व्यास उवाच
विश्वास-प्रस्तुतिः
अतः परं प्रवलक्ष्यामि प्रायश्चित्तविधिं शुभम् ।
हिताय सर्वविप्राणां दोषाणामपनुत्तये ॥ १ ॥
मूलम्

अकृत्वा विहितं कर्म कृत्वा निन्दितमेव च ।
दोषमाप्नोति पुरुषः प्रायश्चित्तं विशोधनम् ॥ २ ॥

प्रायश्चित्तमकृत्वा तु न तिष्ठेद् ब्राह्मणः क्वचित् ।
यद् ब्रूयुर्ब्राह्मणाः शान्ता विद्वांसस्तत्समाचरेत् ॥ ३ ॥

वेदार्थवित्तमः शान्तो धर्मकामो ऽग्निमान् द्विजः ।
स एव स्यात् परो धर्मो यमेको ऽपि व्यवस्यति ॥ ४ ॥

अनाहिताग्नयो विप्रास्त्रयो वेदार्थपारगाः ।
यद् ब्रूयुर्धर्मकामास्ते तज्ज्ञेयं धर्मसाधनम् ॥ ५ ॥

अनेकधर्मशास्त्रज्ञा ऊहापोहविशारदाः ।
वेदाध्ययनसम्पन्नाः सप्तैते परिकीर्तिताः ॥ ६ ॥

मीमांसाज्ञानतत्त्वज्ञा वेदान्तकुशला द्विजाः ।
एकविंशतिसङ्ख्याताः प्रयाश्चित्तं वदन्ति वै ॥ ७ ॥

ब्रह्महा मद्यपः स्तेनो गुरुतल्पग एव च ।
महापातकिनस्त्वेते यश्चैतैः सह संवसेत् ॥ ८ ॥

संवत्सरं तु पतितैः संसर्गं कुरुते तु यः ।
यानशय्यासनैर्नित्यं जानन् वै पतितो भवेत् ॥ ९ ॥

याजनं योनिसम्बन्धं तथैवाध्यापनं द्विजः ।
कृत्वा सद्यः पतेज्ज्ञानात् सह भोजनमेव च ॥ १० ॥

अविज्ञायाथ यो मोहात् कुर्यादध्यापनं द्विजः ।
संवत्सरेण पतति सहाध्ययनमेव च ॥ ११ ॥

ब्रह्माहा द्वादशाब्दानि कुटिं कृत्वा वने वसेत् ।
भैक्षमात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजम् ॥ १२ ॥

ब्राह्मणावसथान् सर्वान् देवागाराणि वर्जयेत् ।
विनिन्दन् स्वयमात्मानं ब्राह्मणं तं च संस्मरन् ॥ १३ ॥

असङ्कल्पितयोग्यानि सप्तागाराणि संविशेत् ।
विधूमे शनकैर्नित्यं व्यङ्गारे भुक्तवज्जने ॥ १४ ॥

एककालं चरेद् भैक्षं दोषं विख्यापयन् नृणाम् ।
वन्यमूलफलैर्वापि वर्तयेद् धैर्यमाक्षितः ॥ १५ ॥

कपालपाणिः खट्वाङ्गी ब्रह्मचर्यपरायणः ।
पूर्णे तु द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥ १६ ॥

अकामतः कृते पापे प्रायश्चित्तमिदं शुभम् ।
कामतो मरणाच्छुद्धिर्ज्ञेया नान्येन केनचित् ॥ १७ ॥

कुर्यादनशनं वाथ भृगोः पतनमेव वा ।
ज्वलन्तं वा विशेदग्निं जलं वा प्रविशेत् स्वयम् ॥ १८ ॥

ब्राह्मणार्थे गवार्थे वा सम्यक् प्राणान् परित्यजेत् ।
ब्रह्महत्यापनोदार्थमन्तरा वा मृतस्य तु ॥ १९ ॥

दीर्घामयान्वितं विप्रं कृत्वानामयमेव तु ।
दत्त्वा चान्नं स दुर्भिक्षे ब्रह्महत्यां व्यपोहति ॥ २० ॥

अश्वमेधावभृथके स्नात्वा वा शुध्यते द्विजः ।
सर्वस्वं वा वेदविदे ब्राह्मणाय प्रदाय तु ॥ २१ ॥

सरस्वत्यास्त्वरुणया सङ्गमे लोकविश्रुते ।
शुध्येत् त्रिषवणस्नानात् त्रिरात्रोपोषितो द्विजः ॥ २२ ॥

गत्वा रामेश्वरं पुण्यं स्नात्वा चैव महोदधौ ।
ब्रह्मचर्यादिभिर्युक्तो दृष्ट्वा रुद्रं विमुच्यते ॥ २३ ॥

कपालमोचनं नाम तीर्थं देवस्य शूलिनः ।
स्नात्वाभ्यर्च्य पितॄन् भक्त्या ब्रह्महत्यां व्यपोहति ॥ २४ ॥

यत्र देवादिदेवेन भरवेणामितौजसा ।
कपालं स्थापितं पूर्वं ब्रह्मणः परमेष्ठिनः ॥ २५ ॥

समभ्यर्च्य महादेवं तत्र भैरवरूपिणम् ।
तर्पपित्वा पितॄन् स्नात्वा मुच्यते ब्रह्महत्यया ॥ २६ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे त्रिशो ऽध्यायः