्रीं च जपेच्चैव नित्यं क्रोधविवर्जितः ।
नदीतीरेषु तीर्थेषु तस्मात् पापाद् विमुच्यते ॥ ४२ ॥

हत्वा तु क्षत्रियं विप्रः कुर्याद् ब्रह्महणो व्रतम् ।
अकामतो वै षण्मासान् दद्यान् पञ्चशतं गवाम् ॥ ४३ ॥

अब्दं चरेत नियतो वनवासी समाहितः ।
प्राजापत्यं सान्तपनं तप्तकृच्छ्रं तु वा स्वयम् ॥ ४४ ॥

प्रमाप्याकामतो वैश्यं कुर्यात् संवत्सरद्वयम् ।
विश्वास-प्रस्तुतिः

गोसहस्रं सपादं च दद्याद् ब्रह्महणो व्रतम् ।
कृच्छ्रातिकृच्छ्रौ वा कुर्याच्चान्द्रायणमथावि वा ॥ ४५ ॥

संवत्सरं व्रतं कुर्याच्छूद्रं हत्वा प्रमादतः ।
गोसहस्रार्धपादं च दद्यात् तत्पापशान्तये ॥ ४६ ॥

अष्टौ वर्षाणि षट् त्रीणि कुर्याद् ब्रह्महणो व्रतम् ।
हत्वा तु क्षत्रियं वैश्यं शूद्रं चैव यथाक्रमम् ॥ ४७ ॥

निहत्य ब्राह्मणीं विप्रस्त्वष्टवर्षं व्रतं चरेत् ।
विश्वास-प्रस्तुतिः

राजन्यां वर्षषट्कं तु वैश्यां संवत्सरत्रयम् ।
वत्सरेण विशुद्ध्येत शूद्रां हत्वा द्विजोत्तमः ॥ ४८ ॥

वैश्यां हत्वा प्रमादेन किञ्चिद् दद्याद् द्विजातये ।
विश्वास-प्रस्तुतिः

अन्त्यजानां वधे चैव कुर्याच्चान्द्रायणं व्रतम् ।
पराकेणाथवा शुद्धिरित्याह भगवानजः ॥ ४९ ॥

मण्डूकं नकुलं काकं दन्दशूकं च मूषिकम् ।
श्वानं हत्वा द्विजः कुर्यात् षोडशांशं व्रतं ततः ॥ ५० ॥

पयः पिबेत् त्रिरात्रं तु श्वानं हत्वा सुयन्त्रितः ।
विश्वास-प्रस्तुतिः

मार्जारं वाथ नकुलं योजनं वाध्वनो व्रजेत् ।
कृच्छ्रं द्वादशरात्रं तु कुर्यादश्ववधे द्विजः ॥ ५१ ॥

अभ्रीं कार्ष्णायसीं दद्यात् सर्पं हत्वा द्विजोत्तमः ।
पलालभारं षण्डं च सैसकं चैकमाषकम् ॥ ५२ ॥

धृतकुम्भं वराहं च तिलद्रोणं च तित्तिरिम् ।
शुकं द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम् ॥ ५३ ॥

हत्वा हंसं बलाकां च बकं बर्हिणमेव च ।
वानरं श्येनभासौ च स्पर्शयेद् ब्राह्मणाय गाम् ॥ ५४ ॥

क्रव्यादांस्तु मृगान् हत्वा धेनुं दद्यात् पयस्विनीम् ।
अक्रव्यादान् वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम् ॥ ५५ ॥

किञ्चिदेव तु विप्राय दद्यादस्थिमतां वधे ।
अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ॥ ५६ ॥

फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम् ।
गुल्मवल्लीलतानां तु पुष्पितानां च वीरुधाम् ॥ ५७ ॥

अन्येषां चैव वृक्षाणां सरसानां च सर्वशः ।
फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ॥ ५८ ॥

हस्तिनां च वधे दृष्टं तप्तकृच्छ्रं विशोधनम् ।
विश्वास-प्रस्तुतिः

चान्द्रायणं पराकं वा गां हत्वा तु प्रमादतः ।
मतिपूर्वं वधे चास्याः प्रायश्चित्तं न विद्यते ॥ ५९ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे द्वात्रिशो ऽध्यायः