३१

ऋषय ऊचुः

विश्वास-प्रस्तुतिः

कथं देवेन रुद्रेण शङ्करेणामितौजसा ।
कपालं ब्रह्मणः पूर्वं स्थापितं देहजं भुवि ॥ १ ॥

मूलम्

सूत उवाच
विश्वास-प्रस्तुतिः

शृणुध्वमृषयः पुण्यां कथां पापप्रणाशनीम् ।
माहात्म्यं देवदेवस्य महादेवस्य धीमतः ॥ २ ॥

पुरा पितामहं देवं मेरुशृङ्गे महर्षयः ।
प्रोचुः प्रणम्य लोकादिं किमेकं तत्त्वमव्ययम् ॥ ३ ॥

स मायया महेशस्य मोहितो लोकसम्भवः ।
अविज्ञाय परं भावं स्वात्मानं प्राह धर्षिणम् ॥ ४ ॥

अहं धाता जगद्योनिः स्वयम्भूरेक ईश्वरः ।
अनादिमत्परं ब्रह्म मामभ्यर्च्य विमुच्यते ॥ ५ ॥

अहं हि सर्वदेवानां प्रवर्तकनिवर्तकः ।
न विद्यते चाभ्यधिको मत्तो लोकेषु कश्चन ॥ ६ ॥

तस्यैवं मन्यमानस्य जज्ञे नारायणांशजः ।
प्रोवाच प्रहसन् वाक्यं रोषताम्रविलोचनः ॥ ७ ॥

किं कारणमिदं ब्रह्मन् वर्तते तव साम्प्रतम् ।
अज्ञानयोगयुक्तस्य न त्वेतदुचितं तव ॥ ८ ॥

अहं धाता हि लोकानां यज्ञो नारायणः प्रभुः ।
न मामृते ऽस्य जगतो जीवनं सर्वदा क्वचित् ॥ ९ ॥

अहमेव परं ज्योतिरहमेव परा गतिः ।
मत्प्रेरितेन भवता सृष्टं भुवनमण्डलम् ॥ १० ॥

एवं विवदतोर्मोहात् परस्परजयैषिणोः ।
आजग्मुर्यत्र तौ देवौ वेदाश्चत्वार एव हि ॥ ११ ॥

अन्वीक्ष्य देवं ब्रह्माणं यज्ञात्मानं च संस्थितम् ।
प्रोचुः संविग्नहृदया याथात्म्यं परमेष्ठिनः ॥ १२ ॥

ऋग्वेद उवाच
विश्वास-प्रस्तुतिः

यस्यान्तः स्थानि भूतानि यस्मात्सर्वं प्रवर्तते ।
यदाहुस्तत्परं तत्त्वं स देवः स्यान्महेश्वरः ॥ १३ ॥

यजुर्वेद उवाच
विश्वास-प्रस्तुतिः

यो यज्ञैरखिलैरीशो योगेन च समर्च्यते ।
यमाहुरीश्वरं देवं स देवः स्यात् पिनाकधृक् ॥ १४ ॥

सामवेद उवाच
विश्वास-प्रस्तुतिः

येनेदं भ्राम्यते चक्रं यदाकाशान्तरं शिवम् ।
योगिभिर्विद्यते तत्त्वं महादेवः स शङ्करः ॥ १५ ॥

अथर्ववेद उवाच
विश्वास-प्रस्तुतिः

यं प्रपश्यन्ति योगेशं यतन्तो यतयः परम् ।
महेशं पुरुषं रुद्रं स देवो भगवान् भवः ॥ १६ ॥

एवं स भगवान् ब्रह्मा वेदानामीरितं शुभम् ।
श्रुत्वाह प्रहसन् वाक्यं विश्वात्मापि विमोहितः ॥ १७ ॥

कथं तत्परमं ब्रह्म सर्वसङ्गविवर्जितम् ।
रमते भार्यया सार्धं प्रमथैश्चातिगर्वितैः ॥ १८ ॥

इतिरिते ऽथ भगवान् प्रणवात्मा सनातनः ।
अमूर्तो मूर्तिमान् भूत्वा वचः प्राह पितामहम् ॥ १९ ॥

प्रणव उवाच
विश्वास-प्रस्तुतिः

न ह्येष भगवान् पत्न्या स्वात्मनो व्यतिरिक्तया ।
कदाचिद् रमते रुद्रस्तादृशो हि महेश्वरः ॥ २० ॥

अयं स भगवानीशः स्वयञ्ज्योतिः सनातनः ।
स्वानन्दभूता कथिता देवी नागन्तुका शिवा ॥ २१ ॥

इत्येवमुक्ते ऽपि तदा यज्ञमूर्तेरजस्य च ।
नाज्ञानमगमन्नाशमीश्वरस्यैव मायया ॥ २२ ॥

तदन्तरे महाज्योतिर्विरिञ्चो विश्वभावनः ।
प्रापश्यदद्भुतं दिव्यं पूरयन् गगनान्तरम् ॥ २३ ॥

तन्मध्यसंस्थं विमलं मण्डलं तेजसोज्ज्वलम् ।
व्योममध्यगतं दिव्यं प्रादुरासीद् द्विजोत्तमाः ॥ २४ ॥

स दृष्ट्वा वदनं दिव्यं मूर्ध्नि लोकपितामहः ।
तेन तन्मण्जलं घोरमालोकयदनिन्दितम् ॥ २५ ॥

प्रजज्वालातिकोपेन ब्रह्मणः पञ्चमं शिरः ।
क्षणाददृश्यत महान् पुरुषो नीललोहितः ॥ २६ ॥

त्रिशूलपिङ्गलो देवो नागयज्ञोपवीतवान् ।
तं प्राह भगवान् ब्रह्मा शङ्करं नीललोहितम् ॥ २७ ॥

जानामि भवतः पूर्वं ललाटादेव शङ्कर ।
प्रादुर्भावं महेशान् मामेव शरणं व्रज ॥ २८ ॥

श्रुत्वा सगर्ववचनं पद्मयोनेरथेश्वरः ।
प्राहिणोत् पुरुषं कालं भैरवं लोकदाहकम् ॥ २९ ॥

स कृत्वा सुमहद् युद्धं ब्रह्मणा कालभैरवः ।
चकर्त तस्य वदनं विरिञ्चस्याथ पञ्चमम् ॥ ३० ॥

निकृत्तवदनो देवो ब्रह्मा देवेन शम्भुना ।
ममार चेशयोगेन जीवितं प्राप विश्वसृक् ॥ ३१ ॥

अथानुपश्यद् गिरिशं मण्डलान्तरसंस्थितम् ।
समासीनं महादेव्या महादेवं सनातनम् ॥ ३२ ॥

भुजङ्गराजवलयं चन्द्रावयवभूषणम् ।
कोटिसूर्यप्रतीकाशं जटाजूटविराजितम् ॥ ३३ ॥

शार्दूलचर्मवसनं दिव्यमालासमन्वितम् ।
त्रिशूलपाणिं दुष्प्रेक्ष्यं योगिनं भूतिभूषणम् ॥ ३४ ॥

यमन्तरा योगनिष्ठाः प्रपश्यन्ति हृदीश्वरम् ।
तमादिदेवं ब्रह्माणं महादेवं ददर्श ह ॥ ३५ ॥

यस्य सा परमा देवी शक्तिराकाशसंस्थिता ।
सो ऽनन्तैश्वर्ययोगात्मा महेशो दृश्यते किल ॥ ३६ ॥

यस्याशेषजगद् बीजं विलयं याति मोहनम् ।
सकृत्प्रणाममात्रेण स रुद्रः खलु दृश्यते ॥ ३७ ॥

यो ऽथ नाचारनिरतान् स्वभक्तानेव केवलम् ।
विमोचयति लोकानां नायको दृश्यते किल ॥ ३८ ॥

यस्य वेदविदः शान्ता निर्द्वन्द्वा ब्रह्मचारिणः ।
विदन्ति विमलं रूपं स शम्भुर्दृश्यते किल ॥ ३९ ॥

यस्य ब्रह्मादयो देवा ऋषयो ब्रह्मवादिनः ।
अर्चयन्ति सदा लिङ्गं विश्वेशः खलु दृश्यते ॥ ४० ॥

मूलम्

यस्य ब्रह्मादयो देवा ऋषयो ब्रह्मवादिनः ।
अर्चयन्ति सदा लिङ्गं विश्वेशः खलु दृश्यते ॥ ४० ॥

विश्वास-प्रस्तुतिः

यस्याशेषजगद् बीजं विलयं याति मोहनम् ।
सकृत्प्रणाममात्रेण स रुद्रः खलु दृश्यते ॥ ४१ ॥

विद्यासहायो भगवान् यस्यासौ मण्डलान्तरम् ।
हिरण्यगर्भपुत्रो ऽसावीश्वरो दृश्यते किल ॥ ४२ ॥

यस्याशेषजगत्सूतिर्विज्ञानतनुरीश्वरी ।
न मुञ्चति सदा पार्श्वं शङ्करो ऽसावदृश्यत ॥ ४३ ॥

पुष्पं वा यदि वा पत्रं यत्पादयुगले जलम् ।
दत्त्वा तरति संसारं रुद्रो ऽसौ दृश्यते किल ॥ ४४ ॥

तत्सन्निधाने सकलं नियच्छति सनातनः ।
कालः किल स योगात्मा कालकालो हि दृश्यते ॥ ४५ ॥

जीवनं सर्वलोकानां त्रिलोकस्यैव भूषणम् ।
सोमः स दृश्यते देवः सोमो यस्य विभूषणम् ॥ ४६ ॥

देव्या सह सदा साक्षाद् यस्य योगः स्वभावतः ।
गीयते परमा मुक्तिः स योगी दृश्यते किल ॥ ४७ ॥

योगिनो योगतत्त्वज्ञा वियोगाभिमुखानिशम् ।
योगं ध्यायन्ति देव्यासौ स योगी दृश्यते किल ॥ ४८ ॥

सो ऽनुवीक्ष्य महादेवं महादेव्या सनातनम् ।
वरासने समासीनमवाप परमां स्मृतिम् ॥ ४९ ॥

लब्ध्वा माहेश्वरीं दिव्यां संस्मृतिं भगवानजः ।
तोषयामास वरदं सोमं सोमविभूषणम् ॥ ५० ॥

ब्रह्मोवाच
विश्वास-प्रस्तुतिः

नमो देवाय महते महादेव्यै नमो नमः ।
नमः शिवाय शान्ताय शिवायै शान्तये नमः ॥ ५१ ॥

ॐ नमो ब्रह्मणे तुभ्यं विद्यायै ते नमो नमः ।
नमो मूलप्रकृतये महेशाय नमो नमः ॥ ५२ ॥

नमो विज्ञानदेहाय चिन्तायै ते नमो नमः ।
नमस्ते कालकालाय ईश्वरायै नमो नमः ॥ ५३ ॥

मूलम्

नमो विज्ञानदेहाय चिन्तायै ते नमो नमः ।
नमस्ते कालकालाय ईश्वरायै नमो नमः ॥ ५३ ॥

विश्वास-प्रस्तुतिः

नमो नमो ऽस्तु रुद्राय रुद्राण्यै ते नमो नमः ।
नमो नमस्ते कामाय मायायै च नमो नमः ॥ ५४ ॥

नियन्त्रे सर्वकार्याणां क्षोभिकायै नमो नमः ।
नमो ऽस्तु ते प्रकृतये नमो नारायणाय च ॥ ५५ ॥

योगादायै नमस्तुभ्यं योगिनां गुरवे नमः ।
नमः संसारनाशाय संसारोत्पत्तये नमः ॥ ५६ ॥

नित्यानन्दाय विभवे नमो ऽस्त्वानन्दमूर्तये ।
नमः कार्यविहीनाय विश्वप्रकृतये नमः ॥ ५७ ॥

ओङ्कारमूर्तये तुभ्यं तदन्तः संस्थिताय च ।
नमस्ते व्योमसंस्थाय व्योमशक्त्यै नमो नमः ॥ ५८ ॥

इति सोमाष्टकेनेशं प्रणनाम पितामहः ।
पपात दण्डवद् भूमौ गृणन् वै शतरुद्रियम् ॥ ५९ ॥

अथ देवो महादेवः प्रणतार्तिहरो हरः ।
प्रोवाचोत्थाप्य हस्ताभ्यां प्रतो ऽस्मि तव साम्प्रतम् ॥ ६० ॥

दत्त्वासौ परमं योगमैश्वर्यमतुलं महत् ।
प्रोवाचाग्रे स्थितं देवं नीललोहितमीश्वरम् ॥ ६१ ॥

एष ब्रह्मास्य जगतः सम्पूज्यः प्रथमः सुतः ।
आत्मनो रक्षणीयस्ते गुरुर्ज्येष्ठः पिता तव ॥ ६२ ॥

अयं पुराणपुरुषो न हन्तव्यस्त्वयानघ ।
स्वयोगैश्वर्यमाहात्म्यान्मामेव शरणं गतः ॥ ६३ ॥

अयं च यज्ञो भगवान् सगर्वो भवतानघ ।
शासितव्यो विरिञ्चस्य धारणीयं शिरस्त्वया ॥ ६४ ॥

ब्रह्महत्यापनोदार्थं व्रतं लोकाय दर्शयन् ।
चरस्व सततं भिक्षां संस्थापय सुरद्विजान् ॥ ६५ ॥

इत्येतदुक्त्वा वचनं भगवान् परमेश्वरः ।
स्थानं स्वाभाविकं दिव्यं ययौ तत्परमं पदम् ॥ ६६ ॥

ततः स भगवानीशः कपर्दे नीललोहितः ।
ग्राहयामास वदनं ब्रह्मणः कालभैरवम् ॥ ६७ ॥

चर त्वं पापनाशार्थं व्रतं लोकहितावहम् ।
कपालहस्तो भगवान् भिक्षां गृह्णातु सर्वतः ॥ ६८ ॥

उक्त्वैवं प्राहिणोत् कन्यां ब्रह्महत्यामिति श्रुताम् ।
दंष्ट्राकरालवदनां ज्वालामालाविभूषणाम् ॥ ६९ ॥

यावद् वाराणसीं दिव्यां पुरीमेष गमिष्यति ।
तावत् त्वं भीषणे कालमनुगच्छ त्रिलोचनम् ॥ ७० ॥

एवमाभाष्य कालाग्निं प्राह देवो महेश्वरः ।
अटस्व निखिलं लोकं भिक्षार्थो मन्नियोगतः ॥ ७१ ॥

यदा द्रक्ष्यसि देवेशं नारायणमनामयम् ।
तदासौ वक्ष्यति स्पष्टमुपायं पापशोधनम् ॥ ७२ ॥

स देवदेवतावाक्यमाकर्ण्य भगवान् हरः ।
कपालपाणिर्विश्वात्मा चचार भुवनत्रयम् ॥ ७३ ॥

आस्थाय विकृतं वेषं दीप्यमानं स्वतेजसा ।
श्रीमत् पवित्रमतुलं जटाजूटविराजितम् ॥ ७४ ॥

कोटिसूर्यप्रतीकाशैः प्रमथैश्चातिगर्वितैः ।
भाति कालाग्निनयनो महादेवः समावृतः ॥ ७५ ॥

पीत्वा कदमृतं दिव्यमानन्दं परमेष्ठिनः ।
लीलाविलासूबहुलो लोकानागच्छतीश्वरः ॥ ७६ ॥

तं दृष्ट्वा कालवदनं शङ्करं कालभैरवम् ।
रूपलावण्यसम्पन्नं नारीकुलमगादनु ॥ ७७ ॥

मूलम्

तं दृष्ट्वा कालवदनं शङ्करं कालभैरवम् ।
रूपलावण्यसम्पन्नं नारीकुलमगादनु ॥ ७७ ॥

विश्वास-प्रस्तुतिः

गायन्ति विविधं गीतं नृत्यन्ति पुरतः प्रभोः ।
सस्मितं प्रेक्ष्य वदनं चक्रुर्भ्रूभङ्गमेव च ॥ ७८ ॥

स देवदानवादीनां देशानभ्येत्य शूलधृक् ।
जगाम विष्णोर्भवनं यत्रास्ते मधुसूदनः ॥ ७९ ॥

निरीक्ष्य दिव्यभवनं शङ्करो लोकशङ्करः ।
सहैव भूतप्रवरैः प्रवेष्टुमुपचक्रमे ॥ ८० ॥

अविज्ञाय परं भावं दिव्यं तत्पारमेश्वरम् ।
न्यवारयत् त्रिशूलाङ्कं द्वारपालो महाबलः ॥ ८१ ॥

शङ्खचक्रगदापाणिः पीतवासा महाभुजः ।
विष्वक्सेन इति ख्यातो विष्णोरंशसमुद्भवः ॥ ८२ ॥

अथैनं शङ्करगणो युयुधे विष्णुसम्भवम् ।
भीषणो भैरवादेशात् कालवेग इति श्रुतः ॥ ८३ ॥

विजित्य तं कालवेगं क्रोधसंरक्तलोचनः ।
रुद्रायाभिमुखं रौद्रं चिक्षेप च सुदर्शनम् ॥ ८४ ॥

अथ देवो महादेवस्त्रिपुरारिस्त्रिशूलभृत् ।
तमापतन्तं सावज्ञमालोकयदमित्रजित् ॥ ८५ ॥

तदन्तरे महद्भूतं युगान्तदहनोपमम् ।
शूलेनोरसि निर्भिद्य पातयामास तं भुवि ॥ ८६ ॥

स शूलाभिहतो ऽत्यर्थं त्यक्त्वा स्वं परमं बलम् ।
तत्याज जीवितं दृष्ट्वा मृत्युं व्याधिहता इव ॥ ८७ ॥

निहत्य विष्णुपुरुषं सार्धं प्रमथपुङ्गवैः ।
विवेश चान्तरगृहं समादाय कलेवरम् ॥ ८८ ॥

निरीक्ष्य जगतो हेतुमीश्वरं भगवान् हरिः ।
शिरो ललाटात् सम्भिद्य रक्तधारामपातयत् ॥ ८९ ॥

गृहाण भगवन् भिक्षां मदीयाममितद्युते ।
न विद्यते ऽनाभ्युदिता तव त्रिपुरमर्दन ॥ ९० ॥

न सम्पूर्णं कपालं तद् ब्रह्मणः परमेष्ठिनः ।
दिव्यं वर्षसहस्रं तु सा च धारा प्रवाहिता ॥ ९१ ॥

अथाब्रवीत् कालरुद्रं हरिर्नारायणः प्रभुः ।
संस्तूय वैदिकैर्मन्त्रैर्बहुमानपुरः सरम् ॥ ९२ ॥

किमर्थमेतद् वदनं ब्रह्मणो भवता धृतम् ।
प्रोवाच वृत्तमखिलं भगवान् परमेश्वरः ॥ ९३ ॥

समाहूय हृषीकेशो ब्रह्महत्यामथाच्युतः ।
प्रार्थयामास देवेशो विमुञ्चेति त्रिशूलिनम् ॥ ९४ ॥

न तत्याजाथ सा पार्श्वं व्याहृतापि मुरारिणा ।
चिरं ध्यात्वा जगद्योनिः शङ्करं प्राह सर्ववित् ॥ ९५ ॥

व्रजस्व भगवन् दिव्यां पुरीं वाराणसीं शुभाम् ।
यत्राखिलजगद्दोषं क्षिप्रं नाशयताश्वरः ॥ ९६ ॥

ततः शर्वाणि गुह्यानि तीर्थान्यायतनानि च ।
जगाम लीलया देवो लोकानां हितकाम्यया ॥ ९७ ॥

संस्तूयमानः प्रमथैर्महायोगैरितस्ततः ।
नृत्यमानो महायोगी हस्तन्यस्तकलेवरः ॥ ९८ ॥

तमभ्यधावद् भगवान् हरिर्नारायणः स्वयम् ।
अथास्थायापरं रूपं नृत्यदर्शनलालसः ॥ ९९ ॥

निरीक्षमाणो नोविन्दं वृषेन्द्राङ्कितशासनः ।
सस्मितो ऽनन्तयोगात्मा नृत्यति स्म पुनः पुनः ॥ १०० ॥

अथ सानुचरो रुद्रः सहरिर्धर्मवाहनः ।
भेजे महादेवपुरीं वाराणसीमिति श्रुताम् ॥ १०१ ॥

प्रविष्टमात्रे देवेशे ब्रह्महत्या कपर्दिनि ।
हा हेत्युक्त्वा सनादं सा पातालं प्राप दुः खिता ॥ १०२ ॥

प्रविश्य परमं स्थानं कपालं ब्रह्मणो हरः ।
गणानामग्रतो देवः स्थापयामास शङ्करः ॥ १०३ ॥

स्थापयित्वा महादेवो ददौ तच्च कलेवरम् ।
उक्त्वा सजीवमस्त्वीशो विष्णवे स घृणानिधिः ॥ १०४ ॥

ये स्मरन्ति ममाजस्त्रं कापालं वेषमुत्तमम् ।
तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम् ॥ १०५ ॥

आगम्य तीर्थप्रवरे स्नानं कृत्वा विधानतः ।
तर्पयित्वा पितॄन् देवान् मुच्यते ब्रह्महत्यया ॥ १०६ ॥

अशाश्वतं जगज्ज्ञात्वा ये ऽस्मिन् स्थाने वसन्ति वै ।
देहान्ते तत् परं ज्ञानं ददामि परमं पदम् ॥ १०७ ॥

इतीदमुक्त्वा भगवान् समालिङ्ग्य जनार्दनम् ।
सहैव प्रमथेशानैः क्षणादन्तरधीयत ॥ १०८ ॥

स लब्ध्वा भगवान् कृष्णो विष्वक्सेनं त्रिशूलिनः ।
स्वं देशमगत् तूर्णं गृहीत्वां परमं वपुः ॥ १०९ ॥

एतद् वः कथितं पुण्यं महापातकनाशनम् ।
कपालमोचनं तीर्थं स्थाणोः प्रियकरं शुभम् ॥ ११० ॥

य इमं पठते ऽध्यायं ब्राह्मणानां समीपतः ।
वाचिकैर्मानसैः पापैः कायिकैश्च विमुच्यते ॥ १११ ॥

इति श्रीकूर्मपाराणे षट्साहस्त्र्यां संहितायामुपरिविभागे एकत्रिशो ऽध्यायः