२९

व्यास उवाच

विश्वास-प्रस्तुतिः

एवं स्वाश्रमनिष्ठानां यतीनां नियतात्मनाम् ।
भैक्षेण वर्तनं प्रोक्तं फलमूलैरथापि वा ॥ १ ॥

मूलम्

एककालं चरेद् भैक्षं न प्रसज्येत विस्तरे ।
भैक्षे प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥ २ ॥

सप्तागारं चरेद् भैक्षमलाभात् तु पुनश्चरेत् ।
प्रक्षाल्य पात्रे भुञ्जीयादद्भिः प्रक्षालयेत् तु तत् ॥ ३ ॥

अथवान्यदुपादाय पात्रे भुञ्जीत नित्यशः ।
भुक्त्वा तत् सन्त्यजेत् पात्रं यात्रामात्रमलोलुपः ॥ ४ ॥

विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने ।
वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत् ॥ ५ ॥

गोदोहमात्रं तिष्ठेत कालं भिक्षुरधोमुखः ।
भिक्षेत्युक्त्वा सकृत् तूष्णीमश्नीयाद् वाग्यतः शुचिः ॥ ६ ॥

प्रक्षाल्य पाणिपादौ च समाचम्य यथाविधि ।
आदित्ये दर्शयित्वान्नं भुञ्जीत प्राङ्मुखोत्तरः ॥ ७ ॥

हुत्वा प्राणाहुतीः पञ्च ग्रासानष्टौ समाहितः ।
आचम्य देवं ब्रह्माणं ध्यायीत परमेश्वरम् ॥ ८ ॥

अलाबुं दारुपात्रं च मृण्मयं वैणवं ततः ।
चत्वारि यतिपात्राणि मनुराह प्रजापतिः ॥ ९ ॥

प्राग्रात्रे पररात्रे च मध्यरात्रे तथैव च ।
सन्ध्यास्वह्नि विशेषेण चिन्तयेन्नित्यमीश्वरम् ॥ १० ॥

कृत्वा हृत्पद्मनिलये विश्वाख्यं विश्वसम्भवम् ।
आत्मानं सर्वभूतानां परस्तात् तमसः स्थितम् ॥ ११ ॥

सर्वस्याधारभूतानामानन्दं ज्योतिरव्ययम् ।
प्रधानपुरुषातीतमाकाशं दहनं शिवम् ॥ १२ ॥

तदन्तः सर्वभावानामीश्वरं ब्रह्मरूपिणम् ।
ध्यायेदनादिमद्वैतमानन्दादिगुणालयम् ॥ १३ ॥

महान्तं परमं ब्रह्म पुरुषं सत्यमव्ययम् ।
सितेतरारुणाकारं महेशं विश्वरूपिणम् ॥ १४ ॥

ओङ्कारान्ते ऽथ चात्मानं संस्थाप्य परमात्मनि ।
आकाशे देवमीशानं ध्यायीताकाशमध्यगम् ॥ १५ ॥

कारणं सर्वभावानामानन्दैकसमाश्रयम् ।
पुराणं पुरुषं शम्भुं ध्यायन् मुच्येत बन्धनात् ॥ १६ ॥

यद्वा गुहायां प्रकृतौ जगत्सम्मोहनालये ।
विचिन्त्य परमं व्योम सर्वभूतैककारणम् ॥ १७ ॥

जीवनं सर्वभूतानां यत्र लोकः प्रलीयते ।
आनन्दं ब्रह्मणः सूक्ष्मं यत् पश्यन्ति मुमुक्षवः ॥ १८ ॥

तन्मध्ये निहितं ब्रह्म केवलं ज्ञानलक्षणम् ।
अनन्तं सत्यमीशानं विचिन्त्यासीत संयतः ॥ १९ ॥

गुह्याद् गुह्यतमं ज्ञानं यतीनामेतदीरितम् ।
यो ऽनुतिष्ठेन्महेशेन सो ऽश्नुते योगमैश्वरम् ॥ २० ॥

तस्माद् ध्यानरतो नित्यमात्मविद्यापरायणः ।
ज्ञानं समभ्यसेद् ब्राह्मं येन मुच्येत बन्धनात् ॥ २१ ॥

मत्वा पृथक् स्वमात्मानं सर्वस्मादेव केवलम् ।
आनन्दमजरं ज्ञानं ध्यायीत च पुनः परम् ॥ २२ ॥

यस्मात् भवन्ति भूतानि यद् गत्वा नेह जायते ।
स तस्मादीश्वरो देवः परस्माद् यो ऽधितिष्ठति ॥ २३ ॥

यदन्तरे तद् गगनं शाश्वतं शिवमव्ययम् ।
यदंशस्तत्परो यस्तु स देवः स्यान्महेश्वरः ॥ २४ ॥

व्रतानि यानि भिक्षूणां तथैवोपव्रतानि च ।
एकैकातिक्रमे तेषां प्रायश्चित्तं विधीयते ॥ २५ ॥

उपेत्य च स्त्रियं कामात् प्रायश्चित्तं समाहितः ।
प्राणायामसमायुक्तं कुर्यात् सान्तपनं शुचिः ॥ २६ ॥

ततश्चरेत नियमात् कृच्छ्रं संयतमानसः ।
पुनराश्रममागम्य चरेद् भिश्रुरतन्द्रितः ॥ २७ ॥

न धर्मयुक्तमनृतं हिनस्तीति मनीषिणः ।
तथापि च न कर्तव्यं प्रसङ्गो ह्येष दारुणः ॥ २८ ॥

एकरात्रोपवासश्च प्राणायामशतं तथा ।
उक्त्वानृतं प्रकर्तव्यं यतिना धर्मलिप्सुना ॥ २९ ॥

परमापद्गतेनापि न कार्यं स्तेयमन्यतः ।
विश्वास-प्रस्तुतिः

स्तेयादभ्यधिकः कश्चिन्नास्त्यधर्म इति स्मृतिः ।
हिंसा चैषापरा दिष्टा या चात्मज्ञाननाशिका ॥ ३० ॥

यदेतद् द्रविणं नाम प्राण ह्येते बहिश्वराः ।
स तस्य हरति प्राणान् यो यस्य हरते धनम् ॥ ३१ ॥

एवं कृत्वा स दुष्टात्मा भिन्नवृत्तो व्रताच्च्युतः ।
भूयो निर्वेदमापन्नश्चरेच्चान्द्रायणव्रतम् ॥ ३२ ॥

विधिना शास्त्रदृष्टेन संवत्सरमिति श्रुतिः ।
भूयो निर्वेदमापन्नश्चरेद् भिक्षुरतन्द्रितः ॥ ३३ ॥

अकस्मादेव हिंसां तु यदि भिक्षुः समाचरेत् ।
कुर्यात्कृछ्रातिकृच्छ्रं तु चान्द्रायणमथापि वा ॥ ३४ ॥

स्कन्देदिन्द्रियदौर्बल्यात् स्त्रियं दृष्ट्वा यतिर्यदि ।
विश्वास-प्रस्तुतिः

तेन धारयितव्या वै प्राणायामास्तु षोडश ।
दिवास्कन्दे त्रिरात्रं स्यात् प्राणायामशतं तथा ॥ ३५ ॥

एकान्ने मधुमांसे च नवश्राद्धे तथैव च ।
प्रत्यक्षलवणे चोक्तं प्राजापत्यं विशोधनम् ॥ ३६ ॥

ध्याननिष्ठस्य सततं नश्यते सर्वपातकम् ।
तस्मान्महेश्वरं ज्ञात्वा तस्य ध्यानपरो भवेत् ॥ ३७ ॥

यद् ब्रह्म परमं ज्योतिः प्रतिष्ठाक्षरमद्वयम् ।
यो ऽन्तरात्र परं ब्रह्म स विज्ञेयो महेश्वरः ॥ ३८ ॥

एष देवो महादेवः केवलः परमः शिवः ।
तदेवाक्षरमद्वैतं तदादित्यान्तरं परम् ॥ ३९ ॥

यस्मान्महीयते देवः स्वधाम्नि ज्ञानसञ्ज्ञिते ।
आत्मयोगाह्वये तत्त्वे महादेवस्ततः स्मृतः ॥ ४० ॥

नान्यद् देवान्महादेवाद् व्यतिरिक्तं प्रपश्यति ।
तमेवात्मानमन्वेति यः स याति परं पदम् ॥ ४१ ॥

मन्यते ये स्वमात्मानं विभिन्नं परमेश्वरात् ।
न ते पश्यन्ति तं देवं वृथा तेषां परिश्रमः ॥ ४२ ॥

एकमेव परं ब्रह्म विज्ञेयं तत्त्वमव्ययम् ।
स देवस्तु महादेवो नैतद् विज्ञाय बध्यते ॥ ४३ ॥

तस्माद् यतेत नियतं यतिः संयतमानसः ।
ज्ञानयोगरतः शान्तो महादेवपरायणः ॥ ४४ ॥

मूलम्

तस्माद् यतेत नियतं यतिः संयतमानसः ।
ज्ञानयोगरतः शान्तो महादेवपरायणः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

एष वः कथितो विप्रो यतीनामाश्रमः शुभः ।
पितामहेन विभुना मुनीनां पूर्वमीरितम् ॥ ४५ ॥

नापुत्रशिष्ययोगिभ्यो दद्यादिदमनुत्तमम् ।
ज्ञानं स्वयम्भुवा प्रोक्तं यतिधर्माश्रयं शिवम् ॥ ४६ ॥

इति यतिनियमानामेतदुक्तं विधानं पशुपतिपरितोषे यद् भवेदेकहेतुः । न भवति पुनरेषामुद्भवो वा विनाशः प्रणिहितमनसो ये नित्यमेवाचरन्ति ॥ ४७ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे एकोनत्रिंशो ऽध्यायः